श्रीः अध्यायः 193
भीष्मेण युधिष्ठिरम् प्रत्यरुन्धतीचित्रगुप्तोदितधर्मरहस्यकथनम् ॥ 1 ॥
[भीष्म उवाच 001
ततस्त्वृषिगणाः सर्वे पितरश्च सदेवताः । 001a
अरुन्धतीं तपोवृद्धामपृच्छन्त समाहिताः ॥ 001c
समानशीलां वीर्येण वसिष्ठस्य महात्मनः । 002a
त्वत्तो धर्मरहस्यानि श्रोतुमिच्छामहे वयम् । 002c
यत्ते गुह्यतमं भद्रे तत्प्रभाषितुमर्हसि ॥ 002e
अरुन्धत्युवाच 003
तपोवृद्धिर्मया प्राप्ता भवतां स्मरणेन वै । 003a
भवतां च प्रसादेन धर्मान्वक्ष्यामि शाश्वतान् ॥ 003c
सगुह्यान्सरहस्यांश्च ताञ्शृणुध्वमशेषतः । 004a
श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः ॥ 004c
अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पगः । 005a
असम्भाष्या हि चत्वारो नैषां धर्मं प्रकाशयेत् ॥ 005c
अहन्यहनि यो दद्यात्कपिलां द्वादशीः समाः । 006a
मासिमासि च सत्रेण यो यजेत सदा नरः ॥ 006c
गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे । 007a
न तद्धर्मफलं तुल्यमतिथिर्यस्य तुष्यति ॥ 007c
श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः । 008a
श्रद्दधानेन कर्तव्यः सरहस्यो महाफलः ॥ 008c
कल्यमुत्थाय गोमध्ये गृह्य दर्भान्सहोदकान् । 009a
निषिञ्चेत गवां शृङ्गे मस्तकेन च तज्जलम् । 009c
प्रतीच्छेत निराहारस्तस्य धर्मफलं शृणु ॥ 009e
श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानिचित् । 010a
सिद्धचारणजुष्टानि सेवितानि महर्षिभिः । 010c
अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च ॥ 010e
साधुसाध्विति चोद्दिष्टं दैवतैः पितृभिस्तथा । 011a
भूतैश्चैव सुसंहृष्टैः पूजिता साऽप्यरुन्धती ॥ 011c
पितामह उवाच 012
अहो धर्मो महाभागे सरहस्य उदाहृतः । 012a
वरं ददामि ते धन्ये तपस्ते वर्दतां सदा ॥ 012c
यम उवाच 013
रमणीया कथा दिव्या युष्मत्तो या मया श्रुता । 013a
श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम् ॥ 013c
रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः । 014a
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छाता ॥ 014c
न हि पुण्यं तथा पापं कृतं किञ्चिद्विनश्यति । 015a
पर्वकाले च यत्किञ्चिदादित्यं चाधितिष्ठति ॥ 015c
प्रेतलोकं गते मर्त्ये तत्तत्सर्वं विभावसुः । 016a
प्रतिजानाति पुण्यात्मा तच्च तत्रोपयुज्यते ॥ 016c
किञ्चिद्धर्मं प्रवक्ष्यामि चित्रगुप्तमतं शुभम् । 017a
पानीयं चैव दीपं च दातव्यं सततं तथा ॥ 017c
उपानहौ च च्छत्रं च कपिला च यथातथम् । 018a
पुष्करे कपिला देया ब्राह्मणे वेदपारगे ॥ 018c
अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत् । 019a
अयं चैवापरो धर्मश्चित्रगुप्तेन भाषितः ॥ 019c
फलमस्य पृथक्त्वेन श्रोतुमर्हन्ति सत्तमाः । 020a
प्रलयं सर्वभूतैस्तु गन्तव्यं कालपर्ययात् ॥ 020c
तत्र दुर्गमनुप्राप्ताः क्षुत्तृष्णापरिपीडिताः । 021a
दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम् ॥ 021c
अन्धकारं तमो घोरं प्रविशन्त्यल्पबुद्धयः । 022a
तत्र धर्मं प्रवक्ष्यामि येन दुर्गाणि सन्तरेत् ॥ 022c
अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम् । 023a
पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः ॥ 023c
तत्र पुण्योदका नाम नदी तेषां विधीयते । 024a
अक्षयं सलिलं तत्र शीतलं ह्यमृतोपमम् ॥ 024c
स तत्र तोयं पिबति पानीयं यः प्रयच्छति । 025a
प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः ॥ 025c
तमोन्धकारं नियतं दीपदो न प्रपश्यति । 026a
प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः । 026c
देवताश्चानुमन्यन्ते विमलाः सर्वतो दिशः ॥ 026e
द्योततें च यथाऽऽदित्यः प्रेतलोकगतो नरः । 027a
तस्माद्दीपः प्रदातव्यः पानीयं च विशेषतः ॥ 027c
कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे । 028a
पुष्करे च विशेषेण श्रूयतां तस्य यत्फलम् ॥ 028c
गोशतं सवृषं तेन दत्तं भवति शाश्वतम् । 029a
पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत् । 029c
शोधयेत्कपिला ह्येका प्रदत्तं गोशतं यथा ॥ 029e
तस्मात्तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे । 030a
न तेषां विषमं किञ्चिन्न दुःखं न च कण्टकाः ॥ 030c
उपानहौ च यो दद्यात्पात्रभूते द्विजोत्तमे । 031a
छत्रदाने सुखां छायां लभते परलोकगः ॥ 031c
न हि दत्तस्य दानस्य नाशोऽस्तीह कदाचन । 032a
चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः ॥ 032c
उवाच देवताः सर्वाः पितॄंश्चैव महाद्युतिः । 033a
श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः ॥ 033c
श्रद्दधानाश्च ये मर्त्या ब्राह्मणेषु महात्मसु । 034a
दानमेतत्प्रयच्छन्ति न तेषां विद्यते भयम् ॥ 034c
धर्मदोषास्त्विमे पञ्च येषां नास्तीह निष्कृतिः । 035a
असम्भाष्या अनाचारा वर्जनीया नराधमाः ॥ 035c
ब्रह्महा चैव गोघ्नश्च परदाररतश्च यः । 036a
अश्रद्दधानश्च नरः स्त्रियं यश्चोपजीवति ॥ 036c
प्रेतलोकगता ह्येते नरके पापकर्मिणः । 037a
पच्यन्ते वै यथा मीनाः पूयशोणितभोजनाः ॥ 037c
असम्भाष्याः पितॄणां च देवानां चैव पञ्च ते । 038a
स्नातकानां च विप्राणां ये चान्ये च तपोधनाः ॥ 038c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥
13-193-4 प्रयोक्तव्या धर्मा वाच्याः ॥ 13-193-16 प्रतीजानात्यर्पयति । उपयुज्यते पुण्यपापकर्ता ॥ 13-193-20 प्रकृष्टो लयोऽदर्शनं यस्मात्तत्प्रलयं मरणम् ॥