श्रीः अध्यायः 182

भीष्मेण युधिष्ठिरम् प्रति विद्यातपोदानानां मध्ये दानप्रशंसनपरव्यासमैत्रेयसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच 001
विद्या तपश्च दानं च किमेतेषां विशिष्यते । 001a
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥ 002c
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् । 003a
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥ 003c
तमुपच्छन्नमासीनं ज्ञात्वा स मुनिसत्तमः । 004a
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥ 004c
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् । 005a
उत्तिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ॥ 005c
तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् । 006a
कारणं ब्रूहि धर्मात्मन्व्यस्मयिष्ठाः कुतश्च ते । 006c
तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥ 006e
एतदिच्छामि ते विद्वन्नभिवाद्य प्रणम्य च । 007a
आत्मनश्च तपोभाग्यं सुखभाग्यं ममेह च ॥ 007c
'तपोभाग्यान्महाभाग सुखभाग्यात्तथैव च ।' 008a
पृथगाचरितं तात पृथगाचरितात्मनः । 008c
अल्पान्तरमहं मन्ये विशिष्टमपि चान्वयात् ॥ 008e
व्यास उवाच 009
अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः । 009a
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥ 009c
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं प्रति । 010a
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परान्वदेत् ॥ 010c
इति वेदोक्तमृषिभिः पुरस्तात्परिकल्पितम् । 011a
इदानीं चैव नः कृत्यं पुरस्ताच्च परिश्रुतम् ॥ 011c
अल्पोऽपि तादृशो न्यासो भवत्युत महाफलः । 012a
तृषिताय च यद्दत्तं हृदयेनानसूयता ॥ 012c
तोषितास्त्रिदशा यत्ते दत्त्वैतद्दर्शनं मम । 013a
अजैषीर्महतो लोकान्महायज्ञैरिव प्रभो ॥ 013c
ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च । 014a
दूरात्पुण्यवतो गन्धः पुण्यस्यैव च दर्शनात् ॥ 014c
पुण्यश्च वातिगन्धस्ते मन्ये कर्म विधानजम् । 015a
अथ कर्मार्जितस्तात यथाचैवानुलेपनात् ॥ 015c
शुभं सर्वपवित्रेभ्यो दानमेव परं द्विज । 016a
[नोचेत्सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥] 016c
यानीमान्युत्तमानीह वेदोक्तानि प्रशंसति । 017a
तेषां श्रेष्ठतरं दानमिति मे नात्र संशयः ॥ 017c
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः । 018a
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥ 018c
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः । 019a
सर्वत्यागो यता चेह तथा दानमनुत्तमम् ॥ 019c
त्वं हि तात सुखादेव शुभमेष्यसि शोभनम् । 020a
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥ 020c
तन्नः प्रत्यक्षमेवेदमुपलक्ष्यमसंशयम् । 021a
श्रीमन्तः प्राप्नुवन्त्यर्थान्दानं यज्ञं तथा सुखम् ॥ 021c
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् । 022a
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥ 022c
विविधानीह वृत्तानि नरस्याहुर्मनीषिणः । 023a
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥ 023c
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पातकम् । 024a
यथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥ 024c
यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः । 025a
येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः ॥ 025c
द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च । 026a
ततोऽन्यत्कर्म यत्किञ्चिन्न पुण्यं न च पातकम् ॥ 026c
'नित्यं चाकृपणो भुङ्क्ते स्वजनैर्देहि याचतः । 027a
भाग्यक्षयेण क्षीयन्ते नोपभोगेन सञ्चयाः ॥' 027c
रमस्वैधस्व मोदस्व देहि दाने रमस्व च । 028a
न त्वामतिभविष्यन्ति वैद्या न च तपस्विनः ॥ 028c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

7-182-3 मैत्रेयमपि अज्ञातचरितं चरन्तमित्यर्थः । त्वम् ईरयति धर्माय प्रेरयति स्वैरिणी मुनिश्रेणी तस्याः कुले गृहे । स्वैरिणं कुल इति थ. पाठः ॥ 7-182-5 अस्मयत विस्मयं प्राप्तवान् ॥ 7-182-6 कुतश्च ते प्रमोद इति सम्बन्धः ॥ 7-182-7 इच्छामि ज्ञातुमिति शेषः ॥ 7-182-9 अतिच्छेदोऽत्यन्तमन्तरं मशकेन समुद्रशोषणमिव अतिवादस्तस्यैवार्थस्य कथनं लोके ताभ्यां विस्मयो मे भवेत् । इदं स्थानं क्रतुशतं विना न प्राप्यत इति वेदवचनमसत्यम् । जलमात्रदानेन तव तत्प्राप्तिदर्शनात् । देशकालपात्रश्रद्धाविशेषादल्पमपि महत्तमत्वं जलमौक्तिकन्यायेन प्राप्नोतीति दर्शनात् । कस्माद्वेदोऽनृतं वदेदिति उक्तम् ॥