श्रीः अध्यायः 166
रुद्रम् प्रति सनत्कुमारेण तत्वलयक्रमाध्यात्मादिप्रतिपादनम् ॥ 1 ॥
'सनत्कुमार उवाच 001
तत्वसङ्ख्या श्रुता चैषा येषां ब्रह्मविदांवर । 001a
सर्गसङ्ख्या मया प्रोक्ता नवानामानुपूर्व्यशः । 001c
प्रवक्ष्यामि तु तेऽध्यात्ममधिभूताधिदैवतम् ॥ 001e
नैतद्युक्तैर्वेदविद्भिर्गृहस्थैर्मान्यैरेभिस्तपसा वाभिपन्नैः । 002a
यत्नेन दृष्टं परमात्मतत्वं तत्वेन प्राप्यं तु यथोक्तमेतत् । 002c
परं परेभ्यस्त्वमृतार्थतत्वं स्वभावसत्वस्थमनीशमीशम् ॥ 002e
कैवल्यतां प्राप्य महासुरोत्तम तवैतदाख्यामि मुनीन्द्रवृत्त्या । 003a
रहस्यमेवान्यदवाप्य दिव्यं पवित्रपूतस्तव मृत्युजालम् ॥ 003c
पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्वपरीक्षिताय । 004a
नाश्रद्दधानाय न चान्यबुद्धेर्नाज्ञानयुक्ताय न विस्मिताय ॥ 004c
स्वाध्याययुक्ताय गुणान्विताय प्रदेयमेतन्नियतेन्द्रियाय ॥ 005ac
सङ्क्षेपं चाप्यथैतेषां तत्वानां वृषभध्वज । 006a
अनुलोमानुजातानां प्रतिलोमप्रमीयतम् ॥ 006c
प्रवक्ष्यामि तमध्यात्मं साधिभूताधिदैवतम् । 007a
यथांशुजालमर्कस्य तथैतत्प्रवदन्ति वै ॥ 007c
सङ्क्षीणे ब्रह्मदिवसे जगज्जलधिमाविशेत् । 008a
प्रलीयते जले भूमिर्जलमग्नौ प्रलीयते ॥ 008c
लीयतेऽग्निस्तथा वायौ वायुराकाश एव तु । 009a
मनसि प्रलीयते खं तु मनोऽहङ्कार एव च ॥ 009c
अहङ्कारस्तथा तस्मिन्महति प्रविलीयते । 010a
महानव्यक्त इत्याहुस्तदेकत्वं प्रचक्षते ॥ 010c
अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्मणि । 011a
एवमस्यासकृत्क्रीडामाहुस्तत्वविदो जनाः ॥ 011c
अध्यात्ममधिभूतं च तथैवाप्यधिदैवतम् । 012a
यथावदुदितं शास्त्रं योगे तु सुमहात्मभिः ॥ 012c
तथैव चेह साङ्ख्ये तु परिसङ्ख्यात्मचिन्तकैः । 013a
प्रपञ्चितार्थमेतावन्महादेव महात्मभिः ॥ 013c
ब्रह्मेति विद्यादध्यात्मं पुरुषं चाधिदैवतम् । 014a
प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च ॥ 014c
अध्यात्मं प्राणमित्याहुः क्रतुमप्यधिदैवतम् । 015a
रथं च यज्ञवाहोऽत्र कर्माहङ्कारमेव च ॥ 015c
अध्यात्मं तु मनो विद्याच्चन्द्रमाश्चाधिदैवतम् । 016a
दैवं च प्रभवश्चैव कर्म व्याहृतयस्तथा ॥ 016c
विद्यात्तु श्रोत्रमध्यात्ममाकाशमधिदैवतम् । 017a
सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतम् ॥ 017c
त्वगध्यात्ममथो विद्याद्वायुरत्राधिदैवतम् । 018a
सन्निपातय विज्ञानं सर्वकर्म च तत्र ह ॥ 018c
अध्यात्मं चक्षुरित्याहुर्भास्करोऽत्राधिदैवतम् । 019a
ज्ञापनं सर्ववर्णानां रूपं कर्म सदा स्मृतम् ॥ 019c
जिह्वेति विद्यादध्यात्ममापश्चात्राधिदैवतम् ॥ 020ac
पायुरध्यात्ममित्याहुर्यथावद्यतिसत्तमाः । 021a
विसर्गमधिभूतं च मित्रं चाप्यधिदैवतम् ॥ 021c
उपस्थोऽध्यात्ममित्याहुर्देवदेव पिनाकधृक् । 022a
