श्रीः अध्यायः 163
भीष्मेण युधिष्ठिरम् प्रति पक्षमासोपवासफलप्रतिपादकाङ्गिरोवचनानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
सर्वेषामेव वर्णानां म्लेच्छानां च पितामह । 001a
उपवासे मतिरियं कारणं च न विद्महे ॥ 001c
ब्रह्मक्षत्रेण नियमाः कर्तव्या इति नः श्रुतम् । 002a
उपवासे कथं तेषां कृतमस्ति पितामह || 002c
नियमांश्चोपवासांश्च सर्वेषां ब्रूहि पार्थिव । 003a
आप्नोति कां गतिं तात उपवासपरायणः ॥ 003c
उपवासः परं पुण्यं पवित्रमपि चोत्तमम् | 004a
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥ 004c
अधर्मान्मुच्यते केन धर्ममाप्नोति वा कथम् । 005a
स्वर्गं पुण्यं च लभते कथं भरतसत्तम ॥ 005c
उपोष्य चापि किं तेन प्रयोज्यं स्यान्नराधिप । 006a
धर्मेण च सुखानर्थाल्ँलभेद्येन ब्रवीहि मे ॥ 006c
वैशम्पायन उवाच 007
एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् । 007a
धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ 007c
इदं खलु महाराज श्रुतमासीत्पुरातनम् । 008a
उपावासविधौ श्रेष्ठा गुणा ये भरतर्षभ ॥ 008c
प्राजापत्यमाङ्गिरसं पृष्टवानस्मि भारत । 009a
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ॥ 009c
प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः । 010a
उपवासविधिं पुण्यमाचष्ट भरतर्षभ ॥ 010c
अङ्गिरा उवाच 011
ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन । 011a
द्विस्त्रिरात्रमथैकाहं निर्दिष्टं पुरुषर्षभ ॥ 011c
वैश्याः शूद्राश्च यन्मोहादुपवासं प्रकुर्वते । 012a
त्रिरात्रं वा द्विरात्रं वा तयोर्व्युष्टिर्न विद्यते ॥ 012c
चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते । 013a
त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ॥ 013c
पञ्चम्यां वाऽपि षष्ठ्यां च पौर्णमास्यां च भारत । 014a
उपोष्य एकभक्तेन नियतात्मा जितेन्द्रियः ॥ 014c
क्षमावान्रूपसम्पन्नः सुरभिश्चैव जायते । 015a
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन ॥ 015c
यजिष्णुः पञ्चमीं षष्ठीं कुले भोजयते द्विजान् । 016a
अष्टमीमथ कौरव्य कृष्णपक्षे चतुर्दशीम् । 016c
उपोष्य व्याधिरहितो वीर्यवानभिजायते ॥ 016e
मार्गशीर्षं तु वै मासमेकभक्तेन यः क्षिपेत् । 017a
भोजयेच्च द्विजाञ्शक्त्या स मुच्येद्व्याधिकिल्बिषैः ॥ 017c
सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः । 018a
कृषिभागी बहुधनो बहुधान्यश्च जायते ॥ 018c
पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षिपेत् । 019a
सुभगो दर्शनीयश्च यशोभागी च जायते ॥ 019c
पितृभक्तो माघमासं यः क्षिपेदेकभोजनः । 020a
श्रीमत्कुले ज्ञातिमध्ये सुभगत्वं प्रपद्यते ॥ 020c
भगदैवतमासं तु एकभक्तेन यः क्षिपेत् । 021a
'सुभगो दर्शनीयश्च यशोभागी च जायते ।' 021c
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ 021e
चैत्रं तु नियतो मासमेकभक्तेन यः क्षिपेत् । 022a
सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥ 022c
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः । 023a
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥ 023c
ज्येष्ठामूलं तु यो मासमेकभक्तेन सङ्क्षिपेत् । 024a
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वा प्रपद्यते ॥ 024c
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः । 025a
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥ 025c
श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत् । 026a
रूपद्रविणसम्पन्नः सुखी भवति नित्यशः । 026c
बहुभार्यो बहुधनो बहुपुत्रश्च जायते ॥ 026e
प्रौष्ठपादं तु यो मासमेकाहारो भवेन्नरः । 027a
गवाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥ 027c
तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत् । 028a
प्रज्ञावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ 028c
कार्तिकं तु नरो मासं यः कुर्यादेकभोजनम् । 029a
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥ 029c
इति मासा नरव्याघ्र क्षिपतां परिकीर्तिताः । 030a
तिथीनां नियमा ये तु शृणु तानपि पार्थिव ॥ 030c
पक्षेपक्षे गते यस्तु भक्तमश्नाति भारत । 031a
गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते ॥ 031c
मासिमासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश । 032a
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ॥ 032c
एते तु नियमाः सर्वे कर्तव्याः शरदो दश । 033a
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिरनुकीर्तिता ॥ 033c
यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् । 034a
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥ 034c
षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः । 035a
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 035c
अधिवासे सोप्सरसां नृत्यगीतविनादिते । 036a
रमते स्त्रीसहस्राढ्ये सुकुती विरजा नरः ॥ 036c
तप्तकाञ्चनवर्णाभं विमानमधिरोहति । 037a
पूर्णं वर्षसहस्रं च ब्रह्मिलोके महीयते । 037c
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ 037e
