श्रीः अध्यायः 177
भीष्मेण युधिष्ठिरम् प्रति मांसभक्षणाभक्षणयोः क्रमेण निन्दाप्रशंसने ॥ 1 ॥
युधिष्ठिर उवाच 001
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया । 001a
श्राद्धेषु च भवानाह पितॄणां मांसमीप्सितम् ॥ 001c
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा । 002a
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ॥ 002c
जातो नः संशयो धर्मे मांसस्य परिवर्जने । 003a
दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ॥ 003c
हत्वा भक्षयतो वाऽपि परेणोपहृतस्य वा । 004a
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥ 004c
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयाऽनघ । 005a
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥ 005c
कथमायुरवाप्नोति कथं भवति सत्ववान् । 006a
कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥ 006c
भीष्म उवाच 007
मांसस्याभक्षणाद्राजन्यो धर्मः कुरुनन्दन । 007a
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥ 007c
रूपमव्यङ्गतामायुर्बुद्धिं सत्वं बलं स्मृतिम् । 008a
प्राप्तुकामैर्नरैर्हिंसा वर्जनीया कृतात्मभिः ॥ 008c
ऋषीणामत्र संवादो बहुशः कुरुनन्दन । 009a
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥ 009c
यो यजेताश्वमेधेन मासिमासि यतव्रतः । 010a
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥ 010c
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः । 011a
मांसस्याभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥ 011c
न भक्षयति यो मांसं न च हन्यान्न घातयेत् । 012a
तन्मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत् ॥ 012c
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु । 013a
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन् ॥ 013c
स्वमांसं परमांसेन यो वर्धयितुमिच्छति । 014a
अविश्वास्योऽवसीदेत्स इति होवाच नारदः ॥ 014c
ददाति यजते चापि तपस्वी च भवत्यपि । 015a
मधुमांसनिवृत्त्येति प्राह चैवं बृहस्पतिः ॥ 015c
मासिमास्यश्वमेधेन यो यजेत शतं समाः । 016a
न खादति च यो मांसं सममेतन्मतं मम ॥ 016c
सदा यजति सत्रेण सदा दानं प्रयच्छति । 017a
सदा तपस्वी भवति मद्यमांसविवर्जनात् ॥ 017c
सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत । 018a
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥ 018c
'भक्षयित्वा निमित्तेऽपि दुष्करं कुरुते तपः ।' 019a
दुष्करं च रसज्ञेन मांसस्य परिवर्जनम् । 019c
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ॥ 019e
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् । 020a
दाता भवति लोके स प्राणानां नात्र संशयः । 020c
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः ॥ 020e
प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा । 021a
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिः कृतात्मभिः ॥ 021c
विकीर्णकर्णकेनापि तृणमस्पन्दने भयम् । 022a
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् । 022c
अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥ 022e
मृत्युतो भयमस्तीति शङ्कायां दुःखमुत्तरम् । 023a
धर्मस्यायतनं तस्मान्मांसस्य परिवर्जनम् ॥ 023c
अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः । 024a
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥ 024c
न हि मांसं तृणात्काष्ठादुपलाद्वाऽपि जायते । 025a
हत्वा जन्तुं ततो मांसं तस्माद्दोषस्तु भक्षणे ॥ 025c
स्वाहास्वाधामृतभुजो देवाः सत्यार्जवप्रियाः । 026a
राक्षसेन्द्रभयान्मुक्ताः सर्वभूतपरायणाः ॥ 026c
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च । 027a
रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च ॥ 027c
उद्यतेषु च शस्त्रेषु मृगव्यालहतेषु च । 028a
अमांसभक्षणाद्राजन्न भयं तेषु विद्यते ॥ 028c
शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु । 029a
अनुद्वेगकरो लोके न चाप्युद्विजते सदा ॥ 029c
यदि चेत्खादको न स्यान्न तदा घातको भवेत् । 030a
घातकः खादकार्थाय तद्घातयति वै नरः ॥ 030c
अभक्ष्यमेतदिति वै इति हिंसा निवर्तते । 031a
खादकक्रमतो हिंसा मृगादीनां प्रवर्तते ॥ 031c
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते । 032a
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥ 032c
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः । 033a
उद्वेजकास्तु भूतानां यथा व्यालमृगास्तथा ॥ 033c
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च । 034a
संसर्गादथ पापानामधर्मो रुचितो नृणाम् ॥ 034c
स्वमांसं परमांसेन यो वर्धयितुमिच्छति । 035a
उद्विग्नराष्ट्रे वसति यत्र यत्राभिजायते ॥ 035c
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् । 036a
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ॥ 036c
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया । 037a
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥ 037c
यो हि खादति सांसानि प्राणिनां जीवितैषिणाम् । 038a
सदा भवति वै पापः प्राणिहन्ता तथैव सः ॥ 038c
धनेन क्रयिको हन्ति खादकश्चोपभोगतः । 039a
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥ 039c
अखादन्ननुमोदंश्च भावदोषेण मानवः । 040a
योऽनुमोदति हन्यन्तं सोऽपि दोषेण लिप्यते ॥ 040c
अधृष्यः सर्वभूतानामायुष्मान्निरुजः सदा । 041a
भवत्यभक्षयन्मासं दयावान्प्राणिनामिह ॥ 041c
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः । 042a
मांसस्याभक्षणे धर्मो विशिष्ट इति नः श्रुतिः ॥ 042c
अप्रोक्षितं वृथामासं विधिहीनं न भक्षयेत् । 043a
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥ 043c
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया । 044a
अल्पदोषमिति ज्ञेयं विपरीते तु लिप्यते ॥ 044c
