श्रीः अध्यायः 168

सनत्कुमारेण रुद्रम् प्रति अव्यक्तादितत्वानां तारतम्यकथनपूर्वकं तत्सृष्टिलयादिकथनम् ॥ 1 ॥ तथा एतज्ज्ञानस्य संसारतारकत्वोक्तिः ॥ 2 ॥

'सनत्कुमार उवाच 001
इन्द्रियेभ्यो मनः पूर्वमहङ्कारस्ततः परम् । 001a
अहङ्कारात्परा बुद्धिर्बुद्धेः परतरं महत् ॥ 001c
महतः परमव्यक्तमव्यक्तात्पुरुषः परः । 002a
एतावदेतत्साङ्ख्यानां दर्शनं देवसत्तम ॥ 002c
अव्यक्तं बुद्ध्यहङ्कारौ महाभूतानि पञ्च च । 003a
मनस्तथा विशेषाश्च दश चैवेन्द्रियाणि च । 003c
एतास्तत्वचतुर्विंशन्महापुरुषसम्मिताः ॥ 003e
बुद्ध्यमानेन देवेश चेतनेन महात्मना । 004a
संयोगमेतयोर्नित्यमाहुरव्यक्तपुंसयोः ॥ 004c
एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः । 005a
तमःसञ्ज्ञितमेतद्धि प्रवदन्ति त्रिशूलधृक् ॥ 005c
समुत्पाट्य यथाव्यक्ताज्जीवा यान्ति पुनःपुनः । 006a
आदिरेष महानात्मा गुणानामिति नः प्रभो ॥ 006c
गुणस्थत्वाद्गुणं चैनमाहुरव्यक्तलक्षणम् । 007a
एतेनाध्युषितो व्यक्तस्त्रिगुणं चेतयत्युत ॥ 007c
अचेतनः प्रकृत्येषु न चान्यमनुबुध्यते । 008a
बुध्यमानो ह्यहङ्कारो नित्यं मानाप्रबोधनात् ॥ 008c
विमलस्य विशुद्धस्य नीरुजस्य महात्मनः । 009a
विमलोदरशीलः स्याद्बुध्यमानाप्रबुद्धयोः ॥ 009c
द्रष्टा भवत्यभोक्ता च सत्वमूर्तिश्च निर्गुणः । 010a
बुध्यमानाप्रबुद्धाभ्यामन्य एव तु निर्गुणः ॥ 010c
उपेक्षकः शुचिस्ताभ्यामुभाभ्यामयुतस्तथा । 011a
बुध्यमानो न बुध्येत बुद्धमेवं सनातनम् ॥ 011c
स एव बुद्धेरव्यक्तस्वभावत्वादचेतनः । 012a
सोहमेव न मेऽन्योस्ति य एवमभिमन्यते ॥ 012c
न मन्यते ममान्योस्ति येन चेतोस्म्यचेतनः । 013a
एवमेवाभिमन्येत बुध्यमानोप्यनात्मवान् ॥ 013c
अहमेव न मेऽन्योस्ति न प्रबुद्धवशानुगः । 014a
अव्यक्तस्थो गुणानेष नित्यमेवाभिमन्यते ॥ 014c
तेनाधिष्ठिततत्वज्ञैर्महद्भिरभिधीयते । 015a
अहङ्कारेण संयुक्तस्ततस्ददभिमन्यते ॥ 015c
क्षेत्रं प्रविश्य दुर्बुद्धिर्बुद्ध्यमानो ह्यनात्मवान् । 016a
अहमेव सृजत्यन्यद्द्वितीयं लोकसारथिः ॥ 016c
सर्वाभावैरहङ्कारैस्तृतीयं सर्गसञ्ज्ञितम् । 017a
ततो भूतान्यहङ्कारमहङ्कारो मनोऽसृजत् ॥ 017c
सर्वस्रोतस्यभिमुखं सम्प्रावर्तत बुद्धिमान् । 018a
तथैव यज्ञे भूतेषु विषयार्थी पुनःपुनः । 018c
इन्द्रियैः सह शूलाङ्क पञ्च पञ्चभिरेव च ॥ 018e
मनो वेद न चात्मानमहङ्कारं प्रजापतिः । 019a
न वेद वाप्यहङ्कारो बुद्धिं बुद्धिमतांवर ॥ 019c
एवमेते महाभाग नेतरे नयवादिनः । 020a
अहङ्कारेण संयुक्तः स्रोतस्यभिमुखः सदा ॥ 020c
एवमेष विकारात्मा महापुरुषसञ्ज्ञकः । 021a
प्रतनोति जगत्कृत्स्नं पुनराददते सकृत् ॥ 021c
ससञ्ज्ञत्वाज्जगत्कृत्स्नमव्यक्तस्य हृदि स्थितम् । 022a
संविशद्रजनीं कृत्स्नां निशान्ते दिवसागमे ॥ 022c
पुनरात्मा विजयते बहवो निर्गुणास्तथा । 023a
अज्ञानेन समायुक्तः सोव्यक्तेन तमोत्मना ॥ 023c
