श्रीः अध्यायः 164

युधिष्ठिरेण भीष्मम् प्रति दरिद्राणां यज्ञस्य बहुद्रव्यसाध्यत्वेन दुष्करतया तत्फलप्राप्त्यै तत्प्रतिनिधिकथनप्रार्थना ॥ 1 ॥ भीष्मेण युधिष्ठिरम् प्रति एकैकदिनवृद्ध्या मासावध्युपवासस्य यज्ञप्रतिनिधित्वकथनम् ॥ 2 ॥

युधिष्ठिर उवाच 001
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना । 001a
गुणाश्चैषां यथातथ्यं प्रेत्य चेह च सर्वशः ॥ 001c
न तै शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह । 002a
बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥ 002c
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह । 003a
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥ 003c
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् । 004a
अर्थन्यूनैरवगुणैरेकात्मभिरसंहतैः । 004c
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥ 004e
भीष्म उवाच 005
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् । 005a
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥ 005c
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् । 006a
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् । 006c
षड्भिरेव स वर्षैस्तु सिध्यते नात्र संशयः ॥ 006e
तप्तकाञ्चनवर्णं च विमानं लभते नरः । 007a
देवस्त्रीणामधीवासे नृत्तगीतनिनादिते । 007c
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसन्निभे ॥ 007e
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् । 008a
धर्मत्नीरतो नित्यमग्निष्टोमफलं लभेत् । 008c
यज्ञं बहुसुवर्णं वा वासवप्रियमाचरेत् ॥ 008e
सत्यवान्दानशीलश्च ब्रह्मण्यश्चानसूयकः । 009a
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥ 009c
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे । 010a
द्वे समाप्ते ततः पद्मे सोप्सरोभिर्वसेत्सह ॥ 010c
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् । 011a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 011c
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः । 012a
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 012c
हंससारसयुक्तं च विमानं लभते नरः । 013a
इन्द्रलोके च वसते वरस्त्रीभिः समावृतः ॥ 013c
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् । 014a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 014c
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः । 015a
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ 015c
मयूरहंसयुक्तं च विमानं लभते नरः । 016a
सप्तर्षीणां सदा लोके सोप्सरोभिर्वसेत्सह । 016c
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥ 016e
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् । 017a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् । 017c
वाजपेयस्य यज्ञस्य फलं प्राप्नीत्यनुत्तमम् || 017e
इन्द्रिकन्याभिरूढं च विमानं लभते नरः । 018a
सागरस्य च पर्यन्ते वासवं लोकमावसेत् । 018c
देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥ 018e
दिवसे पञ्चमे यस्तु प्राश्नीयादैकभोजनम् । 019a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 019c
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः । 020a
अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥ 020c
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् । 021a
सूर्यमालासमाभासमारोहेत्पाण्डुरं गुहम् ॥ 021c
आवर्तनानि चत्वारि तथा पद्मानि द्वादश । 022a
शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥ 022c
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् । 023a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 023c
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः । 024a
गवामयनयज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ 024c
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् । 025a
शातकुम्भसमायुक्तं साधयेद्यानमुत्तमम् ॥ 025c
तथैवाप्सरसामङ्के प्रतिसुप्तः प्रबोध्यते । 026a
नूपुराणां निनादेन मेखलानां च निःस्वनैः ॥ 026c
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च । 027a
पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥ 027c
अयुतानि च पञ्चशदृक्षचर्मशतस्य च । 028a
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥ 028c
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् । 029a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 029c
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् । 030a
सुमनोवर्णकं चैव मधु मांसं च वर्जयन् ॥ 030c
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति । 031a
तत्रतत्र हि सिद्धार्थो देवकन्याभिरुह्यते ॥ 031c
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः । 032a
सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥ 032c
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः । 033a
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥ 033c
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । 034a
पद्मवर्णनिभं चैव विमानमधिरोहति ॥ 034c
मृष्टाः कनकगौर्यश्च नार्यः श्यामास्तथा पराः । 035a
वयोरूपविलासिन्यो लभते नात्र संशयः ॥ 035c
यस्तु संवत्सरं भुङ्क्ते नवमेनवमेऽहनि । 036a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 036c
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् । 037a
पुण्डरीकप्रकाशं च विमानं लभते नरः ॥ 037c
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च । 038a
नीयते रुद्रकन्याभिः सोन्तरिक्षं सनातनम् ॥ 038c
अष्टादशसहस्राणि वर्षाणां कल्पमेव च । 039a
कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥ 039c
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गतेगते । 040a
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 040c
ब्रह्मकन्यानिवासे स सर्वभूतमनोहरे । 041a
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ 041c
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् । 042a
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥ 042c
विमानं मण्डलावर्तमावर्तगहनाकुलम् । 043a
सागरोर्मिप्रतीकाशं स लभेद्यानमुत्तमम् ॥ 043c
विचित्रमणिमालाभिर्नादितं शङ्खनिःस्वनैः । 044a
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् । 044c
आरोहति महद्यानं हंससारसवाहनम् ॥ 044e
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः । 045a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 045c
परस्त्रियं नाभिलषेद्वाचाथ मनसाऽपि वा । 046a
अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा । 046c
अभिगच्छेन्महादेवं विमानस्थं महाबलम् ॥ 046e
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् । 047a
स्वायम्भुवं च पश्येत विमानं समुपस्थितम् ॥ 047c
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् । 048a
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥ 048c
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् । 049a
कोटीशतसहस्रं च दशकोटिशतानि च ॥ 049c
रुद्रं नित्यं प्रणमते देवदानवसम्मतम् । 050a
स तस्मै दर्शनं प्राप्तो दिवसेदिवसे भवेत् ॥ 050c
दिवसे द्वादशे यस्तु प्राप्तो वै प्राशते हविः । 051a
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 051c
नियमेन समायुक्तः सर्वमेधफलं लभेत् । 052a
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते ॥ 052c
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् । 053a
हंसभासा परिक्षिप्तं नागवीथीसमाकुलम् ॥ 053c
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् । 054a
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् ॥ 054c
नित्यमावसथं राजन्नरनारीसमावृतम् । 055a
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मिवित् ॥ 055c
त्रयोदशे तु दिवसे प्राप्ते यः प्राशते हविः । 056a
सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥ 056c
रक्तपद्मोदयं नाम विमानं साधयेन्नरः । 057a
जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् ॥ 057c
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् । 058a
पुण्यगन्धोदयं दिव्यं वादित्रैरुपशोभितम् ॥ 058c
तत्र शङ्कुपताके द्वे युगान्तं कल्पमेव च । 059a
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥ 059c
गीतगन्धर्वघोषैश्च भेरीपणवनिःस्वनैः । 060a
सदा प्रह्लादितस्ताभिर्देवकन्याभिरीड्यते ॥ 060c
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः । 061a
सदा द्वादशमासांस्तु महामेधफलं लभेत् ॥ 061c
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः । 062a
मृष्टतप्ताङ्गदधरा विमानैरुपयान्ति तम् ॥ 062c
कलहंसविनिर्घोषैर्नूपुराणां च निःस्वनैः । 063a
काञ्चीनां च समुत्कर्षैस्तत्रतत्र निबोध्यते ॥ 063c
देवकन्यानिवासे च तस्मिन्वसति मानवः । 064a
जाह्नवीवालुकाकीर्णं पूर्णं संवत्सरं नरः ॥ 064c
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः । 065a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 065c
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् । 066a
यानमारोहते दिव्यं हंसबर्हिणलक्षणम् ॥ 066c
मणिमण्डलकैश्चित्रं जातरूपसमावृतम् । 067a
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम् ॥ 067c
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् । 068a
वैजयन्तीसहस्रैश्च शोभितं गीतनिःस्वनै । 068c
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति ॥ 068e
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् । 069a
