श्रीः अध्यायः 178

भीष्मेण युधिष्ठिरम् प्रति मांसगतगुणकथनपूर्वकं तद्भक्षणगर्हणम् ॥ 1 ॥ तथा दयाया अहिंसायाश्च प्रशंसनम् ॥ 2 ॥

युधिष्ठिर उवाच 001
इमे वै मानवा लोके भृशं मांसेषु गृद्धिनः । 001a
विसृज्य विविधान्भक्ष्यान्महारक्षोगणा इव ॥ 001c
अपूपान्विविधाकाराञ्शाकानि विविधानि च । 002a
पादपान्रससंयुक्तान्न चेच्छन्ति यथाऽऽमिषम् ॥ 002c
तत्र मे बुद्धिरत्रेव विषये परिमुह्यते । 003a
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीति किञ्चन ॥ 003c
तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणे प्रभो । 004a
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥ 004c
सर्वसत्त्वेन धर्मज्ञ यथावदिह धर्मतः । 005a
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥ 005c
यथैतद्यादृशं चैव गुणा ये चास्य वर्जने । 006a
दोषा भक्षयतो येऽपि तन्मे ब्रूहि पितामह ॥ 006c
भीष्म उवाच 007
सर्वमेतन्महाबाहो यथा वदसि भारत । 007a
न मांसात्परमं किञ्चिद्रसतो विद्यते भुवि ॥ 007c
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरतात्मनाम् । 008a
अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥ 008c
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां दधाति च । 009a
'नाशो भक्षणदोषः स्याद्दानमेव सदा मतम् ॥ 009c
क्षुधितानां द्विजानां च सर्वेषां चापि जीवितम् । 010a
दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः ॥ 010c
शिक्षयन्ति न याचन्ते दर्शयन्ति स्वमूर्तिभिः । 011a
अवस्थेयमदानस्य मा भूदेवं भवानिति । 011c
दानाद्यः सुशुचिर्मांसं पुनर्नैव च भक्षयेत् ॥' 011e
न भक्ष्योऽभ्यधिकः कश्चिन्मांसादस्ति परन्तप । 012a
विवर्जने तु बहवो गुणाः कौरवनन्दन । 012c
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥ 012e
स्वमांसं परमांसेन यो वर्धयितुमिच्छति । 013a
नास्ति क्षुद्रतरस्तस्मात्स नृशंसतरो नरः ॥ 013c
न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । 014a
तस्माद्दयां नरः कुर्याद्यथाऽऽत्मनि तथा परे ॥ 014c
शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः । 015a
भक्षणे तु महान्दोषो मलेन स हि कल्प्यते ॥ 015c
'अहिंसालक्षणो धर्म इति वेदविदो विदुः । 016a
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मविन्नरः ॥ 016c
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते ।' 017a
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥ 017c
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः । 018a
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥ 018c
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु । 019a
वीर्येणोपार्जितं मांसं यथा भुञ्जन्न दुष्यति ॥ 019c
आरण्याः सर्वदैवत्याः सर्वशः प्रोक्षिता मृगाः । 020a
अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥ 020c
'रक्षणार्थाय भूतानां हिंस्रान्हन्यान्मृगान्पुनः ।' 021a
नात्मानमपरित्यज्य मृगया नाम विद्यते ॥ 021c
समतामुपसङ्गम्य रूपं हन्यान्न वा नृप । 022a
अतो राजर्षयः सर्वे मृगयां यान्ति भारत । 022c
न हि लिप्यन्ति पापेन न चैतत्पातकं भुवि ॥ 022e
न ह्यतः सदृशं किञ्चिदिह लोके परत्र च । 023a
यत्सर्वेष्विह भूतेषु दया कौरवन्दन ॥ 023c
न भयं विद्यते जातु नरस्येह दयावतः । 024a
दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥ 024c
अभयं सर्वभूतेभ्यो यो ददाति दयापरः । 025a
अभयं तस्य भूतानि ददतीत्यनुशुश्रुम ॥ 025c
क्षतं च स्खलितं चैव पतितं क्लिन्नमाहतम् । 026a
सर्वभूतानि रक्षन्ति समेषु विषमेषु च । 026c
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः । 027a
मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥ 027c
प्राणदानात्परं दानं न भूतं न भविष्यति । 028a
न ह्यात्मनः प्रियतरं किञ्चिदस्तीह निश्चितम् ॥ 028c
अनिष्टं सर्वभूतानां मरणं नाम भारत । 029a
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥ 029c
व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे । 030a
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ 030c
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः । 031a
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥ 031c
जाताश्चाप्यवशास्तत्र च्छिद्यमानाः पुनःपुनः । 032a
हन्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥ 032c
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः । 033a
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनःपुनः ॥ 033c
नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह । 034a
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥ 034c
सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् । 035a
आश्वासं विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥ 035c
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् । 036a
भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः ॥ 036c
मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् । 037a
एतन्मांसस्य मांसत्वमनुबुद्ध्यस्व भारत ॥ 037c
घातको वध्यते नित्यं तथा वध्येत बन्धकः । 038a
आक्रोष्टा क्रुध्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ॥ 038c
येनयेन शरीरेण यद्यत्कर्म करोति यः । 039a
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥ 039c
अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः । 040a
अहिंसा परमं दानमहिंसा परमं तपः ॥ 040c
अहिंसा परमो यज्ञस्तथाऽहिंसा परं फलम् | 041a
अहिंसा परमं मित्रमहिंसा परमं सुखम् ॥ 041c
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतम् । 042a
सर्वदानफलं वाऽपि नैतत्तुल्यमहिंसया ॥ 042c
अहिंसस्य तपोऽक्षय्यमहिंस्रो जयते सदा । 043a
अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥ 043c
एतत्फलमहिंसायां भूयश्च कुरुपुङ्गव । 044a
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ 044c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥

7-178-15 दोषो निवृत्त्या पुण्यमुच्यत इति झ. पाठः ॥ 15 ॥ 7-178-21 किञ्च हन्यमानात्पशोः स्ववधस्यापि सम्भवात् प्राणपणेनेयं क्रियमाणा मृगया न दोषायेत्याह नात्मानमिति ॥ 21 ॥ 7-178-37 मां सः पूर्वजन्मनि भक्षितवानत एव तस्य मांसमहं भक्षयिष्यामीति व्यवहारान्मांसपदनिरुक्तिः ॥