श्रीः अध्यायः 173
बृहस्पतिना युधिष्ठिरम् प्रति देहिनां जननादिप्रकारनिरूपणम् ॥ 1 ॥ तथा प्राणिनां दुष्कर्मविशेषफलतया तिर्यग्योनिविशेषेषु जननकथनम् ॥ 2 ॥
युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद । 001a
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ॥ 001c
केन वृत्तेन राजेन्द्र वर्तमाना नरा भुवि । 002a
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ॥ 002c
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । 003a
प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥ 003c
भीष्म उवाच 004
दूरादायाति भगवान्बृहस्पतिरुदारधीः । 004a
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ॥ 004c
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै । 005a
वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥ 005c
वैशम्पायन उवाच 006
तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा । 006a
आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ॥ 006c
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः । 007a
पूजामनुपमां चक्रे सर्वे ते च सभासदः ॥ 007c
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् । 008a
उपगम्य यथान्यायं प्रश्नं पप्रच्छ तत्त्वतः ॥ 008c
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । 009a
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः । 009c
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ 009e
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । 010a
गच्छन्त्यमुं च लोकं वै क एताननुगच्छति ॥ 010c
बृहस्पतिरुवाच 011
एकः प्रसूयते राजन्नेक एव विनश्यति । 011a
एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥ 011c
न सहायः पिता माता तथा भ्राता सुतो गुरुः । 012a
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ 012c
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । 013a
मुहूर्तमुपयुञ्ज्याथ ततो यान्ति पराङ्मुखाः ॥ 013c
तैस्तच्छरीरमुत्सृष्टं धर्मि एकोऽनुगच्छति । 014a
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृपः ॥ 014c
प्राणी धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम् । 015a
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥ 015c
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः । 016a
धर्म एको मनुष्याणां सहायः पारलौकिकः ॥ 016c
लोभान्मोहादनुक्रोशाद्भयाद्वाऽप्यबहुश्रुतः । 017a
नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ 017c
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् । 018a
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ 018c
युधिष्ठिर उवाच 019
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् । 019a
शरीरनिश्चयं ज्ञातुं बुद्धिस्तु मम जायते ॥ 019c
मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् । 020a
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ 020c
बृहस्पतिरुवाच 021
पृथिवी वायुराकाशमापो ज्योतिरनन्तरम् । 021a
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ 021c
प्राणिनामिह सर्वेषां साक्षिभूतं दिवानिशम् । 022a
एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति ॥ 022c
त्वगस्थि मांसं शुक्रं च शोणितं च महामते । 023a
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ 023c
ततो धर्मसमायुक्तः स जीवः सुखमेधते । 024a
इह लोके परे चैव किं भूयः कथयामि ते ॥ 024c
युधिष्ठिर उवाच 025
तद्दर्शितं भगवता यथा धर्मोऽनुगच्छति । 025a
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥ 025c
बृहस्पतिरुवाच 026
अन्नमश्नन्ति यद्देवाः शरीरस्था नरेश्वर । 026a
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ 026c
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु । 027a
मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् ॥ 027c
ततो गर्भः सम्भवति श्लेषात्स्त्रीपुंसयोर्नृप । 028a
एतत्ते सर्वमाख्यातं भूयः किं श्रोतुमिच्छसि ॥ 028c
युधिष्ठिर उवाच 029
आख्यातं मे भगवता गर्भः सञ्जायते यथा । 029a
यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ॥ 029c
बृहस्पतिरुवाच 030
आसन्नमात्रः पुरुषस्तैर्भूतैरभिभूयते । 030a
विप्रयुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् । 030c
स च भूतसमायुक्तः प्राप्नुते जीव एव हि ॥ 030e
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् । 031a