अनुभावोऽधिभूतं तु दैवतं च प्रजापतिः ॥ 022c
पादावध्यात्ममित्याहुस्त्रिशूलाङ्क मनीषिणः । 023a
गन्तव्यमधिभूतं तु विष्णुस्तत्राधिदैवतम् ॥ 023c
वागध्यात्मं तथैवाहुः पिनाकिंस्तत्वदर्शिनः । 024a
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ 024c
एतदध्यात्ममतुलं साधिभूताधिदैवतम् । 025a
मया तु वर्णितं सम्यग्देहिनाममरर्षभ ॥ 025c
एतत्कीटपतङ्गे च श्वपाके शुनि हस्तिनि । 026a
पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे ॥ 026c
सर्वमेव हि द्रष्टव्यमन्यथा मा विचिन्तय । 027a
अतोऽन्यथा ये पश्यन्ति न सम्यक्तेषु दर्शनम् ॥ 027c
देवदानवगन्धर्वयक्षराक्षसकिन्नराः । 028a
यन्न जानन्ति को ह्येष कुतो वा भगवानिति ॥ 028c
ओमित्येकाक्षरं ब्रह्म यत्तत्सदसतः परम् । 029a
अनादिमध्यपर्यन्तं कूटस्थमचलं ध्रुवम् ॥ 029c
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् । 030a
अनादिनिधनं देवं देवदेवं सनातनम् ॥ 030c
अपमेयमविज्ञेयं हरिं नारायणं प्रभुम् । 031a
कृताञ्जलिः शुचिर्भूत्वा प्रणम्य प्रयतोऽर्चयेत् ॥ 031c
अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः । 032a
एकोयं वेद भगवांस्त्राता नारायणो हरिः ॥ 032c
नारायणादृषिगणास्ततः सिद्धा महोरगाः । 033a
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥ 033c
यमाहुर्विजितक्लेशं यस्मिंश्च विहिताः प्रजाः । 034a
यस्मिल्ँलोकाः स्फुरन्तीमे जाले शकुनयो यथा ॥ 034c
सप्तर्षयो मनः सप्त साङ्ख्यास्तु मुनिदर्शनात् । 035a
सप्तर्षयश्चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च ॥ 035c
श्रोत्रयोश्च दिशः प्राहुर्मनसि त्वथ चन्द्रमाः ॥ 036ac
मनः षष्ठं बुद्धिः सप्तमी ह्यात्मनि स्थापितानि शरीरेषु नात्मनि तस्य हि कारणानि भन्ति सर्वाण्यपि सर्वकर्मसु वा विषयेषु वा युञ्जन्ति यथात्मनि स्वानि कर्माणि प्रवृत्तानि सप्तस्वपि ॥ 037AB
विषयाणां व्यापकत्वानि तान्येव स्वपतो भूतग्रामस्याजमात्मानं देवलोकस्थानसम्मितं देहान्तरगामिनं मुमुक्षुं वानुप्रविशन्ति सूक्ष्माणि प्रलीयन्ते ॥ 038AB
मोक्षकाले तमेकं न कश्चिद्वेत्ति स्वपरम् । 039a
एवं प्रविष्टेषु भूतेषु को जागर्तीत्युच्यते ॥ 039c
निद्राप्रसुप्तेषु वाऽत्र जाग्रत्स्वप्नशीलोत्रसदनौ च देवद्योतनो भगवांश्चात्र क्षेत्रज्ञो बुद्धिर्वाऽभिसुप्तस्यापि स्वप्नदर्शनानि पश्यन्ति ॥ 040AB
अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते । सएष प्राज्ञः । अथ तैजसः कायाग्निः स हि सुप्तस्यात्मा वा ॥ 041AB
अविदुषो वाऽप्रतिबुध्यमानस्यान्नं पचतीत्यन्ते वै तिष्ठति एतदात्मानमधिकृत्यानुज्ञातमिति ॥ 042AB
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥
7-166-2 गृहस्थैर्मान्येज्याभिरिति ट. थ. पाठः ॥