श्रीः अध्यायः 162

भीष्मेण युधिष्ठिरम् प्रति ज्येष्ठकनिष्ठयोः परस्परस्मिन्वर्तनप्रकारादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
कथं ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ । 001a
कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥ 001c
भीष्म उवाच 002
ज्येष्ठवत्तात वर्तस्व ज्येष्ठोसि हि तथा भवान् । 002a
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥ 002c
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् । 003a
गुरौ हि सदृशी वृत्तिर्यथा शिष्यस्य भारत ॥ 003c
अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः । 004a
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥ 004c
प्रत्यक्षं भिन्नहृदया भेदयेयुर्यथाऽहिताः । 005a
'श्रियाऽभितप्तास्तद्भेदान्नभिन्नाः स्युः समाहिताः' 005c
श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथाऽरयः ॥ 005e
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । 006a
हन्ति सर्वमपि ज्येष्ठः प्रायो दुर्विनयादिह ॥ 006c
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः । 007a
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥ 007c
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् । 008a
विफलं तस्य पुत्रत्वं मोघं जनयितुः स्मृतम् ॥ 008c
पित्रोरनर्थाय कुले जायते पापपूरुषः । 009a
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥ 009c
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः । 010a
ज्येष्ठोऽपि दुर्विनीतस्तु कनिष्ठस्तु विशेषतः । 010c
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत वेतनम् ॥ 010e
अनुजस्य पितुर्दायो जङ्घाश्रमफलोऽध्वगः । 011a
स्वयमीहेत लब्धं तु नाकामो दातुमर्हति ॥ 011c
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह । 012a
न पुत्रभागं विषमं पिता दद्यात्कदाचन || 012c
न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोऽपि वा । 013a
गुरूणामपराधो हि शक्यः क्षन्तव्य एव च ॥ 013c
यदि स्त्री यद्यवरज श्रेयः पश्येत्तदाचरेत् । 014a
धर्मार्थः श्रेय इत्याहुस्त्रयो ज्ञाता विधायकाः ॥ 014c
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश । 015a
दश चैव पितॄन्माता सर्वां वा पृथिवीमपि । 015c
गौरवेणाभिभवति नास्ति मातृसमो गुरुः ॥ 015e
माता गरीयसी यच्च तेनैतां मन्यते गुरुम् । 016a
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत ॥ 016c
स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयेत् । 017a
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ॥ 017c
तमेव चोपजीवेरन्यथैव पितरं तथा । 018a
शरीरमेतौ सृजतः पिता मता च भारत ॥ 018c
आचार्यशिष्टा या जातिः सा सत्या साऽजरामरा । 019a
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ । 019c
भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥ 019e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥

7-162-2 या च शिष्यस्य गुरौ वृत्तिस्तां वर्तस्व ॥ 7-162-4 तेषां गुरूणाम् ॥ 7-162-7 यवीयसः कनिष्ठान् ॥ 7-162-8 विदुलस्येव तत्पुष्पं मोघमिति झ. पाठः ॥ 7-162-10 ज्येष्ठः कुर्वीत यौतकमिति झ. पाठः ॥ 7-162-11 जङ्घाश्रम एव फलं धनं यस्य । अध्वगः प्रवासी । अनुपघ्नन्पितुर्दायम् इति झ. पाठः ॥ 7-162-12 उत्थानं भोजनादौ विभागे वा ॥ 7-162-14 यदि स्त्री यदि वा कनिष्ठो दुष्कृतस्तथापि तस्य श्रेय आचरेत् ॥