श्रीः अध्यायः 199
भीष्मेण युधिष्ठिरम् प्रति अप्रतिग्राह्यप्रतिग्रहे अभोज्यभोजने च प्रायश्चित्तकथनम् ॥ 1 ॥
[युधिष्ठिर उवाच 001
उक्तास्तु भवता भोज्यास्तथाऽभोज्याश्च सर्वशः । 001a
अत्र मे प्रश्नसन्देहस्तन्मे वद पितामह ॥ 001c
ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे । 002a
नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे ॥ 002c
भीष्म उवाच 003
हन्त वक्ष्यामि ते राजन्ब्राह्मणानां महात्मनाम् । 003a
प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः ॥ 003c
घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः । 004a
तिलप्रतिग्रहे चैव सममेतद्युधिष्ठिर ॥ 004c
मांसप्रतिग्रहे चैव मधुनो लवणस्य च । 005a
आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः ॥ 005c
काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम् । 006a
कृष्णायसं च विवृतं धारयन्मुच्यते द्विजः ॥ 006c
एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम् । 007a
एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे || 007c
अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा । 008a
इक्षुतैलपवित्राणां त्रिसन्ध्येऽप्सु निमज्जनम् ॥ 008c
व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा । 009a
यावके दधिदुग्धे च सावित्रीं शतशोऽन्विताम् ॥ 009c
उपानहौ च च्छत्रं च प्रतिगृह्यौर्ध्वदेहिके । 010a
जपेच्छतं समायुक्तस्तेन मुच्येत पाप्मना ॥ 010c
क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा । 011a
त्रीणि रात्राण्युपोषित्वा तेन पापाद्विमुच्यते ॥ 011c
कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः । 012a
अन्नमेतदहोरात्रात्पूतो भवति ब्राह्मणः ॥ 012c
न च सन्ध्यामुपासीत न च जाप्यं प्रवर्तयेत् । 013a
न सङ्किरेत्तदन्नं च ततः पूयेत ब्राह्मणः ॥ 013c
इत्यर्थमपराह्णे तु पितॄणां श्राद्धमुच्यते । 014a
यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकेतिताः ॥ 014c
मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते । 015a
स त्रिवेलं समुन्मज्ज्य द्वादशाहेन शुध्यति ॥ 015c
द्वादशाहे व्यतीते तु कृतशौचो विशेषतः । 016a
ब्राह्मणेभ्यो हविर्दत्त्वा मुच्यते तेन पाप्मना ॥ 016c
मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत् । 017a
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम् ॥ 017c
मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते । 018a
सप्तत्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः ॥ 018c
सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात् ॥ 019ac
यस्तु शूद्रैः समश्नीयाद्ब्राह्मणोऽप्येकभोजने । 020a
अशौचं विधिवत्तस्य शौचमत्र विधीयते ॥ 020c
यस्तु वैश्यैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने । 021a
स वै त्रिरात्रं दीक्षित्वा मुच्येत तेन कर्मणा ॥ 021c
क्षत्रियैः सह योऽश्नीयाद्ब्राह्मणोऽप्येकभोजने । 022a
आप्लुतः सह वासोभिस्तेन मुच्येत पाप्मना ॥ 022c
शूद्रस्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान् । 023a
क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम् ॥ 023c
प्रायश्चित्तं च शान्तिं च जुहुयात्तेन मुच्यते । 024a
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम् । 024c
तथोच्छिष्टमथान्योन्यं सम्प्राशेन्नात्र संशयः । 025a
रोचना विरजा रात्रिर्मङ्गलालम्भनानि च ॥ 025c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनद्विशततमोध्यायः ॥ 199 ॥
13-199-5 आदित्योदयनं तत्पर्यन्तं स्थित्वा ॥ 13-199-6 विवृतं लोकप्रत्यक्षं धारयन् ॥ 13-199-11 ग्रहसूतकयोः कारागारस्थाशौचवतोः ॥ 13-199-13 नच सन्ध्यामुपासीतेत्यत्र अस्नात इति शेषः । न सङ्किरेदिति पुनर्भोजनं न कुर्यादित्यर्थः ॥ 7-199-14 अश्नीयुरित्यर्थमिति सम्बन्धे अपराह्णे क्षुद्बोधात्सम्यगन्नमश्नन्त्वित्यर्थः । केतिताः निमन्त्रिताः ॥ 13-199-16 हविरन्नम् । 13-199-17 सावित्रीं जपन् । रैवतीं रैवतं साम । इष्टिं पवित्रेष्टिम् । कूश्माण्डं यद्देवादेवहेडनमित्यनुवाकपञ्चकम् । अघमर्षणं जले निमज्ज्य दश प्रणवसंयुक्तगायत्र्याः ऋतञ्चेति तृचस्य वा त्रिर्जपः ॥ 13-199-20 अशौचं प्रायश्चित्ताभाव एव ॥ 13-199-25 विरजा दूर्वा रात्रिर्हरिद्रेति विश्वः ॥