यदि ह्येषो नु मन्येत ममास्ति परतो वरः । 024a
स पुनः पुनरात्मानं न कुर्यादाक्षिपेत च ॥ 024c
एतमव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान् । 025a
पञ्चविंशं महादेव महापुरुषवैकृतम् ॥ 025c
प्रबुद्धौ बुद्धवानेतत्सृजमानमबुद्धवान् । 026a
गुणान्पुनश्च तानेव सोत्मनात्मनि निक्षिपेत् ॥ 026c
अव्यक्तस्य वशीभूतो योऽज्ञानस्य तमोत्मनः । 027a
बुध्यमानो ह्यबुद्धस्य बुद्धस्तदनुभुज्यते ॥ 027c
उपेक्षकः शुचिर्व्यग्रः सोलिङ्गः सोव्रणोऽमलः । 028a
षड्विंशो भगवानास्ते बुद्धः शुद्धो निरामयः ॥ 028c
अव्यक्तादिविशेषान्तमेतद्वैद्या वदन्त्युत । 029a
एतैरेव विहीनं तु केचिदाहुर्मनीषिणः ॥ 029c
निस्तत्वं बुध्यमानास्तु केचिदाहुर्महामते । 030a
केचिदाहुर्महात्मानस्तत्वसञ्ज्ञितमेव तु ॥ 030c
तत्वस्य श्रवणादेनं तत्वमेवं वदन्ति वै । 031a
सत्वसंश्रयणाच्चैव सत्ववन्तं महेश्वर ॥ 031c
एवमेष विकारात्मा बुध्यमानो महाभुज । 032a
अव्यक्तो भवते व्यक्तौ सत्वंसत्वं तथा गुणौ । 032c
विद्या च भवते विद्या भवेत्तु ग्रहसञ्ज्ञितम् ॥ 032e
य एवमनुबुद्ध्यन्ते योगसाङ्ख्याश्च तत्वतः । 033a
तेऽव्यक्तं शङ्करागाढं मुञ्चन्ते शास्त्रबुद्धयः ॥ 033c
तेषामेतत्तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम् । 034a
बुद्धिर्विस्तीर्यते सर्वं तैलबिन्दुरिवाम्भसि ॥ 034c
विद्या तु सर्वविद्यानामवबोध इति स्मृतः । 035a
येन विद्यामविद्यां च विन्दन्ति यतिसत्तमाः ॥ 035c
सैषा त्रयी परा विद्या चतुर्थ्यान्वीक्षिकी स्मृता । 036a
यां बुद्ध्यमानो बुद्ध्येत बुद्ध्यात्मनि समं गतः ॥ 036c
अप्रबुद्धमथाव्यक्तमविद्यासञ्ज्ञिकं स्मृतम् । 037a
विमोहितं तु शोकेन केवलेन समन्वितम् । 037c
एतद्बुद्ध्या भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम् ॥ 037e
ये त्वेतन्नावबुद्ध्यन्ते ते प्रबुद्धवशानुगाः । 038a
ते पुनःपुनरव्यक्ताज्जनिष्यन्त्यबुधात्मनः ॥ 038c
तमेव तुलयिष्यन्ति अबुद्धिवशवर्तिनः । 039a
ये चाप्यन्ये तन्मनसस्तेप्येतत्फलभागिनः ॥ 039c
विदित्वैनं न शोचन्ति योगोपेतार्थदर्शिनः । 040a
स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम् ॥ 040c
अज्ञानबन्धनान्मुक्तास्तीर्णाः संसारबन्धनात् । 041a
अज्ञानसागरं घोरमगाधं तमसञ्ज्ञकम् । 041c
यत्र मज्जन्ति भूतानि पुनःपुनररिन्दम ॥ 041e
एषा विद्या तथाऽविद्या कथिता ते मयाऽर्थतः । 042a
यस्मिन्देयं च नो ग्राह्यं साङ्ख्याः साङ्ख्यं तथैव च ॥ 042c
तथा चैकत्वनानात्वमक्षरं क्षरमेव च । 043a
निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते ॥ 043c
बुद्ध्यमानाप्रबुद्धाभ्यामबुद्धस्य प्रपञ्चनम् । 044a
भूय एव निबोध त्वं देवानां देवसत्तम ॥ 044c
यच्च किञ्च श्रुतं न स्याद्दृष्टं चैव न किञ्चन । 045a
तच्च ते सम्प्रवक्ष्यामि एकाग्रः शृणु तत्परः ॥' 045c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