श्रीः अध्यायः 184
भीष्मेण युधिष्ठिरम् प्रति विद्यातपोदानप्रशंसापरव्यासमैत्रेयसंवादानुवादः ॥ 1 ॥
भीष्म उवाच 001
एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत । 001a
दिष्ट्यैतत्त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी || 001c
लोको ह्ययं गुणानेव भूयिष्ठं सम्प्रशंसति । 002a
रूपमानो वयोमानो धनविद्यामदस्तथा ॥ 002c
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः । 003a
तत्ते बहुगुणं दानं वर्तयिष्यामि तच्छृणु ॥ 003c
यानीहागमशास्त्राणि याश्च काश्चित्प्रिवृत्तयः । 004a
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् || 004c
अहं दानं प्रशंसामि भवानपि तपःश्रुतेः । 005a
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥ 005c
तपसा महदाप्नोति विद्यया चेति नः श्रुतम् । 006a
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥ 006c
यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः । 007a
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥ 007c
दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम् । 008a
सर्वं वै तपसाऽभ्येति तपो हि बलवत्तरम् ॥ 008c
सुरापः स्वर्णहारी च भ्रूणहा गुरुतल्पगः । 009a
तपसा तरते सर्वमेनसश्च प्रमुच्यते ॥ 009c
सर्वो वैद्यस्तु चक्षुष्मानपि यादृशतादृशः । 010a
तपस्विनं तथैवाहुस्ताभ्यां कार्यं सतां मतम् ॥ 010c
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः । 011a
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥ 011c
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् । 012a
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकम् ॥ 012c
पूजिताः पूजयन्त्येते मानिता मानयन्ति च । 013a
स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते ॥ 013c
अकर्ता चैव कर्ता च लभते यस्य यादृशम् । 014a
यदि चोर्ध्वं यद्यधो वा स्वान्लोकानभियास्यति ॥ 014c
प्राप्स्यसि त्वन्नपानानि यानि दास्यसि कर्हिचित् । 015a
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥ 015c
कौमारदारो व्रतवान्मैत्रेय निरतो भव । 016a
[एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥ 016c
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता । 017a
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥ 017c
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा ।] 018a
दानेन तपसा चैव विष्णोरभ्यर्चनेन च । 018c
'ब्राह्मणः स महाभाग तरेत्संसारसागरात् ॥ 018e
स्वकर्मशुद्धसत्त्वानां तपोभिर्निर्मलात्मनाम् । 019a
विद्यया गतमोहानां तारणाय हरिः स्मृतः ॥ 019c
तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु । 020a
तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः ॥ 020c
प्रणवोपासनपराः परमार्थपरास्त्विह । 021a
एतैः पावय चात्मानं सर्वपापमपोह्य च ॥' 021c
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् । 022a
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ॥ 022c
तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम् । 023a
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ॥ 023c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥
7-184-3 वर्तयिष्यामि कथयिष्यामि ॥ 7-184-10 यः सर्ववित्स चक्षुष्मान् यादृशतादृशमपि तपस्विनं तथैव चक्षुष्मन्तमेवाहुः । ताभ्यां सर्ववित्तपस्विभ्याम् ॥ 7-184-17 वासिता स्वस्त्री ॥