श्रीः अध्यायः 179

भीष्मेण युधिष्ठिरम् प्रति कीटोपाख्यानकथनम् ॥ 1 ॥ कीटेन व्यासम् प्रति स्वपूर्वजन्मवृत्तान्तकथनम् ॥ 2 ॥

युधिष्ठिर उवाच 001
अकामाश्च सकामाश्च ये हताः स्म महामृधे । 001a
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥ 001c
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे । 002a
जानामि चाहं धर्मज्ञ प्राणत्यागं सुदुष्करम् ॥ 002c
समृद्धे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे । 003a
'संसारेऽस्मिन्सदाजाताः प्राणिनोऽभिरताःकथम् |' 003c
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥ 003e
भीष्म उवाच 004
समृद्धे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे । 004a
संसारेऽस्मिन्समे जाताः प्राणिनः पृथिवीपते ॥ 004c
निरता येन भावेन तत्र मे शृणु कारणम् । 005a
सम्यक्चायमनुप्रश्नस्त्वयोक्तस्तु युधिष्ठिर ॥ 005c
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप । 006a
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥ 006c
ब्रह्मिभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा । 007a
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥ 007c
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् । 008a
सर्वज्ञस्त्वरितं दृष्ट्वा कीटं वचनमब्रवीत् ॥ 008c
कीट सन्त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे । 009a
क्व च वासस्तदाचक्ष्व कुतस्ते भयमागतम् ॥ 009c
कीट उवाच 010
शकटव्रजस्य महतो घोषं श्रुत्वा भयं मम । 010a
आगतं वै महाबुद्धे स्वन एष हि दारुणः ॥ 010c
श्रूयते तु स मा हन्यादिति ह्यस्मादपक्रमे । 011a
श्वसतां च शृणोम्येनं गोवृषाणां प्रतोद्यताम् ॥ 011c
वहतां सुमहाभारं सन्निकर्षे स्वनं प्रभो । 012a
नृणां च संवाहयतां श्रूयन्ते विविधाः स्वनाः ॥ 012c
वोढुमस्मद्विधेनैष न शक्यः कीटयोनिना । 013a
तस्मादतिक्रमाम्येष भयादस्मात्सुदारुणात् ॥ 013c
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् । 014a
अतो भीतः पलायामि गच्छेयं नापदं यथा ॥ 014c
भीष्म उवाच 015
इत्युक्तः स तु सं प्राह कुतः कीट सुखं तव । 015a
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥ 015c
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् । 016a
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥ 016c
कीट उवाच 017
सर्वत्र निरतो जीव इहापि च सुखं मम । 017a
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥ 017c
इहापि विषयः सर्वो यथादेहं प्रवर्तितः । 018a
मनुष्यास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥ 018c
अहमासं मनुष्यो वै शूद्रो बहुधनः प्रभो । 019a
अब्रह्मण्यो नृशंसश्च कदर्यो बुद्धिजीवनः ॥ 019c
वाक्श्लक्ष्णो ह्यकृतप्रज्ञो द्वेष्टा विश्वस्य कर्मणः । 020a
मिथोगुप्तनिधिर्नित्यं परस्वहरणे रतः ॥ 020c
भृत्यातिथिजनश्चापि गृहेऽपर्यशितो मया । 021a
मात्सर्यात्स्वादुकामेन नृशंसेन बुभुक्षता ॥ 021c
देवार्थं पितृयज्ञार्थं न च श्राद्धं कृतं मया । 022a
न दत्तमन्नकामेषु दत्तमन्नं लुनामि च ॥ 022c
गुप्तं शरणमाश्रित्य भयेषु शरणागतान् । 023a
त्यक्त्वाऽकस्मान्निशायां च न दत्तमभयं मया ॥ 023c
धनं धान्यं प्रियान्दारान्यानं वासस्तथाऽद्भुतम् । 024a
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥ 024c
ईर्ष्युः परसुखं दृष्ट्वा अन्यस्य न बुभूषकः । 025a
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥ 025c
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया । 026a
स्मृत्वा तदनुतप्येऽहं हित्वा प्रियमिवात्मजम् ॥ 026c
शुभानां नाभिजानामि कृतानां कर्मणां फलम् । 027a
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥ 027c
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः । 028a
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ॥ 028c
कर्मणामेव चैवाहं सुखाशामिव लक्षये । 029a
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥ 029c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

7-179-19 कदर्यो वृद्धिजीवनः इति झ. पाठः ॥ 7-179-25 न बुभूषकः अनैश्वर्यमिच्छन् ॥