श्रीः अध्यायः 185

भीष्मेण युधिष्ठिरम् प्रति पतिव्रताधर्मप्रतिपादकशाण्डिलीसुमनासंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच 001
स्त्रीणां हि समुदाचारं सर्वधर्मविदांवर । 001a
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम् । 002a
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥ 002c
केन वृत्तेन कल्याणि समाचारेण केन वा । 003a
विधूय सर्वपापानि देवलोकं त्वमागता ॥ 003c
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा । 004a
सुता ताराधिपस्येव प्रभया दिवमागता ॥ 004c
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा । 005a
विमानस्था शुभा भासि सहस्रगुणमोजसा ॥ 005c
न त्वमल्पेन तपसा दानेन नियमेन वा । 006a
इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वदस्व मे ॥ 006c
इति पृष्टा सुमनया मधुरं चारुहासिनी । 007a
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥ 007c
नाहं काषायवसना नापि वल्कलधारिणी । 008a
न च मुण्डा च जटिला भूत्वा देवत्वमागता ॥ 008c
अहितानि च वाक्यानि सर्वाणि परुषाणि च । 009a
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रवम् ॥ 009c
देवतानां पितॄणां च ब्राह्मणानां च पूजने । 010a
अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी ॥ 010c
पैशुन्ये न प्रवर्तामि न ममैतन्मनो गतम् । 011a
अद्वारि न च तिष्ठामि चिरं न कथयामि च ॥ 011c
असद्वा हसितं किञ्चिदहितं वाऽपि कर्मणा । 012a
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥ 012c
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् । 013a
आसनेनोपसंयोज्य पूजयामि समाहिता ॥ 013c
यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति । 014a
भक्ष्यं वा यदि वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥ 014c
कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु । 015a
पुनरुत्थाय तत्सर्वं कारयामि करोमि च ॥ 015c
अग्निसंरक्षणपरा गृहशुद्धिं च कारये । 016a
कुमारान्पालये नित्यं कुमारीं परिशिक्षये ॥ 016c
आत्मप्रियाणि हित्वाऽपि गर्भसंरक्षणे रता । 017a
बालानां वर्जये नित्यं शापं कोपं प्रतापनम् ॥ 017c
अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे । 018a
रक्तवत्स्पृहये गेहे गावः सयवसोदकाः । 018c
समुद्गम्य च शुद्धाऽहं भिक्षां दद्यां द्विजातिषु ॥ 018e
प्रवासं यदि मे याति भर्ता कार्येण केनचित् । 019a
मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा ॥ 019c
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् । 020a
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥ 020c
नोत्थापयामि भर्तारं सुखं सुप्तमहं सदा । 021a
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः । 021c
नोत्थापये सुखं सुप्तं ह्यातुरं पालये पतिम् ॥ 021e
नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा । 022a
गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना ॥ 022c
इमं धर्मपथं नारी पालयन्ती समाहिता । 023a
अरुन्धतीव नारीणीस्वर्गलोके महीयते ॥ 023c
भीष्म उवाच 024
एतदाख्याय सा देवी सुमनायै तपस्विनी । 024a
पतिधर्मं महाभागा जगामादर्शनं तदा ॥ 024c
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि । 025a
स देवलोकं सम्प्राप्य नन्दने स सुखी वसेत् ॥ 025c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥

7-185-19 मङ्गलैर्नियतेति मङ्गलसूत्रमात्रं धारयामि नतु ताम्बूलादीनित्यर्थः ॥ 7-185-25 पाण्डवाख्यानं पाण्डवेति च्छेदः ॥