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥ 031c
युधिष्ठिर उवाच 032
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः । 032a
जीवः सह वसन्कृत्स्नं सुखदुःखसहः प्रभो ॥ 032c
बृहस्पतिरुवाच 033
'भोगवश्यं कर्मवश्यं यातनावश्यमित्यपि । 033a
एतत्त्रयाणामासाद्य कर्मतः सोऽश्नुते फलम् ॥' 033c
जीवः कर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः । 034a
स्त्रीणां पुष्पं समासाद्य सूतिकाले लभेत तत् ॥ 034c
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् । 035a
दुःखं संसारचक्रं च नरः क्लेशं स विन्दति ॥ 035c
इह लोके स च प्राणी जन्मप्रभृति पार्थिव । 036a
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ 036c
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते । 037a
ततः स पुरुषो भूत्वा सेवते नियतं सुखम् ॥ 037c
अथान्तरा तु धर्मस्याप्यधर्ममुपसेवते । 038a
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥ 038c
अधर्मेण समायुक्तो यमस्य विषयं गतः । 039a
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ 039c
कर्मणा येन येनेह यस्यां योनौ प्रजायते । 040a
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ॥ 040c
यदेतदुच्यते शास्त्रे सेतिहासे च च्छन्दसि । 041a
यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ॥ 041c
इह स्थानानि पुण्यानि देवतुल्यानि भूपते । 042a
तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥ 042c
यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः । 043a
कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥ 043c
येनयेन तु भावेन कर्मणा पुरुषो गतिम् । 044a
प्रयाति परुषां घोरां तत्ते वक्ष्याम्यतः परम् ॥ 044c
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः । 045a
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥ 045c
खरो जीवति वर्षाणि दश पञ्च च भारत । 046a
खरो मृतो बलीवर्दः सप्तवर्षाणि जीवति ॥ 046c
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः । 047a
ब्रह्मरक्षश्च मासांस्त्रींस्ततो जायेत ब्राह्मणः ॥ 047c
पतितं याजयित्वा तु कृमियोनौ प्रजायते । 048a
तत्र जीवति वर्षाणि दश पञ्च च भारत ॥ 048c
कृमिभावाद्विमुक्तस्तु ततो जायेत गर्दभः । 049a
गर्दभः पञ्चवर्षाणि पञ्चवर्षाणि सूकरः ॥ 049c
कुक्कुटः पञ्चवर्षाणि पञ्चवर्षाणि जम्बुकः । 050a
श्वा वर्षमेकं भवति ततो जायेत मानवः ॥ 050c
उपाध्यायस्त्रियः पापं शिष्यः कुर्यादबुद्धिमान् । 051a
स जीव इह संसारांस्त्रीनाप्नोति न संशयः ॥ 051c
वृको भवति राजेन्द्र ततः क्रव्यात्ततः खरः । 052a
ततः प्रेतः परिक्लिष्टः पश्चाज्जायेत ब्राह्मणः ॥ 052c
मनसाऽपि गुरोर्भार्यां यः शिष्यो याति पापकृत् । 053a
स उग्रान्प्रैति संसारानधर्मेणेह चेतसा ॥ 053c
श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति । 054a
तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ॥ 054c
कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति । 055a
ततस्तु निधनं प्राप्तो ब्रह्मयोनौ प्रजायते ॥ 055c
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे । 056a
आत्मनः कामकारेण सोपि हिंस्रः प्रजायते ॥ 056c
पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते । 057a
सोऽपि राजन्मृतो जन्तुः पूर्वं जायेत गर्दभः ॥ 057c
गर्दभत्वं तु सम्प्राप्य दशवर्षाणि जीवति । 058a
संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥ 058c
पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि । 059a
गुर्वपध्यानतः सोपि मृतो जायति गर्दभः ॥ 059c
खरो जीवति मासांस्तु दश श्वा च चतुर्दश । 060a
बिडालः सप्तमासांस्तु ततो जायेत मानवः ॥ 060c
मातापितरावाक्रुश्य शारिका सम्प्रजायते । 061a
ताडयित्वा तु तावेव जायते कच्छपो नृप ॥ 061c
कच्छपो दशवर्षाणि त्रीणि वर्षाणि शल्यकः । 062a
व्यालो भूत्वा च षण्मासांस्ततो जायति मानुषः ॥ 062c
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते । 063a
सोपि मोहसमापन्नो मृतो जायति वानरः ॥ 063c
वानरो दशवर्षाणि पञ्चवर्षाणि सूकरः । 064a
श्वाऽथ भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥ 064c
न्यासापहर्ता तु नरो यमस्य विषयं गतः । 065a
यातनानां शतं गत्वा कृमियोनौ प्रजायते ॥ 065c
तत्र जीवति वर्षाणि दशपञ्च च भारत । 066a
दुष्कृतस्य क्षयं कृत्वा ततो जायति मानुषः ॥ 066c
असूयकः कुत्सितश्च चण्डालो दुःखमश्नुते । 067a
विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ॥ 067c
भूत्वा मीनोऽष्टमासांस्तु मृगो जायति भारत । 068a
