श्रीः अध्यायः 174
बृहस्पतिना युधिष्ठिरम् प्रति पश्चात्तापादेर्ब्राह्मणेभ्योऽन्नदानस्य च पापपरिहारोपायत्वकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयाऽनघ । 001a
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतांवर ॥ 001c
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् । 002a
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ 002c
बृहस्पतिरुवाच 003
कृत्वा पापानि कर्माणि अधर्मवशमागतः । 003a
मनसा विपरीतेन निरयं प्रतिपद्यते ॥ 003c
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते । 004a
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ 004c
[यथायथा मनस्तस्य दुष्कृतं कर्म गर्हते । 005a
तथातथा शरीरं तु तेनाधर्मेण मुच्यते ॥ 005c
यदि व्याहरते राजन्विप्राणां धर्मवादिनाम् । 006a
ततोऽधर्मकृतात्क्षिप्रमपवादात्प्रमुच्यते ॥] 006c
यथायथा नरः सम्यगधर्ममनुभाषते । 007a
समाहितेन मनसा विमुच्येत तथातथा । 007c
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥ 007e
दत्त्वा विप्रस्य दानानि विविधानि समाहितः । 008a
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥ 008c
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर । 009a
नरः कृत्वाऽप्यकार्याणि ततो धर्मेण युज्यते ॥ 009c
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् । 010a
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥ 010c
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते । 011a
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते ॥ 011c
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः । 012a
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः ॥ 012c
न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् । 013a
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥ 013c
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश । 014a
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥ 014c
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ । 015a
नरोऽधर्मात्प्रमुच्येत योगेष्वभिरतः सदा ॥ 015c
भैक्ष्येणान्नं समाहृत्य दद्यादन्नं द्विजेषु वै । 016a
सुवर्णदानात्पापानि नश्यन्ति सुबहून्यपि ॥ 016c
दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते । 017a
पारायणैश्च वेदानां मुच्यते पातकैर्द्विजः ॥ 017c
गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात् । 018a
वेदार्थं ज्ञापयित्वा तु शुद्धान्विप्रान्यथार्थतः ॥ 018c
सर्वत्यागादिभिश्चैव मुच्यते पातकैर्द्विजः । 019a
सर्वातिथ्यं परं ह्येषां तस्माद्दानं परं स्मृतम् ॥ 019c
अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च । 020a
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥ 020c
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः । 021a
तेनापोहति धर्मात्मन्दुष्कृतं कर्म पाण्डव ॥ 021c
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् । 022a
वैश्योऽददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥ 022c
अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम् । 023a
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥ 023c
औरसेन बलेनान्नमर्जयित्वाऽविहिंसकः । 024a
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति ॥ 024c
न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः । 025a
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥ 025c
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः । 026a
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ॥ 026c
'शूद्रान्नं नैव भोक्तव्यं विप्रैर्धर्मपरायणैः । 027a
आपद्येव स्वदासानां भोक्तव्यं स्वयमुद्यतैः ॥ 027c
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः । 028a
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥ 028c
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् । 029a
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः ॥ 029c
अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते । 030a
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥ 030c
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा । 031a
अवन्ध्यं दिवसं कुर्यादन्नपानीयदानतः ॥ 031c
भोजयित्वा दशशतं नरो वेदविदां नृप । 032a
न्यायविद्धर्मविदुषामितिहासविदां तथा ॥ 032c
न याति नरकं घोरं संसारांश्च न सेवते । 033a
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ॥ 033c
एवं सुखसमायुक्तो रमते विगतज्वरः । 034a
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥ 034c
एतत्ते सर्वमाख्यातमन्नदानफलं महत् । 035a
मूलमेतत्तु धर्माणां प्रदानानां च भारत ॥ 035c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 117 ॥
7-174-12 प्रदानेन रन्तिदेवो दिवं गतः इति झ. पाठः ॥