श्रीः अध्यायः 169
सनत्कुमारेण रुद्रम् प्रति प्राणिनाम् मरणसूचकदुर्निमित्तकथनपूर्वकं जिजीविषोस्तत्परिहारोपायकथनम् ॥ 1 ॥ तथाऽनिच्छोर्भगवद्ध्यानेन शरीरत्यागस्य पारत्रिकसुखसाधनत्वोक्तिः ॥ 2 ॥ तथा भगवज्ज्ञानप्रशंसनपूर्वकं तदुपदेशपरम्पराकथनम् ॥ 3 ॥
'सनत्कुमार उवाच 001
अरिष्टानि प्रवक्ष्यामि तत्वेन शृणु तद्भवान् । 001a
मध्य उत्तरतस्तात दक्षिणामुखनिष्ठितम् ॥ 001c
विद्युत्संस्थानपुरुषं यदि पश्येत मानवः । 002a
वर्षत्रयेण जानीयाद्देहन्यासमुपस्थितम् || 002c
एतत्फलमरिष्टस्य शङ्कराहुर्मनीषिणः । 003a
शुद्धमण्डमादित्यमरश्मिमथ पश्यतः । 003c
वर्षार्धकेन जानीयाद्देहन्यासमुपस्थितम् ॥ 003e
छिद्रां चन्द्रमसश्छायां पादावप्यनपश्यतः । 004a
संवत्सरेण जानीयाद्देहन्यासमुपस्थितम् ॥ 004c
कनीनिकायामशिरःपुरुषं यदि पश्यति । 005a
जानीयात्षट्सु मासेषु देहन्यासमुपस्थितम् ॥ 005c
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद्यदि । 006a
विजानीयात्तु मासेन देहन्यासमुपस्थितम् ॥ 006c
आमगन्धमुपाघ्राति सुरभिं प्राप्य भास्वरम् । 007a
देवतायतनस्थोपि सप्तरात्रेण मृत्युभाक् ॥ 007c
सर्वाङ्गधारणावस्थां धारयेत समाहितः । 008a
यथा स मृत्युं जयति नान्यथेह महेश्वर । 008c
यदि जीवितुमिच्छेत चिरकालं महामुने ॥ 008e
अथ नेच्छेच्चिरं कालं त्यजेदात्मानमात्मना । 009a
केवलं चिन्तयानस्तु निष्कलं स निरामयम् ॥ 009c
अथ तं निर्विकारं तु प्रकृते परमं शुचिः । 010a
पुरुषं देहसाधर्म्यं देहन्यासमुपाश्नुयात् ॥ 010c
जाग्रतो हि मयोक्तानि तवारिष्टानि तत्वतः । 011a
धारणाच्चैव सर्वाङ्गे मृत्युं जीयात्सुरर्षभ ॥ 011c
एकत्वदर्शनं भूयो नानात्वं च निबोध मे । 012a
अक्षरं च क्षरं चैव चतुष्टयविधानतः ॥ 012c
अव्यक्तादीनि तत्वानि सर्वाण्येव महाद्युते । 013a
आहुश्चतुर्विंशतितमं विकारपुरुषान्वितम् ॥ 013c
एकत्वदर्शनं चैव नानात्वेन वरं स्मृतम् । 014a
पञ्चविंशतिवर्गः स्यादपवर्गोऽजरामरः ॥ 014c
स निर्विकारः पुरुषस्तत्वेनैवोपदिश्यते । 015a
स एव पञ्चविंशस्तु विकारः पुरुषः स्मृतः ॥ 015c
यद्येष निर्विकारः स्यात्तत्वं न तु भवेद्भव । 016a
विकारो विद्यमानस्तु तत्वसञ्ज्ञकमुच्यते ॥ 016c
यद्येषोऽव्यक्ततां नैति व्यतिरेकान्न संशयः । 017a
तथा भवति निस्तत्वस्तथा सत्वस्तथागुणः ॥ 017c
विकारगुणसन्त्यागात्प्रकृत्यन्यत्वता शुचिः । 018a
तदा नानात्वतामेति सर्गहीनोऽपवर्गभाक् ॥ 018c
बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान् । 019a
अक्षरश्च भवत्येष यथावा च्युतवान्क्षणात् ॥ 019c
अव्यक्ताव्यक्तिरुक्ता स्यान्निर्गुणस्य गुणाकरात् । 020a
एतदेकत्वनानात्वमक्षरः क्षर एव च ॥ 020c
व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि । 021a
विमोक्षलक्षणं शेषं तदपीह ब्रवीमि ते । 021c
यं ज्ञात्वा यतयः प्राप्ताः केवलत्वमनामयम् ॥ 021e
साङ्ख्याश्चाप्यथ योगाश्च दग्धपङ्का गतज्वराः । 022a
अमूर्तित्वमनुप्राप्ता निर्गुणा निर्भया भव ॥ 022c
विपाप्मानो महादेव मुक्ताः संसारसागरात् । 023a
सरणे प्रजनादाने गुणानां प्रकृतिः सदा । 023c
परा प्रमत्ता सततमेतावत्कार्यकारणम् ॥ 023e
असच्चैव च सच्चैव कुरुते स पुनः पुनः । 024a
चैतन्येन पुराणेन चेतनाचेतनात्परः ॥ 024c
यस्तु चेतयते चेतो मनसा चैकबुद्धिकम् । 025a
स नैव सन्न चैवासन्सदसन्न च संस्मृतः ॥ 025c
व्यतिरिक्तश्च शुद्धश्च सोऽन्यश्चाप्रकृतिस्तथा । 026a
उपेक्षकश्च प्रकृतेर्विकारपुरुषः स्मृतः ॥ 026c
विकारपुरुषेणैषा संयुक्ता सृजते जगत् । 027a
