श्रीः अध्यायः 165

भीष्मेण युधिष्ठिरम् प्रति तत्वसृष्टिप्रतिपादकरुद्रसनत्कुमारसंवादानुवादः ॥ 1 ॥

*युधिष्ठिर उवाच 001
पितामहेन कथिता दानधर्माश्रिताः कथाः । 001a
मया श्रुता ऋषीणां तु सन्निधौ केशवस्य च ॥ 001c
पुनः कौतूहलमभूत्तामेवाध्यात्मिकीं प्रति । 002a
कथाः कथय राजेन्द्र त्वदन्यः क उदाहरेत् ॥ 002c
एष यादवदायादस्तथानुज्ञातुमर्हति । 003a
ज्ञाते तु यस्मिञ्ज्ञातव्यं ज्ञातं भवति भारत ॥ 003c
पश्चाच्छ्रोष्यामहे राज्ञां श्राव्यान्धर्मान्पितामह । 004a
कौतूहलमृषीणां तु च्छेतुमर्हसि साम्प्रतम् ॥ 004c
भीष्म उवाच 005
अत ऊर्ध्वं महाराज साङ्ख्ययोगोभयशास्त्राधिगतयाथात्म्यदर्शनसम्पन्नयोराचार्ययोः संवादमनुव्याख्यास्यामः ॥ 005AB
तद्यथा भगवन्तं सनत्कुमारमासीनमङ्गुष्ठपर्वमात्रं महति विमानवरे योजनसहस्रमण्डले तरुणभास्करप्रतीकाशे शयनीये महति बद्धासनमनुध्यायन्तममृतमनावर्तकरममूर्तमक्षयजमथोपदिष्टमुपससर्प भगवन्तमाचार्यं भगवानाचार्यो रुद्रः ॥ 006AB
तं प्रोवाच स्वागतं महेश्वर ब्रह्मसुत एतदासनमास्तां भगवान् ॥ 007AB
इत्युक्ते चासीनो भगवाननन्तरूपो रुद्रस्तं प्रोवाच भगवानपि ध्यानमावर्तयति । 008A
इत्युक्ते चाह भगवान्सनत्कुमारस्तथेति ॥ 008B
तथेत्युक्तश्च प्रोवाच भगवाञ्शङ्करस्तदा । 009a
परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम् ॥ 009c
किं वा ध्यानेन द्रष्टव्यं यद्भवाननुपश्यति । 010a
यच्च ध्यात्वा न शोचन्ति यतयस्तत्वदर्शिनः ॥ 010c
कथय त्वमिमं देवं देहिनां यतिसत्तम । 011a
यच्च तत्पुरुषं शुद्धमित्युक्तं योगसाङ्ख्ययोः ॥ 011c
किमध्यात्माधिभूतं च तथा चाप्यधिदैवतम् । 012a
कालसङ्ख्या च का देव द्रष्टव्या तस्य ब्रह्मणः ॥ 012c
सङ्ख्या सङ्ख्यादनस्यैव या प्रोक्ता परमर्षिभिः । 013a
शास्त्रदृष्टेन मार्गेण यथावद्यतिसत्तम ॥ 013c
यच्च तत्पुरुषं शुद्धं प्रबुद्धमजरं ध्रुवम् । 014a
बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च ॥ 014c
विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदांवर । 015a
परिसाङ्ख्यं च साङ्ख्यानां ध्यानं योगेषु चार्थवत् ॥ 015c
एकत्वदर्शनं चैव तथा नानात्वदर्शनम् । 016a
अरिष्टानि च तत्वेन तथैवोत्क्रमणानि च ॥ 016c
दैवतानि च सर्वाणि निखिलेनानुपूर्वशः । 017a
यान्याश्रितानि देहेषु देहिनां यतिसत्तम । 017c
सर्वमेतद्यथातत्वमाख्याहि मुनिसत्तम ॥ 017e
श्रेष्ठो भवान्हि सर्वेषां ब्रह्मज्ञानामनिन्दितः । 018a
चतुर्थस्त्वं त्रयाणां तु ये गताःइ परमां गतिम् । 018c
ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात् ॥ 018e
वयं तु वैकृतं मार्गमाश्रिता वै क्षरं सदा । 019a
परमुत्सृज्य पन्थानममृताक्षरमेव तु ॥ 019c
न्यूने पथि निमग्नास्तु ऐश्वर्येऽष्टगुणे तथा । 020a
महिमानं प्रगृह्येमं विचरामो यथासुखम् ॥ 020c
न चैतत्सुखमत्यन्तं न्यूनमेतदनन्तरम् । 021a
