श्रीः अध्यायः 187

भीष्मेण युधिष्ठिरम् प्रति साम्नः सकलवशीकरणोपायत्वे दृष्टान्ततया रक्षोब्राह्मणसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच 001
साम्नि चापि प्रदाने च ज्यायः किं भवतो मतम् । 001a
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥ 001c
भीष्म उवाच 002
साम्ना प्रसाद्यते कश्चिद्दानेन च तथाऽपरः । 002a
पौरुषीं प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥ 002c
गुणांस्तु शृणु वैराजन्त्सान्त्वस्य पुरुषर्षभ । 003a
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥ 003c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 004a
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ॥ 004c
कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने । 005a
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥ 005c
सुबुद्धिः श्रुतिसम्पन्नो दृष्ट्वा तमतिभीषणम् । 006a
सामैवास्मै प्रयुञ्जानो न मुमोह न विव्यधे ॥ 006c
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम् । 007a
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥ 007c
भीष्म उवाच 008
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणस्तं निरीक्ष्य सः । 008a
अभीतवदथाव्यग्रः प्रश्नं प्रतिजगाद ह ॥ 008c
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः । 009a
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥ 009c
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि । 010a
स्वदोषात्तु परित्यज्य तेनासि हरिणः कृशः ॥ 010c
अवृत्त्या पीड्यमानोऽपि वृत्त्युपायान्विगर्हयन् । 011a
महार्थान्ध्यायसे नूनं तेनासि हरिणः कृशः ॥ 011c
परकार्याधिकारस्थाः सद्गुणैरधमा नराः । 012a
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥ 012c
गुणवान्निर्गुणानन्यान्नूनं पश्यसि तत्कृतान् । 013a
प्राज्ञैरपि विनीतात्मा तेनासि हरिणः कृशः ॥ 013c
सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः । 014a
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ॥ 014c
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः । 015a
मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥ 015c
प्राज्ञैरपूजितो नूनं प्राज्ञैरप्यभिनिन्दितः । 016a
ह्रीमानमर्षी दुर्वृत्तस्तेनासि हरिणः कृशः ॥ 016c
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् । 017a
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥ 017c
नूनमद्य सतां मध्ये तव वाक्यमनुत्तमम् । 018a
न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥ 018c
दृष्टपूर्वाञ्श्रुतपूर्वान्कुपितान्हृदयप्रियान् । 019a
अनुनेतुं न शक्रोषि तेनासि हरिणः कृशः ॥ 019c
नूनमासञ्जयित्वा त्वा कृत्ये कस्मिंश्चिदीप्सिते । 020a
कच्चिदर्थयते नित्यं तेनासि हरिणः कृशः ॥ 020c
परोक्षवादिभिर्मिथ्यादोषस्ते सम्प्रदर्शितः । 021a
तज्ज्ञैर्न पूज्यसे व्यक्तं तेनासि हरिणः कृशः ॥ 021c
नूनं त्वां सद्गुणापेक्षं पूजयानं सुहृत्प्रजाः । 022a
मायावीति च जानन्ति तेनासि हरिणः कृशः ॥ 022c
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि । 023a
विवक्तुं प्राप्य शैथिल्यात्तेनासि हरिणः कृशः ॥ 023c
नानाबुद्धिरुचील्ँलोके मानुषान्नूनमिच्छसि । 024a
ग्रहीतुं स्वैर्गुणैः सर्वांस्तेनासि हरिणः कृशः ॥ 024c
असत्सु विनिविष्टेषु न गुणान्वदतः स्वयम् । 025a
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥ 025c
धर्मवृत्तः श्रुतैर्हीनः पदं त्वं रजसान्वितः । 026a
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ 026c
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् । 027a
बन्धुवर्गो निगृह्णाति तेनासि हरिणः कृशः ॥ 027c
इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः । 028a
युवा सुललितः कामी तेनासि हरिणः कृशः ॥ 028c
दुर्विनीतहतः पुत्रो जामाता वाऽप्रमार्जकः । 029a
दारा वा प्रतिकूलास्ते तेनासि हरिणः कृशः ॥ 029c
भ्रातरोऽतीव विषमाः पिता वा क्षुत्क्षतो मृतः । 030a
माता ज्येष्ठो गुरुर्वाऽपि तेनासि हरिणः कृशः ॥ 030c
ब्राह्मणो वा हतो गौर्वा ब्रह्मस्वं वापहृतं पुरा । 031a
देवस्वं वा हृतं काले तेनासि हरिणः कृशः ॥ 031c
हृतदारोऽथ वृद्धो वा लोके द्विष्टोऽथवा नरैः । 032a
अविज्ञानेन वा वृद्धस्तेनासि हरिणः कृशः ॥ 032c
वार्धकार्थं धनं दृष्ट्वा स्वा श्रीर्वाऽपि परैर्हृता । 033a
वृत्तिर्वा दुर्जनापेक्षा तेनासि हरिणः कृशः ॥ 033c
सम्पत्कालेन ते धर्मः क्षीणस्तात सुहृद्ब्रुवैः । 034a
असन्न्यासमतिस्तत्र तेनासि हरिणः कृशः ॥ 034c
अविद्वान्भीरुरल्पार्थे विद्याविक्रमदानजम् । 035a
यशः प्रार्थयसे नित्यं तेनासि हरिणः कृशः ॥ 035c
चिराभिलषितं किञ्चित्फलमप्राप्तमेव ते । 036a
कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥ 036c
नूनमात्मगतं दोषमपश्यन्किञ्चिदात्मनि । 037a
अकारणेऽभिशस्तो हि तेनासि हरिणः कृशः ॥ 037c
सुहृदां दुःखमार्तानां न प्रमोक्ष्यसि हानिजम् । 038a
अलमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥ 038c
साधून्गृहस्थान्दृष्ट्वा च तथा साधून्वनेचरान् । 039a
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥ 039c
धर्म्यमर्थ्यं च काम्यं च देशे च रहितं वचः । 040a
न प्रसिद्ध्यति ते नूनं तेनासि हरिणः कृशः ॥ 040c
दत्तानकुशलैरर्थान्मनीषी सञ्जिजीविषुः । 041a
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥ 041c
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि । 042a
सुहृदामुपरोधेन तेनासि हरिणः कृशः ॥ 042c
पापान्विवर्धितान्दृष्ट्वा कल्याणांश्चावसीदतः । 043a
ध्रुवं गर्हयसे नूनं तेनासि हरिणः कृशः ॥ 043c
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत् । 044a
सहायमकरोच्चैनं सम्पूज्यामुं मुमोच ह ॥ 044c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥

7-187-8 आभिर्गाधाभिरव्यग्र इति झ. पाठः ॥ 7-187-10 स्वदोषादपरज्यन्ते इति झ. पाठः ॥ 7-187-16 प्रज्ञासम्भावितो नूनमप्रदैरुपसंहिते इति झ. पाठः ॥