श्रीः अध्यायः 188

भीष्मेण युधिष्ठिरम् प्रति श्राद्धविध्यादिप्रतिपादकपितृदेवदूतादिसंवादानुवादः ॥ 1 ॥

[*युधिष्ठिर उवाच 001
जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम् । 001a
श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह ॥ 001c
दानानामुत्तमं यच्च देयं यच्च यथायथा । 002a
मान्यान्पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि ॥ 002c
वैशम्पायन उवाच 003
एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना । 003a
धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम् ॥ 003c
भीष्म उवाच 004
शृणुष्वावहितो राजन्धर्मगुह्यानि भारत । 004a
यथाहि भगवान्व्यासः पुरा कथितवान्मयि ॥ 004c
देवगुह्यमिदं राजन्यमेनाक्लिष्टकर्मणा । 005a
नियमस्थेन युक्तेन तपसो महतः फलम् ॥ 005c
येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा । 006a
ऋषयः प्रमथाः श्रीश्च चित्रगुप्तो दिशां गजाः ॥ 006c
ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः । 007a
महादानफलं चैव सर्वयज्ञफलं तथा ॥ 007c
यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ । 008a
सदोषोऽदोषवांश्चेह तैर्गुणैः सह युज्यते ॥ 008c
दशसूनासमं चक्रं दशचक्रसमो ध्वजः । 009a
दशध्वजसमा वेश्या दशवेश्यासमो नृपः || 009c
अर्धेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः । 010a
त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम् ॥ 010c
धर्मव्याकरणं पुण्यं रहस्यश्रवणं महत् । 011a
श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम् ॥ 011c
पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि । 012a
देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम् ॥ 012c
ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः । 013a
महायज्ञफलं चैव सर्वदानफलं तथा ॥ 013c
ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति । 014a
श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः ॥ 014c
गवां फलं तीर्थफलं यज्ञानां चैव यत्फलम् । 015a
एतत्फलमवाप्नोति यो नरोऽतिथिपूजकः ॥ 015c
श्रोतारः श्रद्धधानाश्च येषां शुद्धं च मानसम् । 016a
तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना ॥ 016c
मुच्यते किल्बिषाच्चैव न स पापेन लिप्यते । 017a
धर्मं च लभते नित्यं प्रेत्य लोकगतो नरः ॥ 017c
कस्यचित्त्वथ कालस्य देवदूतो यदृच्छया । 018a
स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम् ॥ 018c
यौ तौ कामगुणोपेतावश्विनौ भिषजां वरौ । 019a
आज्ञयाऽहं तयोः प्राप्तः सनरान्पितृदैवतान् ॥ 019c
कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम् । 020a
केमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक्पृथक् ॥ 020c
प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति । 021a
उत्तरश्च स्मृतः कस्य एतदिच्छामि वेदितुम् ॥ 021c
श्रद्दधानेन दूतेन भाषितं धर्मसंहितम् । 022a
पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम् ॥ 022c
पितर ऊचुः 023
स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम । 023a
गूढार्थः परमः प्रश्नो भवता समुदीरितः ॥ 023c
श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत् । 024a
पितरस्तस्य तं मासं तस्मिन्रेतसि शेरते ॥ 024c
प्रविभागं तु पिण्डानां प्रवक्ष्याम्यनुपूर्वशः । 025a
पिण्डो ह्यधस्ताद्गच्छंस्तु अप आविश्य भावयेत् ॥ 025c
पिण्डं तु मध्यमं तत्र पत्नीत्वेका समश्नुते । 026a
पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि । 026c
एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते ॥ 026e
पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा । 027a
प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति ॥ 027c
देवदूत उवाच 028
आनुपूर्व्येण पिण्डानां प्रविभागः पृथक्पृथक् । 028a
पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया ॥ 028c
एकः समुद्धृतः पिण्डो ह्यधस्तात्कस्य गच्छति । 029a
कं वा प्रीणयते देवं कथं तारयते पितॄन् ॥ 029c
मध्यमं तु तदा पत्नी भुङ्क्तेऽनुज्ञातमेव हि । 030a
किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते ॥ 030c
अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम् । 031a
भवते का गतिस्तस्य कं वा समनुगच्छति ॥ 031c
एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु या गतिः । 032a
फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते ॥ 032c
पितर ऊचुः 033
सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः । 033a
रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर ॥ 033c
एतदेव प्रशंसन्ति देवाश्च मुनयस्तथा । 034a
तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम् । 034c
वर्जयित्वा महात्मानं चिरजीविनमुत्तमम् ॥ 034e
पितृभक्तस्तु यो विप्रो वरलब्धो महायशाः । 035a
त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम् ॥ 035c
देवदूतेन यः पृष्टः श्राद्धस्य विधिनिश्चयः । 036a
गतिं त्रयाणां पिण्डानां शृणुष्वावहितो मम ॥ 036c
अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत् । 037a
शशी प्रीणयते देवान्पितॄंश्चैव महामते ॥ 037c
भुङ्क्ते तु पत्नी यं चैषामनुज्ञाता तु मध्यमम् । 038a
पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः ॥ 038c
हव्यवाहे तु यः पिण्डो दीयते तन्निबोध मे । 039a
पितरस्तेन तृप्यन्ति प्रीताः कामान्दिशन्ति च । 039c
एतत्ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः ॥ 039e
ऋत्विग्यो यजमानस्य पितृत्वमनुगच्छति । 040a
तस्मिन्नहनि मन्यन्ते परिहार्यं हि मैथुनम् ॥ 040c
शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम । 041a
ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा ॥ 041c
तस्मात्स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः । 042a
प्रजा विवर्धते चास्य यश्चैवं सम्प्रयच्छति ॥ 042c
ततो विद्युत्प्रभो नाम ऋषिराह महातपाः । 043a
आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते ॥ 043c
स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत् ॥ 044ac
तिर्यग्योनिगतान्सत्वान्मर्त्या हिंसन्ति मोहिताः । 045a
कीटान्पिपीलिकान्सर्पान्मेषान्समृगपक्षिणः । 045c
किल्बिषं सुबहु प्राप्ताः किंस्विदेषां प्रतिक्रिया ॥ 045e
ततो देवगणाः सर्वे ऋषयश्च तपोधनाः । 046a
पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम् ॥ 046c
शक्र उवाच 047
कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च । 047a
एतानि मनसा ध्यात्वा अवगाहेत्ततो जलम् । 047c
तथा मुच्यति पापेन राहुणा चन्द्रमा यथा ॥ 047e
त्र्यहं स्नातः स भवति निराहारश्च वर्तते । 048a
स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति ॥ 048c
ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम् । 049a
अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो ॥ 049c
घृष्टो वटकषायेण अनुलिप्तः प्रियङ्गुणा । 050a
क्षीरेण षष्टिकान्भुक्त्वा सर्वपापैः प्रमुच्यते ॥ 050c
श्रूयतां चापरं गुह्यं रहस्यमृषिचिन्तितम् । 051a
श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः । 051c
रुद्रेण सह देवेश तन्निबोध शचीपते ॥ 051e
पर्वतारोहणं कृत्वा एकपादो विभावसुम् । 052a
निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः । 052c
तपसा महता युक्त उपवासफलं लभेत् ॥ 052e
रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति । 053a
ग्रीष्मकालेऽथवा शीते एवं पापमपोहति ॥ 053c
ततः पापात्प्रमुक्तस्य द्युतिर्भवति शाश्वती । 054a
तेजसा सूर्यवद्दीप्तो भ्राजते सोमवत्पुनः ॥ 054c
मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः । 055a
उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम् ॥ 055c
धर्मगुह्यं तु भगवन्मानुषाणां सुखावहम् । 056a
सरहस्याश्च ये दोषास्तान्यथावदुदीरय ॥ 056c
बृहस्पतिरुवाच 057
प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये । 057a
हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति ॥ 057c
बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात् । 058a
तेषां दोषान्प्रवक्ष्यामि तान्निबोध शचीपते ॥ 058c
