श्रीः अध्यायः 183

भीष्मेण युधिष्ठिरम् प्रति दानादिप्रशंसापरव्यासमैत्रेयसंवादानुवादः ॥ 1 ॥

भीष्म उवाच 001
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूर्वकः । 001a
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ॥ 001c
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् । 002a
अनुज्ञातश्च भवता किञ्चिद्ब्रूयामहं विभो ॥ 002c
व्यास उवाच 003
यद्यदिच्छसि मैत्रेय यावद्यावद्यथायथा । 003a
ब्रूहि तत्वं महाप्राज्ञ शुश्रूषे वचनं तव ॥ 003c
मैत्रेय उवाच 004
निर्दोषं निर्मलं चैव वचनं सत्यसंहितम् । 004a
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ॥ 004c
भवतो भावितात्मत्वाल्लाभोऽयं सुमहान्मम । 005a
भूयो बुद्ध्याऽनुपश्यामि सुसमृद्धतपा इव ॥ 005c
अपि मे दर्शनादेव भवतोऽभ्युदयो महान् । 006a
मन्ये भवत्प्रसादोऽयं बुद्धिकर्मस्वभावतः ॥ 006c
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् । 007a
त्रिभिर्गुणैः समुदितः स्नातो भवति वै द्विजः ॥ 007c
अस्मिंस्तृप्ते च तृप्यन्ति पितरो दैवतानि च । 008a
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते ॥ 008c
'असंस्कारात्क्षत्रवैश्यौ नश्येते ब्राह्मणादृते । 009a
शूद्रो नश्यत्यशुश्रूषुराश्रमाणां यथार्हतः ॥' 009c
[अन्धं स्यात्तम एवेदं न प्रज्ञायेत किञ्चन । 010a
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते ॥] 010c
यथाहि सुकृते क्षेत्रे फलं विन्दति मानवः । 011a
एवं दत्त्वा श्रुतवते फलं दाता समश्नुते ॥ 011c
ब्राह्मणश्चेन्न विन्देत श्रुतवृत्तोपसंहितः । 012a
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ॥ 012c
अन्नं ह्यविद्वान्हन्त्येवमविद्वांसं च हन्ति तत् । 013a
तच्चान्यं हन्ति यच्चान्यत्स भुक्त्वा हन्यतेऽबुधः ॥ 013c
प्राहुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः । 014a
स चान्नाज्जायते तस्मात्सूक्ष्म एष व्यतिक्रमः ॥ 014c
'ब्राह्मं ह्यनुपयोगी यो ददंश्चान्नमसंशयम् । 015a
यस्तारयति वै विद्वान्पितॄन्देवान्सदाऽमृतान् ||' 015c
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः । 016a
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ॥ 016c
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः । 017a
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ॥ 017c
ये योनिशुद्धाः सततं तपस्यभिरता भृशम् । 018a
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा ॥ 018c
तैर्हि सद्भिः कृतः पन्था देवयानो न मुह्यते । 019a
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ॥ 019c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥ 183 ॥

7-183-7 श्रुतं शास्त्रज्ञानम् । 7-183-8 ब्राह्मणादृते इदमन्धन्तम एव स्याद्यतो वर्णधर्मादिकं तेन विना न प्रज्ञायेतेति सम्बन्धः ॥ 7-183-14 ईश्वरत्वाच्च क्षेत्रभूतः सन् पुनर्जनयति दात्रे अनेकगुणितं प्रयच्छतीत्यर्थः । सच दातुरन्नाज्जायते प्रजारूपेण । गृहस्थश्चेत्तत्र यस्यान्नं तस्य सन्ततिरिति सूक्ष्मो व्यतिक्रमोऽस्ति । तेन गृहस्थः परपाकं नाश्नीयादिति गम्यते ॥ 7-183-15 प्रतिग्रहीत्रभावे अन्नस्य वृद्धिर्न स्यात् । वद्ध्यभावे दातुर्दाने प्रवृत्तिर्न स्यादिति दातृप्रतिग्रहीतारौ चक्रवल्लोकतन्त्रं वहत इत्यर्थः ॥