पुनराददते चैव गुणानामन्यथात्मनि ॥ 027c
मत्स्योदकात्ससञ्ज्ञातः प्रकृतेरेव कर्मणः । 028a
तद्वत्क्षेत्रसहस्राणि स एव प्रकरिष्यति ॥ 028c
क्षेत्रप्रलयतज्ज्ञस्तु क्षेत्रज्ञ इति चोच्यते । 029a
सयोगो नित्य इत्याहुर्ये जनास्तत्वदर्शिनः ॥ 029c
एवमेष ह्यसत्सच्च विकारपुरुषः स्मृतः । 030a
विकारापद्यमानं तु विकृतिं प्रवदन्ति नः ॥ 030c
यदा त्वेष विकारस्य प्रकृतानिति मन्यते । 031a
तदा विकारतामेति विकारान्यत्वतां व्रजेत् ॥ 031c
प्रकृत्या च विकारैश्च व्यतिरिक्तो यदा भवेत् । 032a
शुचि यत्परमं शुद्धं प्रतिबुद्धं सनातनम् । 032c
अयुक्तं निष्कलं शुद्धमव्ययं चाजरामरम् ॥ 032e
समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः । 033a
विमोक्षं भजते व्यक्तादप्रबुद्धादचेतनात् ॥ 033c
उदुम्बराद्वा मशकः प्रलयान्निर्गतो यथा । 034a
तथाऽव्यक्तस्य सन्त्यागान्निर्ममः पञ्चविंशकः ॥ 034c
यथा पुष्करपर्णस्थो जलबिन्दुर्न संश्लिषेत् । 035a
तथैवाव्यक्तविषये न लिप्येत्पञ्चविंशकः ॥ 035c
आकाश इव निःसङ्गस्तथा सङ्गस्त्था वरः । 036a
पञ्चविंशतिमो बुद्धो बुद्धेन समतां गतः ॥ 036c
एतद्धि प्रकृतं ज्ञानं तत्वतश्च समुत्थितम् । 037a
पूर्वजेभ्यस्तथोत्पन्नं ब्रह्मजेभ्यस्तथानघ ॥ 037c
आदिसर्गो महाबाहो तामसेनावृतं परम् । 038a
प्रतिष्टावयवं देवमभेद्यमजरामरम् ॥ 038c
सनकः सनन्दनश्चैव तृतीयश्च सनातनः । 039a
ते विदुः परमं धर्ममव्ययं व्ययधर्षणम् ॥ 039c
अव्यक्तात्परमात्सूक्ष्मादव्रणान्मूर्तिसञ्ज्ञकात् । 040a
क्षेत्रज्ञो भगवानास्ते नारायणपरायणः ॥ 040c
अस्माकं सहजातानामुत्पन्नं ज्ञानमुत्तमम् । 041a
एते हि मूर्तिमन्तो वै लोकान्प्रविचरामहे ॥ 041c
पुनःपुनः प्रजाता वै तत्रतत्र पिनाकधृक् । 042a
द्वन्द्वैर्विरज्यमानस्य ज्ञानमुत्पन्नमुत्तमम् ॥ 042c
कपिलान्मूलआचार्यात्तत्वबुद्धिविनिश्चयम् । 043a
योगसाङ्ख्यमवाप्तं मे कार्त्स्न्येन मुनिसत्तमात् ॥ 043c
तेन सम्बोधिताः शिष्या बहवस्तत्वदर्शिनः । 044a
तद्बुद्ध्वा बहवः शिष्या मयाप्येतन्निदर्शिताः ॥ 044c
जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम् । 045a
यज्ज्ञात्वा नानुशोचन्ति तत्वज्ञाना निरिन्द्रियाः ॥ 045c
शुद्धबीजमलाश्चैव विपङ्का वै निरक्षराः । 046a
स्वतन्त्रास्ते स्वतन्त्रेण सम्मिता निष्कलाः स्मृताः ॥ 046c
शाश्वताश्चाव्ययाश्चैव तमोग्राह्याश्च भास्वर । 047a
विपाप्मानस्तथा सर्वे सत्वस्थाश्चापि निर्व्रणाः ॥ 047c
विमुक्ताः केवलाश्चैव वीतमोहभयास्तथा । 048a
अमूर्तास्ते महाभाग सर्वे च विगतज्वराः ॥ 048c
हिरण्यनाभस्त्रिशिरास्तथा प्रह्लादभास्करौ । 049a
वसुर्विश्वावसुश्चैव सार्धं पञ्चशिखस्तथा ॥ 049c
गार्ग्योऽथासुरिरावन्त्यो गौतमो वृत एव च । 050a
कात्यायनोऽथ नमुचिर्हरिश्च दमनश्च ह ॥ 050c
एते चान्ये च बहवस्तत्वमेवोपदर्शिताः । 051a
केचिन्मुक्ताः स्थिताः केचिच्छन्दतश्चापरे मृताः ॥ 051c
दर्शितास्त्रिविधं बन्धं विमोक्षं त्रिविधं तथा । 052a
अज्ञानं चैव रागश्च संयोगं प्राकृतं तथा ॥ 052c
एतेभ्यो बन्धनं प्रोक्तं विमोक्षमपि मे शृणु । 053a
परितस्तावता सम्यक्सम्बन्धो यावता कृतः ॥ 053c
कृत्स्नक्षयपरित्यागाद्विमोक्ष इति नः श्रुतिः । 054a
निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषोऽमलः ॥ 054c
भीष्म उवाच 055
इत्येवमुक्त्वा भगवानीश्वराय महात्मने । 055a
सनत्कुमारः प्रययावाकाशं समुपाश्रितः ॥' 055c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥ 169 ॥