श्रीः अध्यायः 167

सनत्कुमारेण रुद्रम् प्रति देहिदेहावयवाश्रितदेवताकथनपूर्वकं योगनिरूपणम् ॥ 1 ॥

'सनत्कुमार उवाच 001
प्रभवश्चाप्ययस्तात वर्णितस्तेऽनुपूर्वशः । 001a
तथाऽध्यात्माधिभूतं च तथैवात्राधिदैवतम् ॥ 001c
निखिलेन तु वक्ष्यामि दैवतानि ह देहिनाम् । 002a
यान्याश्रितेषु देहेषु यानि पृच्छसि शङ्कर ॥ 002c
वाच्यग्निस्त्वथ जिह्वायां सोमः प्राणे तु मारुतः । 003a
रूपे चाप्यथ नक्षत्रं जिह्वायां चाप एव तु ॥ 003c
नाभ्यां समुद्रश्च विभुर्नखरोम तथैव च । 004a
वनस्पतिवनौषध्यस्त्वङ्गेषु मरुतस्तथा ॥ 004c
संवत्सराः पर्वसु च आकाशे दैवमानुषे । 005a
उदाने विद्युदभवद्व्याने पर्जन्य एव च ॥ 005c
स्तनयोरेव चाकाशं बले चेन्द्रस्तथैव च । 006a
मनसोऽप्यथ चेशानस्त्वपाने रुद्र एव च ॥ 006c
गन्धर्वाप्सरसो व्याने सत्ये मित्रश्च शङ्कर । 007a
प्रज्ञायां वरुणश्चैव चक्षुष्यादित्य एव च ॥ 007c
शरीरे पृथिवी चैव पादयोर्विष्णुरेव च । 008a
पायौ मित्रस्तथोपस्थे प्रजापतिररिन्दम ॥ 008c
मूर्ध्नि चैव दिशः प्राहुर्बुद्धौ ब्रह्मा प्रतिष्ठितः । 009a
बुध्यमानोऽऽत्मनिष्ठः स्यादधिष्ठाता तु शङ्करः ॥ 009c
अबुद्धश्चाभवत्तस्माद्बुध्यमानान्न संशयः । 010a
आभ्यामन्यः परो बुद्धो वेदवादेषु शङ्कर ॥ 010c
यदाश्रितानि देहेषु दैवतानि पृथक्पृथक् । 011a
योऽग्नये जायते नित्यमात्मयाजी समाहितः ॥ 011c
य एवमनुपश्येत दैवतानि समाहितः । 012a
सोत्र योगी भवत्येव य एवमनुपश्यति । 012c
स सर्वज्ञयाजिभ्यो ह्यात्मयाजी विशिष्यते ॥ 012e
मुखे जुहोति यो नित्यं कृत्स्नं विश्वमिदं जगत् । 013a
सोत्मवित्प्रोच्यते तज्ज्ञैर्महादेव महात्मभिः ॥ 013c
सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो ह्यात्मयाजिना । 014a
गन्तव्यं परमाकाङ्क्षन्परमेव च चिन्तयन् ॥ 014c
यथा सङ्क्रमते देहाद्देही त्रिपुरसूदन । 015a
तथास्य स्थानमाख्यास्ये पृथक्त्वेनेह शङ्कर ॥ 015c
पादाभ्यां वैष्णवं स्थानमाप्नोति विनियोजनात् । 016a
पायुना मित्रमाप्नोति उपस्थेन प्रजापतिम् ॥ 016c
नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भवो लभेत् | 017a
बाहुभ्यां वासवं स्थानं श्रोत्राभ्यामाप्नुयाद्दिशः । 017c
आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च ॥ 017e
अथ मूर्धसु यः प्राणान्धारयेत समाहितः । 018a
बुद्ध्या मानमवाप्नोति द्रव्यावस्थं च संशयः ॥ 018c
अव्यक्तात्परमं शुद्धमप्रमेयमनामयम् । 019a
तमाहुः परमं नित्यं यद्यदाप्नोति बुद्धिमान् ॥ 019c
बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते । 020a
बुध्यमानमबुद्धश्च नित्यमेवानुपश्यति ॥ 020c
विकारपुरुषस्त्वेष बुध्यमान इति स्मृतः । 021a
पञ्चविंशतितत्वं तत्प्रोच्यते तत्र संशयः ॥ 021c
स एष प्रकृतिस्थत्वात्तस्थुरित्युपदिश्यते । 022a
महानात्मा महादेव महानत्राधितिष्ठति ॥ 022c
अधिष्ठानादधिष्ठाता प्रोच्यते शास्त्रदर्शनात् । 023a
एष चेतयते देव मोहजालमबुद्धिमान् ॥ 023c
अव्यक्तस्यैव साधर्म्यमेतदाहुर्मनीषिणः । 024a
सोहं सोहमतो नित्यादज्ञानादिति मन्यते ॥ 024c
यदि बुध्यति चैवायं मन्येयमिति भास्वरः । 025a
न प्रबुद्धो न वर्तेत पानीयं मत्स्यको यथा ॥ 025c
देवता निखिलेनैताः प्रोक्तास्त्रिभुवनेश्वर । 026a
योगकृत्यं तु तावन्मे त्वं निबोधानुपूर्वशः ॥ 026c