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ 068c
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः । 069a
गौः स सञ्जायते जन्तुस्ततो जायति मानुषः ॥ 069c
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् । 070a
कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥ 070c
यस्तु धान्यापहर्ता च मोहाज्जन्तुरचेतनः । 071a
स जायते महाराज मूषिको निरपत्रपः ॥ 071c
ततः प्रेत्य महाराज मृतो जायति सूकरः । 072a
सूकरो जातमात्रस्तु रोगेण म्रियते नृप ॥ 072c
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव । 073a
भूत्वा श्वा पञ्चवर्षाणि ततो जायति मानवः ॥ 073c
परदाराभिमर्शं तु कृत्वा जायति वै वृकः । 074a
श्वा शृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ 074c
भ्रातुर्भार्यां तु पापात्मा यो धर्षयति मोहितः । 075a
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ॥ 075c
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च । 076a
प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ॥ 076c
सूकरः पञ्चवर्षाणि दशवर्षाणि श्वाविधः । 077a
बिडालः पञ्चवर्षाणि दशवर्षाणि कुक्कुटः ॥ 077c
पिपीलिका तु मासांस्त्रीन्वानरो मासमेव तु । 078a
एतानासाद्य संसारान्कृमियोनौ प्रजायते ॥ 078c
तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश । 079a
ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानवः ॥ 079c
उपस्थिते विवाहे तु यज्ञे दानेऽपि वा विभो । 080a
मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ॥ 080c
कृमिर्जीवति वर्षाणि दश पञ्च च भारत । 081a
अधर्मिस्य क्षयं कृत्वा ततो जायति मानवः ॥ 081c
पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति । 082a
सोपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥ 082c
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर । 083a
अधर्मसङ्क्षये युक्तस्ततो जायति मानवः ॥ 083c
देवकार्यमकृत्वा तु पितृकार्यमथापि वा । 084a
अनिर्वाप्य समश्नन्वै मृतो जायति वायसः ॥ 084c
वायसः शतवर्षाणि ततो जायति कुक्कुटः । 085a
जायते व्यालकश्चापि मासं तस्मात्तु मानुषः ॥ 085c
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते । 086a
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥ 086c
क्रौञ्चो जीवति वर्षं तु ततो जायति चीरकः । 087a
ततो निधनमापन्नो मानुषत्वमुपाश्नुते ॥ 087c
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते । 088a
[ततः सम्प्राप्य निधनं जायते सूकरः पुनः ॥ 088c
सूकरो जातमात्रस्तु रोगेण म्रियते नृप । 089a
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव ॥ 089c
श्वा भूत्वा कृतकर्माऽसौ जायते मानुषस्ततः । 090a
तत्रापत्यं समुत्पाद्य मृतो जायति मूषिकः ॥ 090c
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः । 091a
यमस्य पुरुषैः क्रुद्धैर्वधं प्राप्नोति दारणम् ॥ 091c
दण्डं समुद्गरं शूलमग्निकुम्भं च दारुणम् । 092a
असिपत्रवनं घोरवालुकं कूटशाल्मलीम् ॥ 092c
एताश्चान्याश्च बह्वीश्च यमस्य विषयं गतः । 093a
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥ 093c
ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ । 094a
संसारचक्रमासाद्य कृमियोनौ प्रजायते ॥ 094c
कृमिर्भवति वर्षाणि दशपञ्च च भारत । 095a
ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ॥ 095c
ततो गर्भशतैर्जन्तुर्बहुभिः सम्प्रपद्यते । 096a
संसारांश्च बहून्गत्वा ततस्तिर्यक्षु जायते ॥ 096c
ततो दुःखमनुप्राप्य बहुवर्षगणानिह । 097a
स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥ 097c
दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् । 098a
चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥ 098c
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः । 099a
चोरयित्वा च निष्पावं जायते हलगोलकः ॥ 099c
पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते । 100a
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥ 100c
अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः । 101a
कांस्यं हृत्वा तु दुर्बद्धिर्हारितो जायते नरः ॥ 101c
राजतं भाजनं हृत्वा कपोतः सम्प्रजायते । 102a
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ 102c
पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति । 103a
कौशिकं तु ततो हृत्वा नरो जायति वर्तकः ॥ 103c
अंशुकं चोरयित्वा तु शुको जायति मानवः । 104a
चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥ 104c
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः । 105a
चोरयित्वा नरः पट्टं त्वाविकं चैव भारत । 105c
क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ॥ 105e
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः । 106a
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ॥ 106c
वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः । 107a
छुच्छुन्दरित्वमाप्नोति राजल्ँलोभपरायणः ॥ 107c
तत्र जीवति वर्षाणि ततो दश च पञ्च च । 108a
अधर्मस्य क्षयं गत्वा ततो जायति मानुषः ॥ 108c
चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥ 109ac
यस्तु चोरयते तैलं नरो मोहसमन्वितः । 110a
सोपि राजन्मृतो जन्तुस्तैलपायी प्रजायते ॥ 110c
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः । 111a
अर्थार्थी यदि वा वैरी स मृतो जायते खरः ॥ 111c
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते । 112a
स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥ 112c
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः । 113a
हतो मृगस्ततो मीनः सोपि जालेन बध्यते ॥ 113c
मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते । 114a
श्वापदो दशवर्षाणि द्वीपी वर्षाणि पञ्च च ॥ 114c
ततस्तु निधनं प्राप्तः कालपर्यायचोदितः । 115a
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ 115c
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः । 116a
बहून्क्लेशान्समासाद्य नरकानेकविंशतिम् ॥ 116c
ततः पश्चान्महाराज कृमियोनौ प्रजायते । 117a
कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ॥ 117c
भोजनं चोरयित्वा तु मक्षिका जायते नरः । 118a
मक्षिकासङ्घवशगो बहून्मासान्भवत्युत ॥ 118c
ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते । 119a
'भक्ष्यं हृत्वा तु पुरुषो जालपाशः प्रजायते ॥ 119c
खाद्यं हृत्वा तु पुरुषश्चीरपाशः प्रजायते ।' 120a
धान्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते ॥ 120c
तथा पिण्याकसम्मिश्रमशनं चोरयेन्नरः । 121a
स जायते भृतिधनो दारुणो मूषिको नरः ॥ 121c
दशन्वै मानुषान्नित्यं पापात्मा स विशाम्पते । 122a
घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते ॥ 122c
मत्स्यमांसमथो हृत्वा काको जायति दुर्मतिः । 123a
लवणं चोरयित्वा तु चिरिकाकः प्रजायते || 123c
विश्वासेन तु निक्षिप्तं यो विनिह्नोति मानवः । 124a
स गतायुर्नरस्तात मत्स्ययोनौ प्रजायते ॥ 124c
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः । 125a
मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ॥ 125c
पापानि तु नराः कृत्वा तिर्यग्जायन्ति भारत । 126a
न चात्मनः प्रयाणान्ते धर्मं जानन्ति कञ्चन ॥ 126c
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा । 127a
सुखदुःखसमायुक्ता व्यथितास्ते भवन्त्युत ॥ 127c
अपुमांसः प्रजायन्ते म्लेच्छाश्चापि न संशयः । 128a
नराः पापसमाचारा लोभमोहसमन्विताः ॥ 128c
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः । 129a
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥ 129c
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः । 130a
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ 130c
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः । 131a
एतद्धि लेशमात्रेण कथितं ते मयाऽनघ ॥ 131c
अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत । 132a
एतन्मया महाराज ब्रह्मणो गदतः पुरा ॥ 132c
सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् । 133a
मयाऽपि तच्च कार्त्स्न्येन यथावदनुवर्णितम् । 133c
एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥ 133e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥
7-173-13 मुहूर्तमिव रोदित्वेति झ. पाठः ॥ 7-173-32 जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते इति झ. पाठः ॥ 7-173-51 उपाध्यायस्य यः पापम् इति झ. पाठः ॥ 7-173-52 प्राक् श्वा भवति इति झ. पाठः ॥ 7-173-58 कुम्भीरो नक्रः ॥ 7-173-64 पञ्चवर्षाणि मूषिकः इति झ. पाठः ॥ 7-173-65 संसाराणां शतम् इति झ. पाठः ॥ 7-173-99 निष्पावं राजमाषम् । हलगोलकः दीर्घपुच्छो गोलरूपी कीटविशेषः ॥ 7-173-100 कुम्भोलूक उलूकजातिभेदः ॥ 7-173-101 हारितः पक्षिविशेषः ॥ 7-173-103 पत्रोर्णं धौतकौशेयम् ॥ 7-173-106 वर्णान् हरितालादीन् ॥ 7-173-122 काकमद्गुः शृङ्गवान् जलपक्षी ॥ 7-173-128 असंवासाः प्रजायन्ते इति झ. पाठः ॥