श्रीः अध्यायः 171
भीष्मेण युधिष्ठिरम् प्रति मार्गशीर्षादि कार्तिकान्तेषु द्वादशमासेषु द्वादशद्वादशीषु केशवादिदामोदरान्तभगवद्रूपविशेषपूजाफलविशेषकथनम् ॥ 1 ॥
[*युधिष्ठिर उवाच 001
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् । 001a
यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि ॥ 001c
भीष्म उवाच 002
शृणु राजन्यथा गीतं स्वयमेव स्वयम्भुवा । 002a
यत्कृत्वा निर्वृतो भूयात्पुरुषो नात्र संशयः ॥ 002c
द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम् । 003a
अर्च्याश्वमेधं प्राप्नोति दुष्कृतं चास्य नश्यति ॥ 003c
तथैव पौषमासे तु पूज्यो नारायणेति च । 004a
वाजपेयमवाप्नोति सिद्धिं च परमां व्रजेत् ॥ 004c
अहोरात्रेण द्वादश्यां माघमासे तु माधवम् । 005a
राजसूयमवाप्नोति कुलं चैव समुद्धरेत् ॥ 005c
तथैव फाल्गुने मासि गोविन्देति च पूजयन् । 006a
अतिरात्रमवाप्नोति सोमलोकं च गच्छति ॥ 006c
अहोरात्रेण द्वादश्यां चैत्रे विष्णुरिति स्मरन् । 007a
पौण्डरीकमवाप्नोति देवलोकं च गच्छति ॥ 007c
वैशाखमासे द्वादश्यां पूजयन्मधुसूदनम् । 008a
अग्निष्टोममवाप्नोति सोमलोकं च गच्छति ॥ 008c
अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम् । 009a
गवां मेधमवाप्नोति अप्सरोभिश्च मोदते ॥ 009c
आषाढे मासि द्वादश्यां वामनेति च पूजयन् । 010a
नरमेधमवाप्नोति पुण्यं च लभते महत् ॥ 010c
अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम् । 011a
पञ्चयज्ञानवाप्नोति विमानस्थश्च मोदते ॥ 011c
तथा भाद्रपदे मासि हृषीकेशेति पूजयन् । 012a
सौत्रामणिमवाप्नोति पूतात्मा भवते च हि ॥ 012c
द्वादश्यामाश्विने मासि पद्मनाभेति चार्चयन् । 013a
गोसहस्रफलं पुण्यं प्राप्नुयान्नात्र संशयः ॥ 013c
द्वादश्यां कार्तिके मासि पूज्यो दामोदरेति च । 014a
गवां यज्ञमवाप्नोति पुमान्स्त्री वा न संशयः ॥ 014c
अर्चयेत्पुण्डरीकाक्षमेवं संवत्सरं तु यः । 015a
जातिस्मरत्वं प्राप्नोति विन्द्याद्बहु सुवर्णकम् ॥ 015c
अहन्यहनि तद्भावमुपेन्द्रं योऽधिगच्छति । 016a
समाप्ते भोजयेद्विप्रानथवा दापयेद्धृतम् ॥ 016c
अतः परं नोपवासो भवतीति विनिश्चयः | 017a
उवाच भगवान्विष्णुः स्वयमेव पुरातनम् ॥] 017c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥
- एतदाद्यध्यायद्वयं झ. पुस्तक एव दृश्यते । 7-171-3 अर्च्य अभ्यर्च्य ॥