श्रीः अध्यायः 196
महेश्वरेण देवादीन्प्रति गोप्रशंसनम् ॥ 1 ॥
[महेश्वर उवाच 001
सारमुद्धृत्य युष्माभिः साधुधर्म उदाहृतः । 001a
धर्मगुह्यमिदं मत्तः शृणुध्वं सर्व एव ह ॥ 001c
येषां धर्माश्रिता बुद्धिःक श्रद्दधानाश्च ये नराः । 002a
तेषां स्यादुपदेष्टव्यः सरहस्यो महाफलः ॥ 002c
निरुद्विग्नस्तु यो दद्यान्मासमेकं गवाह्निकम् । 003a
एकभक्तं तथाऽश्नीयाच्छ्रूयतां तस्य यत्फलम् ॥ 003c
इमा गावो महाभागाः पवित्रं परमं स्मृताः । 004a
त्रीन्लोकान्धारयन्ति स्म सदेवासुरमानुपान् ॥ 004c
तासु चैव महापुण्यं शुश्रूषा च महाफलम् । 005a
अहन्यहनि धर्मेण युज्यते वै गवाह्निकः ॥ 005c
मया ह्येता ह्यनुज्ञाताः पूर्वमासन्कृते युगे । 006a
ततोऽहमनुनीतो वै ब्रह्मणा पद्मयोनिना ॥ 006c
तस्माद्व्रजस्थानगतस्तिष्ठत्युपरि मे वृषः । 007a
रमेऽहं सह गोभिश्च तस्मात्पूज्याः सदैव ताः ॥ 007c
महाप्रभावा वरदा वरं दद्युरुपासिताः । 008a
ता गावोऽस्यानुमन्यन्ते सर्वकर्मसु यत्फलम् ॥ 008c
तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम् ॥] 009ac
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