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥ 069c
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः । 070a
सदा द्वादशमासान्वै सोमयज्ञफलं लभेत् ॥ 070c
सोमकन्यानिवासेषु सोऽध्यावसति नित्यशः । 071a
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥ 071c
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च । 072a
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥ 072c
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् । 073a
आवर्तनानि चत्वारि साधयेच्चाप्यसौ नरः ॥ 073c
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः । 074a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 074c
स्थानं वारुणमैन्द्रं च रौद्रं वाऽप्यधिगच्छति ॥ 075ac
मारुतं शयनं चैव ब्रह्मलोकं स गच्छति । 076a
तत्र दैवतकन्याभिरासनेनोपचर्यते ॥ 076c
भूर्भुवःस्वश्च देवर्षिर्विश्वरूपमवेक्षते । 077a
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् । 077c
द्वात्रिंशद्रूपधारिण्यो मधुराः समलङ्कृताः ॥ 077e
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो । 078a
तावच्चरत्यसौ धीरः सुधातुल्यरसाशनः ॥ 078c
अष्टादशे यो दिवसे प्राश्नीयादेकभोजनम् । 079a
सदा द्वादशमासान्वै सप्तलोकान्स पश्यति ॥ 079c
रथैः स नन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते । 080a
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलङ्कृतैः ॥ 080c
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् । 081a
विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ॥ 081c
तत्र कल्पसहस्रं स कन्याभिः सह मोदते । 082a
सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥ 082c
एकोनविंशदिवसे यो भुङ्क्ते एकभोजनम् । 083a
सदा द्वादशमासान्वै सप्त लोकान्स पश्यति ॥ 083c
उत्तमं लभते स्थानमप्सरोगणसेवितम् । 084a
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥ 084c
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः । 085a
दिव्याम्बरधरः श्रीमानयुतानां शतंशतम् ॥ 085c
पूर्णेऽथ विंशे दिवसे यो भुङ्क्ते ह्येकभोजनम् । 086a
सदा द्वादशमासांस्तु सत्यवादी धृतव्रतः ॥ 086c
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः । 087a
स लोकान्विपुलान्रम्यानादित्यानामुपाश्नुते ॥ 087c
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः । 088a
विमानैः काञ्चनैर्हृद्यैः पृष्ठतश्चानुगम्यते ॥ 088c
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् । 089a
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् । 089c
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति ॥ 089e
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा । 090a
अनभिज्ञश्च दुःखानां विमानवरमास्थितः । 090c
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥ 090e
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् । 091a
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 091c
अहिंसानिरतो धीमान्सत्यवागनसूयकः । 092a
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥ 092c
कामचारी सुधाहारो विमानवरमास्थितः । 093a
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ 093c
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् । 094a
सदा द्वादशमासांस्तु मिताहारो जितेन्द्रियः । 094c
वायोरुशनसश्चैव रुद्रलोकं च गच्छति ॥ 094e
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः । 095a
अनेकयुगपर्यन्तं विमानवरमास्थितः । 095c
रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ 095e
चतुर्विंशे तु दिवसे यः प्राप्ते प्राशते हविः । 096a
सदा द्वादशमासांश्च जुह्वानो जातवेदसम् । 096c
आदित्यानामधीवासे मोदमानो वसेच्चिरम् ॥ 096e
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः । 097a
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे । 097c
रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥ 097e
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् । 098a
सदा द्वादशमासांस्तु पुष्कलं यानमारुहेत् ॥ 098c
सिंहव्याघ्रप्रयुक्तैस्तु मेघनिःस्वननादितैः । 099a
स रथैर्नन्दिघोषैश्च पृष्ठतो ह्यनुगम्यते । 099c
देवकन्यासमारूढैः काञ्चनैर्विमलैः शुभैः ॥ 099e
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् । 100a
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते । 100c
सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥ 100e
षड्विंशे दिवसे यस्तु प्रकुर्यादेकभोजनम् । 101a
सदा द्वादशमासांस्तु नियतो नियताशनः । 101c
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् ॥ 101e
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः । 102a
सप्तानां मरुतां लोकान्वसूनां चापि सोश्नुते ॥ 102c
विमानैः स्फाटिकैर्दिव्यैः सर्वरत्नैरलङ्कृतैः । 103a