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः । 038a
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ॥ 038c
त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते । 039a
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ 039c
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते । 040a
अहिंसानिरतो नित्यं सत्यवाग्विजितेन्द्रियः ॥ 040c
वाजपेयस्य यज्ञस्य स फलं समुपाश्नुते । 041a
त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ 041c
षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षिपन् । 042a
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 042c
चक्रवाकप्रयुक्तेन विमानेन स गच्छति । 043a
चत्वारिंशत्सहस्राणि वर्षाणि दिवि मोदते ॥ 043c
अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप । 044a
गवामयनयज्ञस्य फलं प्राप्नोति मानवः ॥ 044c
हंससारसयुक्तेन विमानेन स गच्छति । 045a
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ॥ 045c
पक्षेपक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु । 046a
षण्मासानशनं तस्य भगवानङ्गिराऽब्रवीत् । 046c
षष्टिं वर्षसहस्राणि दिवमावसते च सः ॥ 046e
वीणानां वल्लकीनां च वेणूनां च विशाम्पते । 047a
सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥ 047c
संवत्सरमिहैकं तु मासिमासि पिबेदपः । 048a
फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥ 048c
सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति । 049a
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥ 049c
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते । 050a
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥ 050c
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः । 051a
पदेपदे यज्ञफलं स प्राप्नोति न संशयः ॥ 051c
दिवं हंसप्रयुक्तेन विमानेन स गच्छति । 052a
शतं वर्षसहस्राणां मोदते स दिवि प्रभो ॥ 052c
शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् । 053a
आर्तो वा व्याधितो वाऽपि गच्छेदनशनं तु यः ॥ 053c
शतं वर्षसहस्राणां मोदते स दिवि प्रभो । 054a
काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥ 054c
सहस्रहंसयुक्तेन विमानेन तु गच्छति । 055a
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥ 055c
क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् । 056a
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥ 056c
दुःखितस्यार्तपूर्वस्य द्रव्याणां प्रतिपादनम् । 057a
न चैतद्रोचते तेषां ये धनैः सुखमेधिताः ॥ 057c
अतः स कामसंयुक्ते विमाने हेमसन्निभे । 058a
रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुचिः ॥ 058c
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः । 059a
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥ 059c
बालसूर्यप्रतीकाशे विमाने सोमवर्चसि । 060a
वैदूर्यमुक्ताखचिते वीणामुरजनादिते ॥ 060c
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते । 061a
स्त्रीसहस्रानुचरिते स नरः सुखमेधते ॥ 061c
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव । 062a
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥ 062c
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः । 063a
न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥ 063c
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च । 064a
उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ॥ 064c
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे । 065a
ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥ 065c
दिव्यवर्षसहस्राणि विश्वामित्रेण धीमता । 066a
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतम् ॥ 066c
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः । 067a
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ॥ 067c
इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् । 068a
यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥ 068c
इमं तु कौन्तेय यथाक्रमं विधिं प्रवर्तितं ह्यङ्गिरसा महर्षिणा । 069a
पठेच्च यो वै शृणुयाच्च नित्यदा न विद्यते तस्य नरस्य किल्बिषम् ॥ 069c
विमुच्यते चापि स सर्वसङ्करैर्न चास्य दोषैरभिभूयते मनः । 070a
वियोनिजानां च विजानते रुतं ध्रुवां च कीर्तिं लभते नरोत्तमः ॥ 070c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥
7-163-12 व्युष्टिः फलम् ॥ 7-163-13 दिनस्य द्वे भक्ते तत्र चतुर्थस्य भक्तस्य क्षपणम् । द्विरात्रमभोजनमित्यर्थः ॥ 7-163-16 यजिष्णुः देवतापूजनशीलः कुले स एव महानन्नदाता भवतीत्यर्थः ॥ 7-163-24 ज्येष्ठामूलं ज्येष्ठमासम् ॥ 7-163-28 मृजावान् वाहनाढ्यश्च इति झ. पाठः ॥ 7-163-31 सर्वेषु मासेष्वेकैकस्मिन्पक्षे गते द्वितीयपक्षे भक्तमेकभक्तमश्नाति ॥ 7-163-57 दुःखितस्यार्थमानाभ्यां दुःखानां प्रतिषेधनम् इति झ. पाठः ॥ 7-163-70 वियोनिजानां पक्ष्यादीनां रुतं शब्दं विजानते विजानीते ॥