मूर्तिमत्परमेतत्स्यादिदमेवं सुसत्तम ॥ 021c
पुनः पुनश्च पतनं मूर्तिमत्युपदिश्यते । 022a
न पुनर्मृत्युमित्यन्यं निर्मुक्तानां तु मूर्तितः ॥ 022c
मृत्युदोषास्त्वनन्ता वै उत्पद्यन्ते कृतात्मनाम् । 023a
मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने ॥ 023c
तत्र मज्जन्ति पुरुषाः सुखदुःखेन वेष्टिताः ॥ 024ac
सुखदुःखव्यपेतं च यदाहुरमृतं पदम् । 025a
तदहं श्रोतुमिच्छामि यथावच्छ्रुतिदर्शनात् ॥ 025c
सनत्कुमार उवाच 026
यदुक्तं भवता वाक्यं तत्वसञ्ज्ञेति देहिनाम् । 026a
चतुर्विंशतिमेवात्र केचिदाहुर्मनीषिणः ॥ 026c
केचिदाहुस्त्रयोविंशं यथाश्रुतिनिदर्शनात् । 027a
वयं तु पञ्चविंशं वै तदधिष्ठानसञ्ज्ञितम् । 027c
तत्वं समधिमन्यामः सर्वतन्त्रप्रलापनात् ॥ 027e
अव्ययश्चैव वै व्यक्तावुभावपि पिनाकधृक् । 028a
सह चैव विना चैव तावन्योन्यं प्रतिष्ठितौ ॥ 028c
हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतांवर । 029a
चकार पुरुषस्तात विकारपुरुषावुभौ ॥ 029c
अव्यक्तादेक एवैष महानात्मा प्रसूयते । 030a
अहङ्कारेण लोकांश्च व्याप्य चाहङ्कृतेन वै ॥ 030c
विना सर्वं तदव्यक्तादभफिमन्यस्व शूलधृक् । 031a
भूतसर्गमहङ्कारात्तृतीयं विद्धि वै क्रमात् ॥ 031c
अहङ्काराच्च भूतेषु चतुर्थं विद्धि वैकृतम् । 032a
अहङ्काराच्च जातानि युगपद्विबुधेश्वर ॥ 032c
सविशेषाणि भूतानि पञ्च प्राहुर्मनीषिणः । 033a
चतुर्विंशात्तु वै प्रोक्तात्पञ्चविंशोऽधितिष्ठति ॥ 033c
एते सर्गा मया प्रोक्ताश्चत्वारः प्राकृतास्त्विह । 034a
अहङ्काराच्च जातानि युगपद्विबुधेश्वर ॥ 034c
अङ्काराच्च भूतेषु विविधार्थं व्यजायत । 035a
इन्द्रियैर्युगपत्सर्वैः सो नित्यश्च समीक्षते ॥ 035c
मरुत्त्वं सत्वसर्गश्च तुष्टिः सिद्धिस्तथैव च । 036a
वैकृतानि प्रवक्ष्यामि शृणु तानि महामते ॥ 036c
एषा तत्वचतुर्विंशन्मया शास्त्रानुमानतः । 037a
वर्णिता तव देवेश पञ्चविंशत्समन्विता ॥ 037c
पञ्चमोऽनुग्रहश्चैव नवैते प्राकृतैः सह । 038a
ऐन्द्रेप्यहमधोप्यन्यन्ममात्मनि च भास्वरः ॥ 038c
यच्च देहमयं किञ्चित्त्रिषु लोकेषु विद्यते । 039a
सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन ॥ 039c
अन्यथा येऽनुपश्यन्ति ते न पश्यन्ति ब्रह्मज । 040a
एतदव्यक्तविषयं पञ्चविंशसमन्वितम् ॥ 040c
अनेन कारणेनैव तत्वमाहुर्मनीषिणः । 041a
विकारमात्रमेतं तु तत्वमाचक्षते परम् ॥ 041c
निस्तत्वश्चैष देवेश बोद्धव्यं तु न बुद्ध्यते । 042a
यदि बुद्ध्येत्परं बुद्धं बुद्ध्यमानः सुरर्षभः । 042c
प्रबुद्धो ह्यभिमन्येत योयं नाहमिति प्रभो ॥ 042e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

*एतदादिपञ्चाध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते ॥ 7-165-13 यथावद्वद सत्तमेति ङ. पाठः ॥ 7-165-36 मम त्वं सत्त्वसर्गश्चेति ध. पाठः ॥