श्रीः अध्यायः 195

रेणुकनामकेन करेणुना देवादीन्प्रति दिग्गजगदितधर्मनिवेदनम् ॥ 1 ॥

[भीष्म उवाच 001
ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः । 001a
उवाच वचनं देवान्वासवं च शचीपतिम् ॥ 001c
अयं महाबलो नागो रसातलचरो बली । 002a
तेजस्वी रेणुको नाम महासत्वपराक्रमः ॥ 002c
अतितेजस्विनः सर्वे महावीर्या महागजाः । 003a
धारयन्ति महीं कृत्स्नां सशैलवनकाननाम् ॥ 003c
भवद्भिः समनुज्ञातो रेणुकस्तान्महागजान् । 004a
धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै ॥ 004c
पितामहवचः श्रुत्वा ते देवा रेणुकं तदा । 005a
प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः ॥ 005c
रेणुक उवाच 006
अनुज्ञातोऽस्मि देवैश्च पितृभिश्च महाबलाः । 006a
धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः । 006c
कथयध्वं महाभागा यद्वस्तत्त्वं मनीषितम् ॥ 006e
दिग्गजा ऊचुः 007
कार्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा । 007a
तेन नक्षत्रयोगेन यो ददाति गुडौदनम् । 007c
इमं मन्त्रं जपञ्छ्राद्धे यताहारो ह्यकोपनः ॥ 007e
बलदेवप्रभृतयो ये नागा बलवत्तराः । 008a
अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः ॥ 008c
तेषां कुलोद्भवा ये च महाभूता भुजङ्गमाः । 009a
ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये ॥ 009c
यदा नारायणः श्रीमानुज्जहार वसुन्धराम् । 010a
तद्बलं तस्य देवस्य धरामुद्धरतस्तथा ॥ 010c
एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत् ॥ 011ac
गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम् । 012a
निर्वपेत्तं तु वल्मीके अस्तं याते दिवाकरे ॥ 012c
एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिताः । 013a
श्रमं तं नावबुध्यामो धारयन्तो वसुन्धराम् ॥ 013c
एवं मन्यामहे सर्वे भारार्ता निरपेक्षिणः । 014a
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्युपोषितः ॥ 014c
एवं संवत्सरं कृत्वा दानं बहुफलं लभेत् । 015a
वल्मीके बलिमादाय तन्नो बहुफलं मतम् ॥ 015c
ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः । 016a
कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः ॥ 016c
दिग्गजानां च तच्छ्रुत्वा देवताः पितरस्तथा । 017a
ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम् ॥] 017c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥

13-195-2 नागो गजः ॥