श्रीः अध्यायः 197
स्कन्देन देवादीन्प्रति धर्मरहस्यविशेषकथनम् ॥ 1 ॥
[स्कन्द उवाच 001
ममाप्यनुमतो धर्मस्तं शृणुध्वं समाहिताः । 001a
नीलषण्डस्य शृङ्गाभ्यां गृहीत्वा मृत्तिकां तु यः ॥ 001c
अभिषेकं त्र्यहं कुर्यात्तस्य धर्मं निबोधत । 002a
शोधयेदशुभं सर्वमाधिपत्यं परत्र च ॥ 002c
यावच्च जायते मर्त्यस्तावच्छूरो भविष्यति । 003a
इदं चाप्यपरं गुह्यं सरहस्यं निबोधत ॥ 003c
प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सह । 004a
सोमस्योत्तिष्ठमानस्य पौर्णमास्यां बलिं हरेत् ॥ 004c
तस्य धर्मफलं नित्यं श्रद्दधाना निबोधत । 005a
साध्या रुद्रास्तथाऽऽदित्या विश्वेदेवास्तथाऽश्विनौ || 005c
मरुतो वसवश्चैव प्रतिगृह्णन्ति तं बलिम् । 006a
सोमश्च वर्धते तेन समुद्रश्च महोदधिः ॥ 006c
एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः ॥ 007ac
विष्णुरुवाच 008
धर्मगुह्यानि सर्वाणि देवतानां महात्मनाम् । 008a
ऋषीणां चैव गुह्यानि यः पठेदाह्निकं सदा ॥ 008c
शृणुयाद्वाऽनसूयुर्यः श्रद्दधानः समाहितः । 009a
नास्य विघ्नः प्रभवति भयं चास्य न विद्यते ॥ 009c
ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः । 010a
तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः ॥ 010c
नास्य पापं प्रभवति न च पापेन लिप्यते । 011a
पठेद्वा श्रावयेद्वाऽपि श्रुत्वा वा लभते फलम् ॥ 011c
भुञ्जते पितरो देवा हव्यं कव्यमथाक्षयम् । 012a
श्रावयंश्चापि विप्रेन्द्रान्पर्वसु प्रयतो नरः ॥ 012c
ऋषीणां देवतानां च पितॄणां चैव नित्यदा । 013a
भवत्यभिमतः श्रीमान्धर्मेषु प्रयतः सदा ॥ 013c
कृत्वाऽपि पापकं कर्म महापातकवर्जितम् । 014a
रहस्यधर्मं श्रुत्वेमं सर्वपापैः प्रमुच्यते ॥ 014c
भीष्म उवाच 015
एतद्धर्मरहस्यं वै देवतानां नराधिप । 015a
व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम् ॥ 015c
पृथिवी रत्नसम्पूर्णा ज्ञानं चेदमनुत्तमम् । 016a
इदमेव ततः श्राव्यमिति मन्येत धर्मवित् ॥ 016c
नाश्रद्दधानाय न नास्तिकाय न नष्टधर्माय न निर्घृणाय । 017a
न हेतुदुष्टाय गुरुद्विषे वा नानात्मभूताय निवेद्यमेतत् ॥ 017c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