श्रीः अध्यायः 192
लोमशेन धर्मरहस्यकथनम् ॥ 1 ॥
[लोमश उवाच 001
परदारेषु ये सक्ता अकृत्वा दारसङ्ग्रहम् । 001a
निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै ॥ 001c
परदाररतिर्यश्च यश्च वन्ध्यामुपासते । 002a
ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते ॥ 002c
असम्भाष्या भवन्त्येते पितॄणां नात्र संशयः । 003a
देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः ॥ 003c
तस्मात्परस्य वै दारांस्त्यजेद्वन्ध्यां च योषितम् । 004a
ब्रह्मस्वं हि न हर्तव्यमात्मनो हितमिच्छता ॥ 004c
श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम् । 005a
श्रद्दधानेन कर्तव्यं गुरुणां वचनं सदा ॥ 005c
द्वादश्यां पौर्णमास्यां च मासिमासि घृताक्षतम् । 006a
ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत ॥ 006c
सोमश्च वर्धते तेन समुद्रश्च महोदधिः । 007a
अश्वमेधचतुर्भागं फलं सृजति वासवः ॥ 007c
दानेनैतेन तेजस्वी वीर्यवांश्च भवेन्नरः । 008a
प्रीतश्च भगवान्सोम इष्टान्कामान्प्रयच्छति ॥ 008c
श्रूयतां चापरो धर्मः सरहस्यो महाफलः । 009a
इदं कलियुगं प्राप्य मनुष्याणां सुखावहः ॥ 009c
कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा । 010a
तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः ॥ 010c
तिलोदकं च यो दद्यात्पितॄणां मधुना सह । 011a
दीपकं कृसंर चैव श्रूयतां तस्य यत्फलम् ॥ 011c
तिलपात्रे फलं प्राह भगवान्पाकशासनः । 012a
गोप्रदानं च यः कुर्याद्भूमिदानं च शाश्वतम् ॥ 012c
अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम् । 013a
तिलपात्रं सहैतेन समं मन्यन्ति देवताः ॥ 013c
तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम् । 014a
दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः ॥ 014c
स्वर्गे च पितृलोके च पितृदेवाभिपूजितम् । 015a
एवमेतन्मयोद्दिष्टमृषिदृष्टं पुरातनम् ॥] 015c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥
13-192-7 महान्त्युदकानि धीयन्तेऽस्मिन्निति । यद्वा महानामुत्सवानामुदधिरिव ॥