श्रीः अध्यायः 172
भीष्मेण युधिष्ठिरम् प्रति शरीरसौन्दर्यादिफलकचान्द्रव्रताचरणप्रकारकथनम् ॥ 1 ॥
[वैशम्पायन उवाच 001
शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम् । 001a
उपगम्य महाप्राज्ञः पर्यपृच्छद्युधिष्ठिरः ॥ 001c
अङ्गानां रूपसौभाग्यं प्रियं चैव कथं भवेत् । 002a
धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत् ॥ 002c
भीष्म उवाच 003
मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते । 003a
पादौ मूलेन राजेन्द्र जङ्घायामथ रोहिणीम् ॥ 003c
अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस्तथा । 004a
गुह्यं तु फाल्गुनी विद्यात्कृत्तिका कटिकास्तथा ॥ 004c
नाभिं भाद्रपदे विद्याद्रेवत्यामक्षिमण्डलम् । 005a
पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा ॥ 005c
बाहुभ्यां तु विशाखासु हस्तौ हस्तेन निर्दिशेत् । 006a
पुनर्वस्वङ्गुली राजन्नाश्लेषासु नखास्तथा ॥ 006c
ग्रीवां ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः । 007a
मुखं पुष्येण दानेन दन्तोष्ठौ स्वातिरुच्यते ॥ 007c
हासं शतभिषां चैव मघां चैवाथ नासिकाम् । 008a
नेत्रे मृगशिरो विद्याल्ललाटे मित्रमेव तु ॥ 008c
भरण्यां तु शिरो विद्यात्केशानार्द्रां नराधिप । 009a
समाप्ते तु घृतं दद्याद्ब्राह्मणे वेदपारगे ॥ 009c
सुभगो दर्शनीयश्च ज्ञानभाग्यथ जानते । 010a
जायते परिपूर्णाङ्गः पौर्णमास्येव चन्द्रमाः ॥] 010c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥
7-172-3 इष्टकामनासिद्ध्यर्थं चान्द्रव्रतमाह मार्गेति । मार्गशीर्षशुक्लप्रतिपदि मूलनक्षत्रयोगे सतीदं चान्द्रं व्रतमारभेत । तत्र चन्द्रावयवेषु नक्षत्राणि न्यसेत् पादौ मूलेनेत्यादिना । स्वदेवतासहितेन मूलेन चन्द्रस्य पादौ कल्पयेदित्यर्थः । एवं रोहिण्यादिभिः सदेवताभिर्जङ्घादयः कल्पनीयाः । सर्वत्र विभक्तिव्यत्यय आर्षः ॥ 7-172-4 आषाढाद्वयं फाल्गुनीद्वयं भाद्रपदाद्वयं च ज्ञेयम् ॥ 7-172-10 एवं कुर्वन्विकलाङ्गोऽपि पौर्णमास्यां सकलाङ्गो भवति एतत्सदृष्टान्तमाह परिपूर्णाङ्ग इति ॥