गन्धर्वैरप्सरोभिश्चि पूज्यमानः प्रमोदते । 103c
द्वेऽर्बुदानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥ 103e
सप्तविंशेऽथ दिवसे यः कुर्यादेकभोजनम् । 104a
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 104c
फलं प्राप्नोति विपुलं देवलोके च पूज्यते । 105a
अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥ 105c
देवर्षिचरिताल्ँलोकान्राजर्षिभिरनुष्ठितान् । 106a
अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥ 106c
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः । 107a
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥ 107c
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् । 108a
सदा द्वादशमासांस्तु जितात्मा विजितेन्द्रियः ॥ 108c
फलं देवर्षिचरितं विपुलं समुपाश्नुते । 109a
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥ 109c
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः । 110a
पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥ 110c
रमयन्ति मनःकान्ता विमाने सूर्यसन्निभे । 111a
सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥ 111c
एकोनत्रिंशदिवसे यः प्राशेदेकभोजनम् । 112a
सदा द्वादशमासान्वै सत्यव्रतपरायणः | 112c
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ॥ 112e
विमानं सूर्यचन्द्राभं दिव्यं समधिगच्छति । 113a
जातरूपमयं युक्तं सर्वरत्नसमन्वितम् । 113c
अप्सरोगणसङ्कीर्णं गन्धर्वैरभिनादितम् ॥ 113e
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः । 114a
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥ 114c
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः । 115a
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥ 115c
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा । 116a
रुद्राणां च तथा लोकं ब्रह्मलोकं च गच्छति ॥ 116c
यस्तु मासे गते भुङ्क्ते एकभक्तं समाहितः । 117a
सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ॥ 117c
सुधारसकृताहारः श्रीमान्सर्वमनोहरः । 118a
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥ 118c
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः । 119a
सुखेष्वभिरतो भोगी दुःखानामविजानकः ॥ 119c
स्वयम्प्रभाभिर्नारीभिर्विमानस्थो महीयते । 120a
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥ 120c
नानारमणरूपाभिर्नानारागाभिरेव च । 121a
नानामधुरभाषाभिर्नानारतिभिरेव च ॥ 121c
विमाने गगनाकारे सूर्यवैडूर्यसन्निभे । 122a
पृष्ठतः सोमसङ्काशे उदर्के चाभ्रसन्निभे ॥ 122c
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले । 123a
ऊर्ध्वं विचित्रसङ्काशे नैको वसति पूजितः ॥ 123c
यावद्वर्षसहस्रं वै जम्बूद्वीपे प्रवर्षति । 124a
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकेऽस्य धीमतः ॥ 124c
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् । 125a
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥ 125c
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् । 126a
महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥ 126c
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा । 127a
जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता ॥ 127c
बहुभिर्नियमैरेवं शुचिरश्नाति यो नरः । 128a
अभ्रावकाशशीलश्च तस्य भानोरिव त्विषः ॥ 128c
दिवं गत्वा शरीरेण स्वेन राजन्यथाऽमरः । 129a
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते तथाविधः ॥ 129c
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः । 130a
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः । 130c
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा ॥ 130e
देवद्विजातिपूजायां रतो भरतसत्तमम् ॥ 131ac
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः । 132a
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥ 132c
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत । 133a
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥ 133c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥

7-164-3 अवगुणैर्निर्गुणैः । एकात्मभिरेकाकिभिः । अत एवासंहतैरसहायैः ॥ 7-164-6 कल्यं प्रातः ॥ 7-164-10 समाप्ते सम्पूर्णे द्वे पद्मे वर्षाणीति शेषः । शतकोटय एकं पद्मम् ॥ 7-164-16 निवर्तनं नियमेन वर्तनम् ॥ 7-164-22 आवर्तनानि वर्षाणि चत्वारि द्वादशचेति षोडश पद्मानि । तथा शराग्निरिति पञ्चत्रिंशत् । एवमेकपञ्चाशत्पद्मानि ॥ 7-164-27 पताका महापद्माख्यसङ्ख्याविशेषः ॥ 7-164-30 सुमनोवर्णकं स्रक्चन्दनादि ॥ 7-164-59 शङ्कुपताके सङ्ख्याविशेषौ ॥ 7-164-82 सुधा अमृतम् । अमृतं देवभोग्यं तदुपमम् ॥ 7-164-128 अभ्रं मेघसतस्याकाश आकाशं तच्छीलस्तद्वन्निर्मलः ||