भानुमाननिलश्चैव हव्यवाहश्च वासव । 059a
लोकानां मातरश्चैव गावः सृष्टाः स्वयम्भुवा ॥ 059c
लोकांस्तारयितुं शक्ता मर्त्येष्वेतेषु देवताः । 060a
सर्वे भवन्तः शृण्वन्तु एकैकं धर्मनिश्चयम् ॥ 060c
वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः । 061a
स्त्रियः सर्वाश्च दुर्वृत्ताः प्रतिमेहन्ति या रविम् ॥ 061c
अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा । 062a
हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति । 062c
अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः ॥ 062e
क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः । 063a
न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः ॥ 063c
प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च । 064a
एवमेतत्पुरा दृष्टं कुलवृद्धैर्द्विजातिभिः ॥ 064c
तस्माद्वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः । 065a
भूतिकामेन मर्त्येन सत्यमेतद्ब्रवीमि ते ॥ 065c
ततः सर्वा महाभाग देवताः समरुद्गणाः । 066a
ऋषयश्च महाभागाः पृच्छन्ति स्म पितॄंस्ततः ॥ 066c
पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम् । 067a
अक्षयं च कथं दानं भवेच्चैवौर्ध्वदेहिकम् ॥ 067c
आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा । 068a
एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः ॥ 068c
पितर ऊचुः 069
न्यायतो वै महाभागाः संशयः समुदाहृतः । 069a
श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम् ॥ 069c
नीलषण्डप्रमोक्षेण अमावास्यां तिलोदकैः । 070a
वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत् ॥ 070c
अक्षयं निर्व्यलीकं च दानमेतन्महाफलम् । 071a
अस्माकं परितोषश्च अक्षयः परिकीर्त्यते ॥ 071c
श्रद्धधानाश्च ये मर्त्या आहरिष्यन्ति सन्ततिम् । 072a
दुर्गात्ते तारयिष्यन्ति नरकात्प्रपितामहान् ॥ 072c
पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः । 073a
वृद्धगार्ग्यो महातेजास्तानेवं वाक्यमब्रवीत् ॥ 073c
के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः । 074a
वर्षासु दीपदानेन तथैव च तिलोदकैः ॥ 074c
पितर ऊचुः 075
नीलषण्डस्य लाङ्गूलं तोयमभ्युद्धरेद्यदि । 075a
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः ॥ 075c
यस्तु शृङ्गगतं पङ्क्तं कूलादुद्धृत्य तिष्ठति । 076a
पितरस्तेन गच्छन्ति सोमलोकमसंशयम् ॥ 076c
वर्षासु दीपदानेन शशीवच्छोभते नरः । 077a
तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति ॥ 077c
अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम् । 078a
पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन । 078c
कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत् ॥ 078e
हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा । 079a
कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत् । 079c
श्रद्दधानस्तु यः कुर्यात्पितॄणामनृणो भवेत् ॥ 079e
एवमेव समुद्दिष्टः श्राद्धकालक्रमस्तथा । 080a
विधिः पात्रं फलं चैव यथावदनुकीर्तितम् ॥] 080c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

7-188-5 यमेनप्राप्तमिति शेषः ॥ 7-188-9 दशानां पशूनां सूना वधो यत्र सा पशुघ्नजातिर्दशसूना । चक्रं चक्रवान् तैलिकः । ध्वजः सुरापायी । नृपः क्षुद्रो राजा ॥ 7-188-10 एवं दुष्प्रतिग्रहपराङ्मुखेन त्रिवर्गशास्त्रं धर्मार्थकामशास्त्राणि ज्ञेयानि ॥ 7-188-14 पठन्ति शास्त्रम् । उपतिष्ठति सम्यक् स्फुरत्याचष्टे च यः स स्वयं नारायण एवेति ज्ञातव्यः ॥ 7-188-19 सनरान् सहर्षीन्प्राप्तः प्रष्टुमिति शेषः ॥ 7-188-22 पूज्य सम्पूज्य ॥ 7-188-34 चिरजीविनं मार्कण्डेयम् ॥ 7-188-40 यतः ऋत्विक् श्राद्धभोक्ता यजमानस्य पितृत्वं गच्छति तस्मादन्यात्मतां गतः स्वस्त्रियं न गच्छेत् । पारदार्यदोषतुल्यं ह्येतदित्यर्थः ॥ 7-188-41 एतच्च वरणमारभ्य द्रष्टव्यमित्याशयेनाह शुचिनेति ॥ 7-188-50 वटकषायेण वटजटाकषायेण । प्रियङ्गुः राजसर्षपः षष्टिकान् षष्टिरात्रेण पक्वधान्यम् ॥ 7-188-52 विभावसुं सूर्यम् ॥