शून्यागारेष्वरण्येषु सागरे वा गुहासु वा । 027a
विष्टम्भयित्वा त्रीन्दण्डानवाप्तो ह्यद्वयो भवेत् ॥ 027c
प्राङ्मुखोदङ्मुखो वापि तथा पश्चान्मुखोपि वा । 028a
दक्षिणावदनो वापि बद्ध्वा विधिवदासनम् ॥ 028c
स्वस्तिकेनोपसंविष्टः कायमुन्नाम्य भास्वरम् । 029a
यथोपदिष्टं गुरुणा तथा तद्ब्रह्म धारयेत् ॥ 029c
लघ्वाहारो यतो दान्तस्त्रिकालपरिवर्जकः । 030a
मूत्रोत्सर्गपुरीषाभ्यामाहारे च समाहितः ॥ 030c
शेषकालं तु युञ्जीत मनसा सुसमाहितः । 031a
इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत् ॥ 031c
मनस्तथैव सङ्गृह्य बुद्ध्या बुद्धिमतां वर । 032a
विधावमानं धैर्येण विस्फुरन्तमितस्ततः ॥ 032c
निरुध्य सर्वसङ्कल्पांस्ततो वै स्थिरतां व्रजेत् । 033a
एकाग्रस्तद्विजानीयात्सर्वं गुह्यतमं परम् ॥ 033c
निवातस्थ इवालोलो यथा दीपोऽतिदीप्यते । 034a
ऊर्ध्वमेव न तिर्यक्च तथैवाभ्रान्ति ते मनः ॥ 034c
हृदिस्थस्तिष्ठते योसौ तस्यैवाभिमुखो यदा । 035a
मनो भवति देवेश पाषाणमिव निश्चलम् ॥ 035c
स निर्जने विनिर्घोषे सघोषे चाऽऽवसञ्जने । 036a
युक्तो यो न विकम्पेत योगी योगविधिः श्रुतः ॥ 036c
ततः पश्यति तद्ब्रह्म ज्वलदात्मनि संस्थितम् । 037a
विद्युदम्बुधरे यद्वत्तद्वदेकमनाश्रयम् ॥ 037c
तमस्यगाधे तिष्ठन्तं निस्तमस्कमचेतनम् । 038a
चेतयानमचेतं च दीप्यमानं स्वतेजसा ॥ 038c
अङ्गष्ठपर्वमात्रं तन्नैश्रेयसमनिन्दितम् । 039a
महद्भूतमनन्तं च स्वतन्त्रं विगतज्वरम् ॥ 039c
ज्योतिषां ज्योतिषं देवं विष्णुमत्यन्तनिर्मलम् । 040a
नारायणमणीयांसमीश्वराणामधीश्वरम् ॥ 040c
विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम् । 041a
अविज्ञाय निमज्जन्ति लोकाः संसारसागरे ॥ 041c
यं दृष्ट्वा यतयस्तात न शोचन्ति गतज्वराः । 042a
जन्ममृत्युभयान्मुक्तास्तीर्णाः संसारसागरम् ॥ 042c
अणिमा लघिमा भूमा प्राप्तिः प्राकम्यमेव च । 043a
ईशित्वं च वशित्वं च यत्र कामावसायिता । 043c
एतदष्टुगुणं योगं योगानाममितं स्मृतम् ॥ 043e
दृष्ट्वात्मानं निरात्मानमप्रमेयं सनातनम् । 044a
ते विशन्ति शरीराणि योगेनानेन भास्वरम् । 044c
दैत्यदेवमनुष्याणां बलेन बलवत्तमाः ॥ 044e
एतत्तत्वमनाद्यन्तं यद्भवाननुपृच्छति । 045a
नित्यं वयमुपास्यामो योगधर्मं सनातनम् ॥ 045c
योगधर्मान्न धर्मोस्ति गरीयान्सुरसत्तम । 046a
एतद्धर्मं हि धर्माणामपुनर्भवसंस्कृतम् ॥ 046c
तत्वतः परमस्तीस्ति केचिदाहुर्मनीषिणः । 047a
केचिदाहुः परं नास्ति ये ज्ञानफलमाश्रिताः ॥ 047c
ज्ञानस्थः पुरुषस्त्वेष विकृतः स्वेन वर्णितः । 048a
ये ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः ॥ 048c
तमेव पुरुषं देवं केचिदेव महेश्वर । 049a
नित्यमन्यतमाः प्राहुर्ज्ञानं परमकं स्मृतम् ॥ 049c
ज्ञानमेव विनिर्मुक्ताः साङ्ख्या गच्छन्ति केवलम् । 050a
चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः ॥ 050c
उक्तमेतावदेतत्ते योगदर्शनमुत्तमम् । 051a
साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्याविदर्शनम् ॥' 051c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥

7-167-11 योऽग्निं याजयते नित्यमिति थ. पाठः ॥ 7-167-21 पञ्चविंशतिकं तत्वमिति थ. पाठः ॥ 7-167-27 त्रीन्दण्डानवाप्नोति च योगविदिति ट. थ. पाठः ॥