अध्यायः 201

भीष्मेण युधिष्ठिरं प्रति दानस्य पञ्चविधत्वकथनपूर्वकं तत्तल्लक्ष्यप्रदर्शनम् ॥ 1 ॥

[युधिष्ठिर उवाच । 001
श्रुतं मे भवतस्तात सत्यव्रतपराक्रम । 001a
दानधर्मेण महता ये प्राप्तास्त्रिदिवं नृपाः ॥ 001c
इमांस्तु श्रोतुमिच्छामि ध्रमान्धर्मभृतांवर । 002a
दानं कतिविधं देयं किं तस्य च फलं लभेत् ॥ 002c
कथं केभ्यस्च धर्म्यं च दानं दातव्यमिष्यते । 003a
कैः कारणैः कतिविधं श्रोतुमिच्छामि तत्त्वतः ॥ 003c
भीष्म उवाच । 004
शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ । 004a
यथा दानं प्रदातव्यं सर्ववर्णेषु भारत ॥ 004c
धर्मादर्थाद्भयात्कामात्कारुण्यादिति भारत । 005a
दानं पञ्चविधं ज्ञेयं कारणैर्यैर्निबोध तत् ॥ 005c
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् । 006a
इति दानं प्रदातव्यं ब्राह्मणेभ्योऽनसूयता ॥ 006c
ददाति वा दास्यति वा मह्यं दत्तमनेन वा । 007a
इत्यर्तिभ्यो निशम्यैव सर्वं दातव्यमर्थिने ॥ 007c
नास्याहं न मदीयोऽयं पापं कुर्याद्विमानितः । 008a
इति दद्याद्भयादेव दृढं मूढाय पण्डितः ॥ 008c
प्रियो मे यं प्रियोऽस्याहमिति सम्प्रेक्ष्य बुद्धिमान् । 009a
वयस्यायैवमक्लिष्टं दानं दद्यादतन्द्रितः ॥ 009c
दीनश्च याचते चायमल्पेनापि हि तुष्यति । 010a
इति दद्याद्दरिद्राय कारुण्यादिति सर्वथा ॥ 010c
यथाशक्त्या प्रदातव्यमेवमाह प्रजापतिः ॥] 011a इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम् ।011c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥ 13-201-6 धर्मद्दानं व्याचष्टे इहेति ॥ 13-201-7 अर्थादित्यस्य लक्षणमाह ददातीति ॥