अध्यायः 202
युधिष्ठिरेण भीष्मं प्रति सप्रशंसनं पुनर्धर्मकथनप्रार्थना ॥ 1 ॥
वैशम्पायन उवाच । 001
अनुशास्य शुभैर्वाक्यैर्भीष्ममाह महामतिः । 001a
प्रीत्या पुनः स शुश्रूषुर्वचनं यद्युधिष्ठिरः ॥ 001c
जनमेजय उवाच । 002
पितामहो मे विप्रर्षे भीष्मं कालवशं गतम् । 002a
किमपृच्छत्तदा राजा सर्वसामाजिकं हितम् ॥ 002c
उभयोर्लोकयोर्युक्तं पुरुषार्थमनुत्तमम् । 003a
तन्मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे ॥ 003c
वैशम्पायन उवाच । 004
भूय एव महाराज शृणु धर्मसमुच्चयम् । 004a
यदपृच्छत्तदा राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 004c
शरतल्पगतं भीष्मं सर्वपार्थिवसन्निधौ । 005a
अजातशत्रुः प्रीतात्मा पुनरेवाभ्यभाषत ॥ 005c
पितामह महाप्राज्ञ सर्वशास्त्रविशारदः । 006a
श्रूयतां मे हि वचनमर्थित्वात्प्रब्रवीम्यहम् ॥ 006c
परावरज्ञो भूतानां दयावान्सर्वजन्तुषु । 007a
आगमैर्बहुभिः प्रीतो भवान्नः परमं कुले ॥ 007c
त्वादृशो दुर्लभो लोके साम्प्रतं ज्ञानसंयुतः । 008a
भवता गुरुणा चैव धन्याश्चैव वयं प्रभो ॥ 008c
अयं स कालः सम्प्राप्तो दुर्लभैर्ज्ञातिबान्धवैः । 009a
शास्ता तु नास्ति नः कश्चित्त्वदृते पुरुषर्षभ ॥ 009c
तस्माद्धर्मार्थसहितमायत्यां च हितोदयम् । 010a
आश्चर्यं परमं वाक्यं श्रोतुमिच्छामि भारत ॥ 010c
अयं नारायणः श्रीमन्सर्वपार्थिवसन्निधौ । 011a
भवन्तं बहुमानाच्च प्रणयाच्चैव सेवते ॥ 011c
अस्यैव तु समक्षं नः पार्थिवानां तथैव च । 012a
इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम् ॥ 012c
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ । 013a
मत्प्रियार्थं हि कौरव्य स्नेहाद्भाषितुमर्हसि ॥ 013c
वैशम्पायन उवाच । 014
तस्य तद्वचनं श्रुत्वा स्नेहादागतविक्लवः । 014a
प्रविबन्निव तं दृष्ट्वा भीष्मो वचनमब्रवीत् ॥ 014c
एतावदुक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम् । 015a शृणु राजन्पुरावृत्तिमितिहासं पुरातनम् ।015c
धर्मराजं समीक्ष्येदं पुनर्वक्तुं समारभत् ॥ ॥ 015e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥
13-202-1 एकोत्तरद्विशततमाध्यायात्परं एकपञ्चाशदधिकद्विशततमाद्यायात्पूर्वं मध्ये परिदृश्यमानैकोनपञ्चाशदध्यायप्रतिनिधितया औत्तराहकोशे अष्टावेवाध्यायाः परिदृश्यन्ते । तेचानुपूर्वीभेदेन तदर्थैकदेशप्रतिपादका एव दृश्यन्ते न तु तदनुक्तार्थप्रतिपादकाः ॥