श्रीः अध्यायः 180

व्यासेन कीटाय राज्यदानम् ॥ 1 ॥

व्यास उवाच 001
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे । 001a
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥ 001c
अहं त्वां दर्शनादेव तारयामि तपोबलात् । 002a
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥ 002c
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् । 003a
अवाप्स्यसि परं धर्मं मानुष्ये यदि मन्यसे ॥ 003c
कर्मभूमिकृतं देवा भुञ्जते तिर्यगाश्च ये । 004a
धन्या अपि मनुष्येषु कामार्थाश्च यथा गुणाः ॥ 004c
वाग्बुद्धिपाणिपादैश्च समुपेता विपश्चितः । 005a
किमायाति मनुष्यस्य मन्दस्यार्थस्य जीवतः ॥ 005c
दैवे यः कुरुते पूजां विप्राग्निशशिसूर्ययोः । 006a
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥ 006c
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे । 007a
क्रमात्तेऽहं विनेष्यामि ब्रह्मत्वं यदि चेच्छसि । 007c
भीष्म उवाच 007
स तथेति प्रतिश्रुत्य कीटः समवतिष्ठत ॥ 007e
*तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ॥ 008ac
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् । 009a
श्वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु ॥ 009c
स कीटे एवमाख्यातमृषिणा सत्यवादिना । 010a
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः ॥ 010c
कीट उवाच 011
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः । 011a
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥ 011c
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः । 012a
स्यन्दनेषु च काम्भोजा युक्ताःसमरवाजिनः ॥ 012c
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् । 013a
सबान्धवः सहामात्यश्चाश्नामि पिशिताशनम् ॥ 013c
गृहेषु स्वनिवासेषु सुखेषु शयनेषु च । 014a
वरार्हेषु महाभाग स्वपामि च सुपूजितः ॥ 014c
सर्वेष्वपररात्रेषु सूतमागधवन्दिनः । 015a
स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः ॥ 015c
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः । 016a
यदहं कीटतां प्राप्य स्मृतिजाता जुगुप्सिताम् । 016c
ननु नाशोस्ति पापस्य यन्मयोपचितं पुरा ॥ 016e
[नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् । 017a
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥] 017c
व्यास उवाच 018
[अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया । 018a
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिताम् ॥] 018c
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना । 019a
ममैतद्दर्शनं प्राप्तं तच्च वै सुकृतं पुरा । 019c
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात्तथा ॥ 019e
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि । 020a
गोब्राह्मणकृते प्राणान्हित्वाऽऽत्मीयान्रणाजिरे ॥ 020c
भीष्म उवाच 021
राजपुत्रः सुखं प्राप्य ईजे चैवाप्तदक्षिणैः । 021a
अथ चोद्दीप्यत स्वर्गे प्रभूतोप्यव्ययः सुखी ॥ 021c
तिर्यग्योन्याः शूद्रतामभ्यपैति शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः । 022a
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्याद्ब्राह्मणः साधुवृत्तः ॥ 022c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

7-180-1 तदैव कीट तत्कर्मेति क. ड. थ. पाठः ॥ 7-180-6 जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः इति झ. पाठः ॥ 7-180-8 *अत्र सप्तमश्लोकादनन्तरं सार्धश्लोको झ. पुस्तकेऽधिको दृश्यते सच व्रजंश्च सुमहानागतश्च यदृच्छया । चक्राक्रमेण भिन्नश्च कीटः प्राणान्मुमोच ह ॥ सम्भूतः क्षत्रियकुले प्रसादादमितौजसः । इति ॥