श्रीः अध्यायः 176

भीष्मेण युधिष्ठिरम् प्रति हिंसाया मांसभक्षणस्य च गर्हणम् ॥ 1 ॥

वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा शरतल्पे पितामहम् । 001a
पुनरेव महाराज पप्रच्छ वदतांवरः ॥ 001c
युधिष्ठिर उवाच 002
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते । 002a
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥ 002c
कर्मणा न नरः कुर्वन्हिंसां पार्थिवसत्तम । 003a
वाचा च मनसा चैव ततो दुःखात्प्रमुच्यते ॥ 003c
भीष्म उवाच 004
चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः । 004a
एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥ 004c
यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति । 005a
तथैवेयं महीपाल कारणैः प्रोच्यते त्रिभिः ॥ 005c
यथा नागपदेऽन्यानि पदानि पदगामिनाम् । 006a
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥ 006c
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा । 007a
कर्म्णा लिप्यते जन्तुर्वाचा च मनसाऽपि च ॥ 007c
पूर्वं तु मनसा त्यक्त्वा त्यजेद्वाचाऽथ कर्मणा । 008a
'हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा ॥ 008c
काये मनसि वाक्येऽपि दोषा ह्येते प्रकीर्तिताः ।' 009a
[न भक्षयति यो मांसं त्रिविधं स विमुच्यते ॥ 009c
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः । 010a
मनो वाचि तथाऽऽस्वादे दोषा ह्येषु प्रतिष्ठिताः ॥] 010c
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः । 011a
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे ॥ 011c
पुत्र मांसोपमं जानन्खादते यो विचेतनः । 012a
मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः ॥ 012c
पितृमातृसमायोगे पुत्रत्वं जायते यथा । 013a
हिंसां कृत्वाऽवशः पापो भूयिष्ठं जायते तथा ॥ 013c
रसश्च हृदि जिह्वाया ज्ञानं प्रज्ञायते यथा । 014a
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥ 014c
संस्कृतासंस्कृताः पक्वा लवणालवणास्तथा । 015a
प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥ 015c
भेरीमृदङ्गशब्दांश्च तन्त्रीशब्दांश्च पुष्कलान् । 016a
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥ 016c
'परेषां धनधान्यानां हिंसकाः स्तावकास्तथा । 017a
प्रशंसकाश्च मांसस्य नित्यं स्वर्गे बहिष्कृताः ॥' 017c
अचिन्तितमनिर्दिष्टमसङ्कल्पितमेव च । 018a
रसगृद्ध्याऽभिभूता ये प्रशंसन्ति फलार्थिनः ॥ 018c
प्रशंसा ह्येव मांसस्य दोषकल्पफलान्विता ॥ 019ac
'भस्म विष्ठा कृमिर्वाऽपि निष्ठा यस्येदृशी ध्रुवा । 020a
स कायः परपीडाभिः कथं धार्यो विपश्चिता ॥' 020c
जीवितं हि परित्यज्य बहवः साधवो जनाः । 021a
स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥ 021c
एवमेषा महाराज चतुर्भिः कारणैः स्मृता । 022a
अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता ॥ 022c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥

7-176-4 मनसा वचसा कर्मणा भक्षणेनेति चतुर्विधा हिंसा । तत्र एकेन त्यक्ता सर्वात्मना त्यक्ता न भवति ॥ 7-176-6 नागपदे गजपदे क्षुद्रपदानामिव सर्वेषां धर्माणां समावेशो भवति अहिंसायाम् । कौञ्जरे पदे दत्ते सति सर्वाणि पदानि यथा पिधीयन्ते एवं हिंसायां सर्वे धर्माः पिधीयन्ते ॥ 7-176-13 यथा त्रीपुंयोगे नान्तरीयकं पुत्रजन्म एवं हिंसकस्य भूयिष्ठं पापयोनौ जन्मेत्यर्थः ॥