श्रीः अध्यायः 189
विष्णुनेन्द्रम् प्रति स्वप्रीतिकरधर्मकथनम् ॥ 1 ॥ तथा बलदेवदेवाग्निविश्वामित्रादिभिः पृथक्पृथग्धर्मविशेषकथनम् ॥ 2 ॥
[भीष्म उवाच 001
केन ते च भवेत्प्रीतिः कथं तुष्टिं तु गच्छसि । 001a
इति पृष्टः सुरेन्द्रेण प्रोवाच हरिरीश्वरः ॥ 001c
ब्राह्मणानां परीवादो मम विद्वेषणं महत् । 002a
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः ॥ 002c
नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथाऽऽत्मनः । 003a
तेषां तुष्यामि मर्त्यानां यश्चक्रे च बलिं हरेत् ॥ 003c
वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम् । 004a
उद्धृतां धरणीं चैव मूर्ध्ना धारयते तु यः । 004c
न तेषामशुभं किञ्चित्कल्मषं चोपपद्यते ॥ 004e
अश्वत्थं रोचनां गां च पूजयेद्यो नरः सदा । 005a
पूजितं च जगत्तेन सदेवासुरमानुषम् ॥ 005c
तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः । 006a
पूजा ममैषा नास्त्यन्या यावल्लोकाः प्रतिष्ठिताः ॥ 006c
अन्यथा हि वृथा मर्त्याः पूजयन्त्यल्पबुद्धयः । 007a
नाहं तत्प्रतिगृह्णामि न सा तुष्टिकरी मम ॥ 007c
इन्द्र उवाच 008
चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम् । 008a
उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि ॥ 008c
भवान्सृजति भूतानि भावन्संहरति प्रजाः । 009a
प्रकृतिः सर्वभूतानां समर्त्यानां सनातनी ॥ 009c
भीष्म उवाच 010
सम्प्रहस्य ततो विष्णुरिदं वचनमब्रवीत् । 010a
चक्रेण निहता दैत्याः पद्म्यां क्रान्ता वसुन्धरा ॥ 010c
वाराहं रूपमास्थाय हिरण्याक्षो निपातितः । 011a
वामनं रूपमास्थाय जितो राजा मया बलिः || 011c
परितुष्टो भवाम्येवं मानुषाणां महात्मनाम् । 012a
तन्मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः ॥ 012c
अपि वा ब्राह्म्णं दृष्ट्वा ब्रह्मचारिणमागतम् । 013a
ब्राह्मणाग्र्याहुतिं दत्त्वा अमृतं तस्य भोजनम् ॥ 013c
ऐन्द्रीं सन्ध्यामुपासित्वा आदित्याभिमुखः स्थितः । 014a
सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः ॥ 014c
एतद्वः कथितं गुह्यमखिलेन तपोधनाः । 015a
संशयं पृच्छमानानां किं भूयः कथयाम्यहम् ॥ 015c
बलदेव उवाच 016
श्रूयतां परमं गुह्यं मानुषाणां सुखावहम् । 016a
अजानन्तो यदबुधाः क्लिश्यन्ते भूतपीडिताः ॥ 016c
कल्य उत्थाय यो मर्त्यः स्पृशेद्गां वै घृतं दधि । 017a
सर्षपं च प्रियङ्गुं च कल्मषात्प्रतिमुच्यते ॥ 017c
भूतानि चैव सर्वाणि अग्रतः पृष्ठतोपि वा । 018a
उच्छिष्टं वाऽपि च्छिद्रेषु वर्जयन्ति तपोधनाः ॥ 018c
देवा ऊचुः 019
प्रगृह्यौदुम्बरं पात्रं तोयपूर्णमुदङ्मुखः । 019a
उपवासं तु गृह्णीयाद्यद्वा सङ्कल्पयेद्व्रतम् ॥ 019c
देवतास्तस्य तुष्यन्ति कामिकं चापि सिध्यति । 020a
अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः ॥ 020c
उपवासे बलौ चापि ताम्रपात्रं विशिष्यते । 021a
बलिर्भिक्षा तथाऽर्घ्यं च पितॄणां च तिलोदकम् || 021c
ताम्रपात्रेण दातव्यमन्यथाऽल्पफलं भवेत् । 022a
गुह्यमेतत्समुद्दिष्टं यथा तुष्यन्ति देवताः ॥ 022c
धर्म उवाच 023
राजपौरुषिके विप्रे घाण्टिके परिचारिके । 023a
गोरक्षके वाणिजके तथा कारुकुशीलवे ॥ 023c
मित्रद्रुह्यनधीयाने यश्च स्याद्वृषलीपतिः । 024a
एतेषु दैवं पित्र्यं वा न देयं स्यात्कथञ्चन । 024c
पिण्डदास्तस्य हीयन्ते न च प्रीणाति वै पितॄन् ॥ 024e
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । 025a
