श्रीः अध्यायः 191

वायुना धर्मरहस्यकथनम् ॥ 1 ॥

[वायुरुवाच 001
किञ्चिद्धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम् । 001a
सरहस्याश्च ये दोषास्ताञ्शृणुध्वं समाहिताः ॥ 001c
अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम् । 002a
दीपकश्चापि कर्तव्यः पितॄणां सतिलोदकः ॥ 002c
एतेन विधिना मर्त्यः श्रद्दधानः समाहितः । 003a
चतुरो वार्षिकान्मासान्यो ददाति तिलोदकाम् ॥ 003c
भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे । 004a
पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम् ॥ 004c
इदं चैवापरं गुह्यमप्रशस्तं निबोधत । 005a
अग्नेस्तु वृषलो नेता हविर्मूढाश्च योषितः ॥ 005c
मन्यते धर्म एवेति स चाधर्मेण लिप्यते । 006a
अग्नयस्तस्य कुप्यन्ति शूद्रयोनिं स गच्छति ॥ 006c
पितरश्च न तुष्यन्ति सहदेवैर्विशेषतः । 007a
प्रायश्चित्तं तु यत्तत्र ब्रुवतस्तन्निबोध मे । 007c
यत्कृत्वा तु नरः सम्यक्सुखी भवति विज्वरः ॥ 007e
गवां मूत्रपुरीषेण पयसा च घृतेन च । 008a
अग्निकार्यं त्र्यहं कुर्यान्निराहारः समाहितः ॥ 008c
ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः । 009a
हृष्यन्ति पितरश्चास्य श्राद्धकाल उपस्थिते ॥ 009c
एष ह्यधर्मो धर्मश्च सरहस्यः प्रकीर्तितः । 010a
मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावहः ॥] 010c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥

13-191-5 नेता देशान्तरप्रापको यदि शूद्रः स्यात् तर्हि तस्य दोषः ॥