श्रीः अध्यायः 200

भीष्मेण युधिष्ठिरम् प्रति दृष्टान्तप्रदर्शनपूर्वकं दानप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
दानेन वर्ततेत्याह तपसा चैव भारत । 001a
तदेतन्मे मनोदुःखं व्यपोह त्वं पितामह । 001c
किंस्वित्पृथिव्यां ह्येतन्मे भवाञ्शंसितुमर्हति ॥ 001e
भीष्म उवाच 002
शृणु यैर्धर्मनिरतैस्तपसा भावितात्मभिः । 002a
लोका ह्यसंशयं प्राप्ता दानपुण्यरतैर्नृपैः ॥ 002c
सत्कृतश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् । 003a
उपदिश्य तदा राजन्गतो लोकाननुत्तमान् ॥ 003c
शिबिरोशीनरः प्राणान्प्रियस्य तनयस्य च । 004a
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥ 004c
प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम् । 005a
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥ 005c
रन्तिदेवश्च साङ्कृत्यो वसिष्ठाय महात्मने । 006a
अर्घ्यं प्रदाय विधिवल्लेभे लोकाननुत्तमान् ॥ 006c
दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम् । 007a
छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम् ॥ 007c
भगवानम्बरीषश्च ब्राह्मणायामितौजसे । 008a
प्रदाय सकलं राष्ट्रं सुरलोकमवाप्तवान् ॥ 008c
सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः । 009a
ब्राह्मणाय च गा दत्त्वा गतो लोकाननुत्तमान् ॥ 009c
वृषादर्भिश्च राजर्षी रत्नानि विविधानि च । 010a
रम्यांश्चावसथान्दत्त्वा द्विजेभ्यो दिवमागतः ॥ 010c
निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने । 011a
अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः ॥ 011c
जामदग्न्यश्च विप्राय भूमिं दत्त्वा महायशाः । 012a
रामोऽक्षयांस्तथा लोकाञ्जगाम मनसोऽधिकान् ॥ 012c
अवर्षति च पर्जन्ये सर्वभूतानि देवराट् । 013a
वसिष्ठो जीवयामास येन यातोऽक्षयां गतिम् ॥ 013c
रामो दाशरथिश्चैव हुत्वा यज्ञेषु वै वसु । 014a
स गतो ह्यक्षयाल्ँलोकान्यस्य लोके महद्यशः ॥ 014c
कक्षसेनश्च राजर्षिर्वसिष्ठाय महात्मने । 015a
न्यासं यथावत्सन्न्यस्य जगाम सुमहायशः ॥ 015c
करन्धमस्य पौत्रस्तु मरुत्तोऽविक्षितः सुतः । 016a
कन्यामाङ्गिरसे दत्त्वा दिवामाशु जगाम सः ॥ 016c
ब्रह्मदत्तश्च पाञ्चाल्यो राजा धर्मभृतांवरः । 017a
निधिं शङ्खमनुज्ञाप्य जगाम परमां गतिम् ॥ 017c
राजा मित्रसहश्चैव वसिष्ठाय महात्मने । 018a
मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः ॥ 018c
मनोः पुत्रश्च सुद्युम्नो लिखिताय महात्मने । 019a
दण्डमुद्धृत्य धर्मेण गतो लोकाननुत्तमान् ॥ 019c
सहस्रचित्यो राजर्षिः प्राणानिष्टान्महायशाः । 020a
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥ 020c
सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् । 021a
मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः ॥ 021c
भक्ष्यभोज्यस्य च कृतान्राशयः पर्वतोपमान् । 022a
शाण्डिल्याय पुरा दत्त्वा सुमन्युर्दिवमास्थितः ॥ 022c
नाम्ना च द्युतिमान्नाम साल्वराजो महाद्युतिः । 023a
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥ 023c
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् । 024a
हिरण्यहस्ताय गतो लोकान्देवैरधिष्ठितान् ॥ 024c
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः । 025a
ऋश्यशृङ्गाय विपुलैः सर्वैः कामैरयुज्यत ॥ 025c
कौत्साय दत्त्वा कन्यां तु हंसीं नाम यशस्विनीम् । 026a
गतोऽक्षयानतो लोकान्राजर्षिश्च भगीरथः ॥ 026c
दत्त्वा शतसहस्रं तु गवां राजा भगीरथः । 027a
स वत्सानां कोहलाय गतो लोकाननुत्तमान् ॥ 027c
एते चान्ये च बहवो दानेन तपसा च ह । 028a
युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनःपुनः ॥ 028c
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी । 029a
गृहस्थैर्दानतपसा यैर्लोका वै विनिर्जिताः ॥ 029c
शिष्टानां चरितं ह्येतत्कीर्तितं मे युधिष्ठिर । 030a
दानयज्ञप्रजासर्गैरेते हि दिवमास्थिताः ॥ 030c
दत्त्वा तु सततं तेऽस्तु कौरवाणां धुरन्धर । 031a
दानयज्ञक्रियायुक्ता बुद्धिर्धर्मोपचायिनी ॥ 031c
यत्र ते नृपशार्दूल सन्देहो वै भविष्यति । 032a
श्वः प्रभाते हि वक्ष्यामि सन्ध्या हि समुपस्थिता ॥ 032c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विशततमोऽध्यायः ॥ 200 ॥

13-200-1 दानतपसोर्मध्ये किं श्रेष्ठमिति प्रश्नः । वर्तते स्वर्गे इति शेषः सन्धिरार्षः ॥ 13-200-9 सावित्रः कर्णः ॥ 13-200-12 मनसो मनःसङ्कल्पादप्यधिकान् ॥ 13-200-13 देवराट् भूदेवाराट् वसिष्ठः ॥ 13-200-15 न्यासं दानरूपेण स्थापनम् ॥ 13-200-17 अनुज्ञाप्य दत्त्वा ॥ 13-200-19 दण्डं चोरयोग्यं हस्तच्छेदरूपम् ॥ 13-200-22 राशयः राशीन् ॥