श्रीः अध्यायः 170
भीष्मेण युधिष्ठिरम् प्रति तीर्थशौचनिरूपणम् ॥ 1 ॥
युधिष्ठिर उवाच 001
यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह । 001a
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि ॥ 001c
भीष्म उवाच 002
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः । 002a
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ॥ 002c
अगाधे विमले शुद्धे सत्यतीर्थे धृतिह्रदे । 003a
स्नातव्यं मानसे तीर्थे सत्वमालम्ब्य शाश्वतम् ॥ 003c
तीर्थशौचं तपो ज्ञानं मार्दवं सत्यमार्जवम् । 004a
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥ 004c
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः । 005a
योगिनस्तीर्थभूतास्ते तीर्थं परममुच्यते ॥ 005c
नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम् । 006a
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षतः ॥ 006c
रजस्तमःसत्वमथो येषां निर्धूतमात्मना । 007a
तीर्थमाचारशुद्धिश्च स्वमार्गपरिमार्गणम् || 007c
सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः । 008a
शौचष्वेतेष्वभिरतास्ते तीर्थशुचयोऽपि च ॥ 008c
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते । 009a
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः ॥ 009c
अदृष्टेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः । 010a
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥ 010c
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः । 011a
तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता ॥ 011c
वृत्तं शौचं महाशौचं तीर्थशौचमतः परम् । 012a
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम् ॥ 012c
मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च । 013a
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शनाः ॥ 013c
समारोपितशौचस्तु नित्यं भावसमन्वितः । 014a
केवलं गुणसम्पन्नः शुचिरेव नरः सदा ॥ 014c
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत । 015a
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥ 015c
शरीरस्य यथोद्देशाः शरीरोपरि निर्मिताः । 016a
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ॥ 016c
कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् । 017a
शोध्यं हि पातकं तीर्थे पूता यान्ति सुखं दिवम् || 017c
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा । 018a
अतीव पुण्यभागास्ते सलिलस्य च तेजसा ॥ 018c
मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे । 019a
उभयोरेव यः स्नायात्स सिद्धिं शीघ्रमाप्नुयात् ॥ 019c
यथा फलं क्रियाहीनं क्रिया वा फलवर्जिता । 020a
नेह साधयते कार्यं समायुक्ता तु सिध्यति ॥ 020c
एवं शरीरशौचेन तीर्थशौचेन चान्वितः । 021a
शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ॥ 021c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥
7-170-7 तत्त्ववित्त्वनहम्बुद्धिस्तीर्थप्रवरमुच्यते इति झ. पाठः ॥