श्रीः अध्यायः 190

सूर्यगार्ग्यादिभिः पृथक्पृथग्धर्मरहस्यकथनम् ॥ 1 ॥

[विभावसुरुवाच 001
सलिलस्याञ्जलिं पूर्णमक्षताश्च धृतोत्तराः । 001a
सोमस्योत्तिष्ठमानस्य तज्जलं चाक्षतांश्च तान् ॥ 001c
स्थितो ह्यभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत् । 002a
अग्निकार्यं कृतं तेन हुताश्चास्याग्नयस्त्रयः ॥ 002c
वनस्पतिं च यो हन्यादमावास्यामबुद्धिमान् । 003a
अपि ह्येकेन पत्रेण लिप्यते ब्रह्महत्यया ॥ 003c
दन्तकाष्ठं तु यः खादेदमावास्यामबुद्धिमान् । 004a
हिंसितश्चन्द्रमास्तेन पितरश्चोद्विजन्ति च ॥ 004c
हव्यं न तस्य देवाश्च प्रतिगृह्णन्ति पर्वसु । 005a
कुप्यन्ते पितरश्चास्य कुले वंशोऽस्य हीयते ॥ 005c
श्रीरुवाच 006
प्रकीर्णं भाजनं यत्र भिन्नभाण्डमथासनम् । 006a
योषितश्चैव हन्यन्ते कश्मलोपहते गृहे ॥ 006c
देवताः पितरश्चैव उत्सवे पर्वणीषु वा । 007a
निराशाः प्रतिगच्छन्ति कश्मलोपहताद्गृहात् ॥ 007c
अङ्गिरा उवाच 008
यस्तु संवत्सरं पूर्णं दद्याद्दीपं करञ्जके । 008a
सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते ॥ 008c
गार्ग्य उवाच 009
आतीथ्यं सततं कुर्याद्दीपं दद्यात्प्रतिश्रये । 009a
वर्जयानो दिवास्वापं न च मांसानि भक्षयेत् ॥ 009c
गोब्राह्मणं न हिंस्याच्च पुष्कराणि च कीर्तयेत् । 010a
एत श्रेष्ठतमो धर्मः सरहस्यो महाफलः ॥ 010c
अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः । 011a
न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः ॥ 011c
इदं च परमं गुह्यं सरहस्यं निबोधत । 012a
श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च ॥ 012c
रजस्वला च या नारी श्वित्रिकाऽपुत्रिका च या । 013a
एताभिश्चक्षुषा दृष्टं हविर्नाश्नन्ति देवताः । 013c
पितरश्च न तुष्यन्ति वर्षाण्यपि त्रयोदश ॥ 013e
शुक्लवासाः शुचिर्भूत्वा ब्राह्मणान्स्वस्ति वाचयेत् । 014a
कीर्तयेद्भारतं चैव तथा स्यादक्षयं हविः ॥ 014c
धौम्य उवाच 015
भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा । 015a
अप्रशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः ॥ 015c
भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः । 016a
कुक्कुटे शुनके चैव हविर्नाश्नन्ति देवताः । 016c
वृक्षमूले ध्रुवं सत्वं तस्माद्वृक्षं न रोपयेत् ॥ 016e
जमदग्निरुवाच 017
यो यजेदश्वमेधेन वाजपेयशतेन ह । 017a
अवाक्शिरा वा लम्बेत सत्रं वा स्फीतमाहरेत् ॥ 017c
न यस्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत् । 018a
तुल्यं यज्ञश्च सत्यं च हृदयस्य च शुद्धता ॥ 018c
शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये । 019a
ब्रह्मलोकमनुप्राप्तः पर्याप्तं तन्निदर्शनम् ॥] 019c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवत्यधिकशततमोऽध्यायः ॥ 190 ॥

7-190-8 करञ्जसुवर्चले वृक्षवल्लिविशेषौ ॥ 7-190-16 सत्वं वृश्चिकसर्पादि । न रोपयेत् गृहे इति शेषः ॥