श्रीः अध्यायः 194
प्रमथैर्ऋषिगणान्प्रति प्रजानां स्वहिंसातदभावकारणाभिधानम् ॥ 1 ॥
भीष्म उवाच 001
ततः सर्वे महाभागा देवाश्च पितरश्च ह । 001a
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन् ॥ 001c
भवन्तो वै महाभागा अपरोक्षनिशाचराः । 002a
उच्छिष्टानशुचीन्क्षुद्रान्कथं हिंसथ मानवान् ॥ 002c
के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ । 003a
रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ । 003c
श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः ॥ 003e
प्रमथा ऊचुः 004
मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे । 004a
मोहान्मांसानि खादेत वृक्षमूले च यः स्वपेत् ॥ 004c
आमिषं शीर्षतो यस्य पादतो यश्च संविशेत् । 005a
तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः ॥ 005c
उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति । 006a
एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः ॥ 006c
एवं शीलसमाचारान्धर्षयामो हि मानवान् । 007a
श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम् || 007c
गोरोचनासमालम्भो वचाहस्तश्च यो भवेत् । 008a
घृताक्षतं च यो दद्यान्मस्तके तत्परायणः ॥ 008c
ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम् । 009a
यस्य चाग्निर्गृहे नित्यं दिवारात्रौ च दीप्यते ॥ 009c
तरक्षोश्चर्मदंष्ट्राश्च तथैव गिरिकच्छपः । 010a
आज्यधूमो बिडालश्च च्छागः कृष्णोऽथ पिङ्गलः ॥ 010c
येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम् । 011a
तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः ॥ 011c
लोकानस्मद्विधा ये च विचरन्ति यथासुखम् । 012a
तस्मादेतानि गेहेषु रक्षोघ्नानि विशाम्पते । 012c
एतद्वः कथितं सर्वं यत्र वः संशयो महान् ॥] 012e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥
13-194-4 अधरोत्तरे अधर उत्तरः श्रेष्ठो यत्र श्रेष्ठस्यावमाने कृते सति ॥ 13-194-5 आमिषं मांसं शिरसि दधानः । पादतः शय्यायां पादस्थाने शिरः कृत्वा यः संविशेत् ॥ 13-194-10 तरक्षोर्व्याघ्रस्य । गिरिकच्छपः पर्वतदरीशायी स्थलकूर्मः ॥