श्रीः अध्यायः 186

युधिष्ठिरेणावश्यवेद्योपास्येषु परावधिम् पृष्टेन भीष्मेण तम् प्रति श्रीनारायणमहिमप्रतिपादकनारदपुण्डरीकसंवादानुवादपूर्वकं नारायणस्य सर्वोत्कृष्टत्वेन वेद्यत्वोपास्यत्वविधानम् ॥ 1 ॥

'*युधिष्ठिर उवाच 001
यज्ज्ञेयं परमं कृत्यमनुष्ठेयं महात्मभिः । 001a
सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात् ॥ 001c
भीष्म उवाच 002
श्रूयतामिदमत्यन्तं गूढं संसारमोचनम् । 002a
श्रोतव्यं च त्वया सम्यग्ज्ञातव्यं च विशाम्पते ॥ 002c
पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः । 003a
नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् ॥ 003c
नारदश्चाब्रवीदेनं ब्रह्मणोक्तं महात्मना ॥ 004ac
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम् । 005a
अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसंयुतम् । 005c
यः परः प्रकृते प्रोक्तः पुरुषः पञ्चविंशकः । 006a
स एव सर्वभूतात्मा नर इत्यभिधीयते ॥ 006c
नराज्जातानि तत्वानि नाराणीति ततो विदुः । 007a
तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥ 007c
नारायणाज्जगत्सर्वं सर्गकाले प्रजायते । 008a
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥ 008c
नारायणः परं ब्रह्म तत्वं नारायणः परः । 009a
परादपि परश्चासौ तस्मान्नास्ति परात्परः ॥ 009c
वासुदेवं तथा विष्णुमात्मानं च तथा विदुः । 010a
सञ्ज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः ॥ 010c
आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः । 011a
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ 011c
तस्मात्त्वं गहनान्सर्वांस्त्यक्त्वा शास्त्रार्थविस्तरान् । 012a
अनन्यचेता ध्यायस्व नारायणमजं विभुम् ॥ 012c
मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः । 013a
सोऽपि तद्गतिमाप्नोति किं पुनस्तत्परायणः ॥ 013c
नमो नारायणायेति यो वेद ब्रह्म शाश्वतम् । 014a
अन्त्यकाले जपन्नेति तद्विष्णोः परमं पदम् ॥ 014c
श्रवणान्मननाच्चैव गीतिस्तुत्यर्चनादिभिः । 015a
आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा ॥ 015c
लिप्यते न स पापेन नारायणपरायणः । 016a
पुनाति सकलं लोकं सहस्रांशुरिवोदितः ॥ 016c
ब्रह्मचारी गृहस्थोऽपि वानप्रस्थोऽथ भिक्षुकः । 017a
केशवाराधनं हित्वा नैव याति परां गतिम् ॥ 017c
जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः । 018a
तद्भक्तवत्सलं देवं समाराधय सुव्रत ॥ 018c
नारदेनैवमुक्तस्तु स विप्रोऽभ्यर्चयद्धरिम् । 019a
स्वप्नोऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ॥ 019c
किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम् । 020a
तं दृष्ट्वा देवदेवेशं प्राणमत्सम्भ्रमान्वितः ॥ 020c
अथ कालेन महता तथा प्रत्यक्षतां गतः । 021a
संस्तुतः स्तुतिभिर्वेदैर्देवगन्धर्वकिन्नरैः ॥ 021c
अथ तेनैव भगवानात्मलोकमधोक्षजः । 022a
गतः सम्पूजितः सर्वैः स योगिनिलयो हरिः ॥ 022c
तस्मात्त्वमपि राजेन्द्र तद्भक्तस्तत्परायणः । 023a
अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम् ॥ 023c
अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् । 024a
निरुपममुपमेयं योगिविज्ञानगम्यं त्रिभुवनगुरुमीशं सम्प्रपद्यस्व विष्णुम् ॥ 024c

इती श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

  • अयमध्यायो दाक्षिणात्यकोशेष्वेव दृश्यते ।