पितरस्तस्य देवाश्च अग्नयश्च तथैव हि । 025c
निराशाः प्रतिगच्छन्ति अतिथेरप्रतिग्रहात् ॥ 025e
स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः । 026a
तुल्यदोषो भवत्येभिर्यस्यातिथिरनर्चितः ॥ 026c
अग्निरुवाच 027
पादमुद्यम्य यो मर्त्यः स्पृशेद्गाश्च सुदुर्मतिः । 027a
ब्राह्मणं वा महाभागं दीप्यमानं तथाऽनलम् । 027c
तस्य दोषान्प्रवक्ष्यामि तच्छृणुध्वं समाहिताः ॥ 027e
दिवं स्पृशत्यशब्दोऽस्य त्रस्यन्ति पितरश्च वै । 028a
वैमनस्यं च देवानां कृतं भवति पुष्कलम् । 028c
पावकश्च महातेजा हव्यं न प्रतिगृह्णति ॥ 028e
आजन्मनां शतं चैव नरके पच्यते तु सः । 029a
निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हिचित् ॥ 029c
तस्माद्गावो न पादेन स्प्रष्टव्या वै कदाचन । 030a
ब्राह्मणश्च महातेजा दीप्यमानस्तथाऽनलः । 030c
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छता ॥ 030e
एते दोषा मया प्रोक्तास्त्रिषु यः पादमुत्सृजेत् । 031a
विश्वामित्र उवाच 031
श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम् । 031c
परमान्नेन यो दद्यात्पितॄणामौपहारिकम् ॥ 031e
गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः । 032a
यदा भाद्रपदे मासि भवते बहुले मघा ॥ 032c
श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः । 033a
कृतं तेन महच्छ्राद्धं वर्षाणीह त्रयोदश ॥ 033c
गाव ऊचुः 034
बहुले समङ्गे ह्यकुतोभये च क्षेमे च सङ्ख्येव हि भूयसी च । 034a
यथा पुरा ब्रह्मपुरे सवत्सा शतक्रतोर्वज्रधरस्य यज्ञे ॥ 034c
भूयश्च या विष्णुपदे स्थिताया विभावसोश्चापि पथे स्थिता या । 035a
देवाश्च सर्वे सह नारदेन प्रकुर्वते सर्वसहेति नाम ॥ 035c
मन्त्रेणैतेनाभिवन्देत यो वै विमुच्यते पापकृतेन कर्मणा । 036a
लोकानवाप्नोति पुरन्दरस्य गवां फलं चन्द्रमसो द्युतिं च ॥ 036c
एवं हि मन्त्रं त्रिदशाभिजुष्टं पठेत यः पर्वसु गोष्ठमध्ये । 037a
न तस्यि पापं न भयं न शोकः सहस्रनेत्रस्य च याति लोकम् ॥ 037c
भीष्म उवाच 038
अथ सप्त महाभागा ऋषयो लोकविश्रुताः । 038a
वसिष्ठप्रमुखाः सर्वे ब्रह्माणं पद्मसम्भवम् । 038c
प्रदक्षिणमभिक्रम्य सर्वे प्राञ्जलयः स्थिताः ॥ 038e
उवाच वचनं तेषां वसिष्ठो ब्रह्मवित्तमः । 039a
सर्वप्राणिहितं प्रश्नं ब्रह्मक्षत्रे विशेषतः ॥ 039c
द्रव्यहीनाः कथं मर्त्या दरिद्राः साधुवर्तिनः । 040a
प्राप्नुवन्तीह यज्ञस्य फलं केन च कर्मणा ॥ 040c
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा वचनमब्रवीत् ॥ 041ac
अहो प्रश्नो महाभाग गूढार्थः परमः शुभः । 042a
सूक्ष्मः श्रेयांश्च मर्त्यानां भवद्भिः समुदाहृतः ॥ 042c
श्रूयतां सर्वमाख्यास्ये निखिलेन तपोधनाः । 043a
यथा यज्ञफलं मर्त्यो लभते नात्र संशयः ॥ 043c
पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी । 044a
तेन नक्षत्रयोगेन आकाशशयनो भवेत् ॥ 044c
एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः । 045a
सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत् ॥ 045c
एतद्वः परमं गुह्यं कथितं द्विजसत्तमाः । 046a
यन्मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः] ॥ 046c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥
7-189-3 चक्रे गोमयोपलिप्ते मण्डले सुदर्शनमन्त्रेण पूजिते ॥ 7-189-28 अशब्दः अपशब्दः निन्दारूपः ॥ 7-189-46 रश्मयः रश्मीन् ॥