श्रीः अध्यायः 181
कीटेन व्यासचोदनया राज्यपालनपूर्वकं जन्मान्तरे ब्राह्मण्यलाभेन तपश्चर्यादिना ब्रह्मसालोक्याधिगमः ॥ 1 ॥
भीष्म उवाच 001
क्षत्रधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान् । 001a
त्यक्त्वा हि कीटतां राजंश्चचार विपुलं तपः ॥ 001c
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः । 002a
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ॥ 002c
व्यास उवाच 003
क्षात्रादेव व्रतात्कीट भूतानां परिपालय । 003a
क्षात्रं देवव्रतं ध्यासंस्ततो विप्रत्वमेष्यसि ॥ 003c
पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविदात्मवान् । 004a
शुभैः संविभजन्कामैरशुभानां च भावनैः ॥ 004c
आत्मवान्भव सुप्रीतः स्वधर्माचरणे रतः । 005a
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ॥ 005c
भीष्म उवाच 006
सोऽप्यरण्यादभिप्रेत्य पुनरेव युधिष्ठिर । 006a
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पालयन् ॥ 006c
अचिरेणैव कालेन कीटः पार्थिवसत्तम । 007a
प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः ॥ 007c
ततस्तं ब्राह्मणं द्रष्टुं पुनरेव महायशाः । 008a
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥ 008c
व्यास उवाच 009
भोभो ब्रह्मर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन । 009a
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ 009c
उपपद्यति धर्मज्ञ यथाधर्मं यथाव्रतम् । 010a
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन । 010c
धर्मलाभात्परं न स्यात्तस्माद्धर्मं चरोत्तमम् ॥ 010e
कीट उवाच 011
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् । 011a
धर्ममूलं शुभं प्राप्य पाप्मा नष्ट इहाद्य मे ॥ 011c
भीष्म उवाच 012
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् । 012a
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् । 012c
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ॥ 012e
अथ पापहरं कीटः पार्थ ब्रह्म सनातनम् । 013a
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥ 013c
कुरुक्षेत्रे युद्धहताः पुण्ये क्षत्रियपुङ्गवाः । 014a
सम्प्राप्तास्ते गतिं पुण्यां तन्मा त्वं शोच पुत्रक ॥ 014c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