खादकस्य कृते जन्तून्यो हन्यात्पुरुषाधमः । 045a
महादोषकरस्तत्र घातको न तु खादकः ॥ 045c
इज्यायज्ञश्रुतिकृतैर्या मार्गैरबुधोऽधमः । 046a
हन्याज्जन्तून्मांसगृध्नुः स वै नरकभाङ्नरः ॥ 046c
भक्षयित्वाऽपि यो मांसं पश्चादपि निवर्तते । 047a
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ॥ 047c
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी । 048a
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ॥ 048c
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् । 049a
पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् ॥ 049c
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते । 050a
यथोक्तं राजशार्दूल न तु तन्मोक्षकारणम् ॥ 050c
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि । 051a
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च । 051c
प्रवृत्तिधर्मिणा भक्ष्यं नान्यथा मनुरब्रवीत् ॥ 051e
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ । 052a
विधिहीनं नरः पूर्वं मांसं राजन्न भक्षयेत् ॥ 052c
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् । 053a
स वर्जयेत मांसानि प्राणिनामिह सर्वशः ॥ 053c
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः । 054a
येनायजन्त विद्वांसः पुण्यलोकपरायणाः ॥ 054c
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा । 055a
अभक्ष्यमपि मांसं यः प्राह भक्ष्यमिति प्रभो ॥ 055c
आकाशादवनिं प्राप्तस्ततः स पृथिवीपतिः । 056a
यस्तदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥ 056c
प्रजानां हितकामेन त्वगस्त्येन महात्मना । 057a
आरण्याः सर्वदैवत्याः प्रोक्षितास्तापसैर्मृगाः ॥ 057c
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः । 058a
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥ 058c
इदं तु शृणु राजेन्द्र मांसस्याभक्षणे गुणाः । 059a
[अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥] 059c
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् । 060a
यश्चैव वर्जयेन्मांसं सममेतन्मतं मम ॥ 060c
कौमुद्यास्तु विशेषेण शुक्लपक्षे नराधिप । 061a
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥ 061c
[चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् । 062a
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ॥ 062c
अथवा मासमेकं वै सर्वमांसान्यभक्षयन् । 063a
अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः ॥ 063c
वर्जयन्ति हि मांसानि मासशः पक्षशोपि वा । 064a
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥] 064c
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः । 065a
सर्वभूतात्मभूतस्थैर्विदितार्थपरावरैः ॥ 065c
नाभागेनाम्बरीषेण गयेन च महात्मना । 066a
आयुषाऽथानरण्येन दिलीपरघुसूनुभिः ॥ 066c
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना । 067a
नृगेण विष्वगश्वेन तथैव शशबिन्दुना ॥ 067c
युवनाश्वेन च तथा शिबिनौशीनरेण च । 068a
मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण वा विभो ॥ 068c
सत्यं वदत माऽसत्यं सत्यं धर्मः सनातनः । 069a
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत् ॥ 069c
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च । 070a
रैवते रन्तिदेवेन वसुना सृञ्जयेन च ॥ 070c
एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च । 071a
दुष्यन्तेन करूशेन रामालर्कनलैस्तथा । 071c
विचकाश्वेन निमिना जनकेन च धीमता ॥ 071e
ऐलेन पृथुना चैंव वीरसेनेन चैव ह । 072a
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ॥ 072c
अजेन धुन्धुना चैव तथैव च सुबाहुना । 073a
हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च ॥ 073c
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् । 074a
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥ 074c
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियाऽन्विताः । 075a
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥ 075c
तदेतदुत्तमं धर्ममहिंसाधर्मलक्षणम् । 076a
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥ 076c
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः । 077a
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ॥ 077c
इमं धर्मममांसादं यश्चरेनच्छ्रावयीत वा । 078a
अपि चेत्सुदुराचारो न जातु निरयं व्रजेत् ॥ 078c
पठेद्वा च इदं राजञ्शृणुयाद्वाऽप्यभीक्ष्णशः । 079a
अमांसभक्षणविधिं पवित्रमृषिपूजितम् ॥ 079c
विमुक्तः सर्वपापेभ्यः सर्वकामैर्महीयते । 080a
विशिष्टतां ज्ञातिषु च लभते नात्र संशयः । 080c
'अहिंस्रो दानशीलश्च मधुमांसविवर्जितः ॥' 080e
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् । 081a
मुच्येत्तथाऽऽतुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥ 081c
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः । 082a
ऋद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥ 082c
एतत्ते कथितं राजन्मांसस्य परिवर्जने । 083a
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ॥ 083c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥
7-177-18 नहि कृत्स्नो वेदस्तथा तद्बोधिता यज्ञाश्च पुरुषं हिंसायां प्रवर्तयन्ति । किन्तु परिसङ्ख्याविधया निवृत्तिमेव बोधयन्तीत्यर्थः ॥ 7-177-33 व्यालमृगाः मांसादपशवः ॥ 7-177-40 हन्यन्तं हन्यमानम् ॥ 7-177-46 इज्या देवपूजा यज्ञोऽश्वमेधादिस्तदर्थं श्रुतिकृतैर्मार्गैरुपायैरबुधो यज्ञोपनिषदमजानन्मांसगृध्नुः । केवलं यज्ञव्याजेन मांसं भोक्तुकामः ॥ 7-177-50 प्रवत्तिलक्षणो धर्मः प्रजार्थिभिरुदाहृतः । यथोक्तं राजशार्दूल नतु तन्मोक्षकाङ्क्षिणाम् । इति झ. पाठः ॥ 7-177-57 आरण्याः प्रोक्षिता इति पर्यग्निकृतानारण्यानुत्सृजन्तीति श्रुतेरारण्यैर्यज्ञं कृत्वापि तेषां वधो न कृत इत्यर्थः ॥