श्रीः अध्यायः 198

भीष्मेण युधिष्ठिरम् प्रति भोज्याभोज्यान्नकानां भोजनीयानां जनानां च विवेचनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह । 001a
तथा वैश्यस्य के भोज्याः के शूद्रस्य च भारत ॥ 001c
भीष्म उवाच 002
ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः । 002a
वैश्याश्चापि तथा भोज्याः शूद्राश्च परिवर्जिताः ॥ 002c
ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह । 003a
वर्जनीयास्तु वै शूद्राः सर्वभक्षा विकर्मिणः ॥ 003c
वैश्यास्तु भोज्या विप्राणां क्षत्रियाणां तथैव च । 004a
नित्याग्नयो विविक्ताश्च चातुर्मास्यरताश्च ये ॥ 004c
शूद्राणामथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् । 005a
मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च ॥ 005c
शूद्राणां यस्तथा भुङ्क्ते स भुङ्क्ते पृथिवीमलम् । 006a
पृथिवीमलमश्नन्ति ये द्विजाः शूद्रभोजिनः ॥ 006c
शूद्रस्य कर्मनिष्ठायां विकर्मस्थोपि पच्यते । 007a
ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश्च पच्यते ॥ 007c
स्वाध्यायनिरता विप्रास्तथा स्वस्त्ययने नृणाम् । 008a
रक्षणे क्षत्रियं प्राहुर्वैश्यं पुष्ट्यर्थमेव च ॥ 008c
करोति कर्म यद्वैश्यस्तद्गत्वा ह्युपजीवति । 009a
कृषिगोरक्ष्यवाणिज्यमकुत्सा वैश्यकर्मणि ॥ 009c
शूद्रकर्म तु यः कुर्यादवहाय स्वकर्म च । 010a
स विज्ञेयो यथा शूद्रो न च भोज्यः कदाचन ॥ 010c
चिकित्सकः काण्डपृष्ठः पुराऽध्यक्षः पुरोहितः । 011a
सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसम्मिताः ॥ 011c
शूद्रकर्मस्वथैतेषु यो भुङ्क्ते निरपत्रपः । 012a
अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम् ॥ 012c
कुलं वीर्यं च तेजश्च तिर्यग्योनित्वमेव च । 013a
स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः ॥ 013c
भुङ्क्ते चिकित्सकस्यान्नं तदन्नं च पुरीषवत् । 014a
पुंश्चल्यन्नं च मूत्रं स्यात्कारुकान्नं च शोणितम् ॥ 014c
विद्योपजीविनोऽन्नं च यो भुङ्क्ते साधुसम्मतः । 015a
तदप्यन्नं यथा शौद्रं तत्साधुः परिवर्जयेत् ॥ 015c
वचनीयस्य यो भुङ्क्ते तमाहुः शोणितं ह्रदम् । 016a
पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः ॥ 016c
असत्कृतमवज्ञातं न भोक्तव्यं कदाचन ॥ 017ac
व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः । 018a
नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत् ॥ 018c
गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे । 019a
भुक्त्वाऽन्नं जायते विप्रो रक्षसां कुलवर्धनः ॥ 019c
न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि । 020a
जायते शबरावासे मध्यदेशबहिष्कृते ॥ 020c
अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि । 021a
किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि ॥] 021c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥

13-198-1 के भोज्या भोज्यान्नाः ॥ 13-198-4 वैश्या भोज्या भोजनीयाः ॥ 13-198-7 शूद्रस्य कर्मनिष्ठायां सेवायां वर्तमानो विकर्मस्थो विशिष्टकर्मस्थः सन्ध्यावन्दनादियुक्तोऽपि पच्यते नरके इति शेषः ॥ 13-198-11 काण्डपृष्ठोऽधमः ॥ 13-198-16 पिशुनं तत्सम्बन्धि ॥ 13-198-18 नगरीं रक्षति तस्य ॥