श्रीः अध्यायः 175
बृहस्पतिना युधिष्ठिरम्प्रत्यहिंसाप्रशंसनम् । 1 ॥
युधिष्ठिर उवाच 001
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः । 001a
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥ 001c
बृहस्पतिरुवाच 002
सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि नित्यशः । 002a
शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ ॥ 002c
हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् । 003a
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेत् ॥ 003c
त्रिदण्डं सर्वभूतेषु निधाय पुरुषः शुचिः । 004a
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥ 004c
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः । 005a
आत्मनः सुखमन्विच्छन्स प्रेत्य न सुखी भवेत् ॥ 005c
आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः । 006a
त्यक्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥ 006c
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः । 007a
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः ॥ 007c
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः । 008a
एष साङ्ग्राहिको धर्मः कामादन्यः प्रवर्तते ॥ 008c
प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये । 009a
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ 009c
यथा परः प्रक्रमते परेषु तथा परे प्रक्रमन्ते परस्मिन् । 010a
निषेवते स्वसमां जीवलोके यथा धर्मो नैपुणेनोपदिष्टः || 010c
वैशम्पायन उवाच 011
इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् । 011a
दिवामचक्रमे धीमान्पश्यतामेव नस्तदा ॥ 011c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥
7-175-7 सर्वेषां भूतानामात्मभूतस्याऽऽदुःखेनेव परदुःखेनाप्युद्विजतः ॥ 7-175-10 हिंसितो हिनस्ति पालितः पालयति तस्मात्पालयेदेव नो हिंसयेदित्यर्थः ॥