श्रीः अध्यायः 161
भीष्मेण युधिष्ठिरम् प्रत्यायुष्यानायुष्यकारणशुभाशुभकर्मप्रतिपादनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके । 001a
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥ 001c
आयुष्मान्केन भवति अल्पायुर्वाऽपि मानवः । 002a
केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥ 002c
तपसा ब्रह्मचर्येण जपैर्होमैस्तथा परैः । 003a
जन्मना यदि वाऽचारात्तन्मे ब्रूहि पितामह ॥ 003c
भीष्म उवाच 004
अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि । 004a
अल्पायुर्येन भवति दीर्घायुर्येन मानवः ॥ 004c
येन वा लभते कीर्तिं येन वा लभते श्रियम् । 005a
यथा च वर्तयन्पुरुषः श्रेयसा सम्प्रयुज्यते ॥ 005c
आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । 006a
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ 006c
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् । 007a
त्रसन्ति चास्य भूतानि तथा परिभवन्ति च ॥ 007c
तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः । 008a
अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥ 008c
आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः । 009a
साधूनां च यथावृत्तमेतदाचारलक्षणम् ॥ 009c
अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम् । 010a
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥ 010c
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः । 011a
अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥ 011c
विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः । 012a
अल्पायुषो भवन्तीह नरा निरयगामिनः ॥ 012c
सर्वलक्षणहीनोऽपि समुदाचारवान्नरः । 013a
श्रद्दधानोऽनसूयुश्च शतं वर्षाणि जीवति ॥ 013c
अक्रोधनः सत्यवादी भूतानामविहिंसकः । 014a
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ॥ 014c
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । 015a
नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत् ॥ 015c
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । 016a
उत्थाय चोपतिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः । 016c
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः ॥ 016e
नेक्षेतादित्यमुद्यन्तं नास्तं यन्तं कदाचन । 017a
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ 017c
ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् ॥ 018ac
'सदर्भपाणिस्तत्कुर्वन्वाग्यतस्तन्मनाः शुचिः ।' 019a
तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ॥ 019c
ये न पूर्वामुपासन्ते द्विजाः सन्ध्यां न पश्चिमाम् । 020a
सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ॥ 020c
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् । 021a
नहीदृशमनायुष्यं लोके किञ्चन विद्यते ॥ 021c
यादृशं पुरुषस्येह परदारोपसेवनम् । 022a
तादृशं विद्यते किञ्चिदनायुष्यं नृणामिह ॥ 022c
यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः । 023a
तावद्वर्षसहस्राणि नरकं पर्युपासते ॥ 023c
मैत्रं प्रसाधनं स्नानमञ्जनं दन्तधावनम् । 024a
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ 024c
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन । 025a
नातिकल्यं नातिसायं न च मध्यन्दिने स्थिते । 025c
नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥ 025e
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च । 026a
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ 026c
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् । 027a
चतुष्पदान्मङ्गलांश्च मान्यान्वृद्धान्द्विजानपि ॥ 027c
मध्यन्दिने निशाकाले अर्धरात्रे च सर्वदा । 028a
चतुष्पथं न सेवेत उभे सन्ध्ये तथैव च ॥ 028c
उपानहौ न वस्त्रं च धृतमन्यैर्न धारयेत् । 029a
ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥ 029c
अमावास्यां पौर्णमास्यां चतुर्दश्यां च जन्मनि । 030a
अष्टम्यामथ द्वादश्यां ब्रह्मचारी सदा भवेत् ॥ 030c
वृथा मांसं न खादेत पृष्ठमांसं तथैव च । 031a
आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥ 031c
नारुन्तुदः स्यान्न नृशंसवादी न हीनतो वरमभ्याददीत । 032a
ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥ 032c
अतिवादबाणा मुखतो निःसरन्ति यैराहतः शोचति रात्र्यहानि । 033a
परस्य वा मर्मसु ये पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ 033c
संरोहत्यग्निना दग्धं वनं परशुना हतम् । 034a
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ 034c
कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः । 035a
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ 035c
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् । 036a
रूपद्रविणहीनांश्च सत्यहीनांश्च नाक्षिपेत् ॥ 036c
नास्तिक्यं वेदनिन्दां च परनिन्दां च कुत्सनम् । 037a
द्वेषस्तम्भाभिमानं च तैक्ष्ण्यं च परिवर्जयेत् ॥ 037c
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् । 038a
अन्यत्र पुत्राच्छिष्याच्च शिक्षार्थं ताडनं स्मृतम् ॥ 038c
न ब्राह्म्णान्परिवदेन्नक्षत्राणि न निर्दिशेत् । 039a
तिथिं पक्षस्य न ब्रूयात्तथाऽस्यायुर्न रिष्यते ॥ 039c
'अमावास्यामृते नित्यं दन्तधावनमाचरेत् । 040a
इतिहासपुराणानि दानं वेदं च नित्यशः । 040c
गायत्रीमननं नित्यं कुर्यात्सन्ध्यां समाहितः ॥' 040e
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः । 041a
पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥ 041c
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । 042a
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ 042c
यावकं कृसरं मांसं शष्कुलीं पायसं तथा । 043a
आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥ 043c
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा । 044a
दन्तकाष्ठे च सन्ध्यायां मलोत्सर्गे च मौनगः ॥ 044c
न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् । 045a
मातापितरमुत्थाय पूर्वमेवाभिवादयेत् । 045c
आचार्यमथवाऽप्यन्तं तथाऽऽयुर्विदन्ते महत् ॥ 045e
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः । 046a
भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि विवर्जयेत् । 046c
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः ॥ 046e
अकृत्वा देवपूजां च नाचरेद्दन्तधावनम् । 047a
अकृत्वा देवपूजां च नान्यं गच्छेत्कदाचन । 047c
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥ 047e
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः । 048a
न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ॥ 048c
दारसङ्ग्रहणात्पूर्वं नाचरेन्मैथुनं बुधः । 049a
अन्यथा त्ववकीर्णः स्यात्प्रायश्चित्तं सदाऽऽचरेत् ॥ 049c
नोदीक्षेत्परदारांश्च रहस्येकासनो भवेत् । 050a
इन्द्रियाणि सदा यच्छेत्स्वप्ने शुद्धमना भवेत् ॥ 050c
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च । 051a
प्राक्शिरास्तु स्वपेद्विद्वांस्तथा वै दक्षिणाशिराः ॥ 051c
न भग्ने नावशीर्णो च शयने प्रस्वपीत च । 052a
नान्तर्धानेन संयुक्ते न च तिर्यक्कदाचन ॥ 052c
न चापि गच्छेत्कार्येण समयाद्वाऽपि नास्तिकैः । 053a
आसनं तु पदाऽऽकृष्य न प्रसज्जेत्तथा नरः ॥ 053c
न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन । 054a
स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः । 054c
न निशायां पुनः स्नायादापद्यग्निद्विजान्तिके ॥ 054e
न चानुलिम्पेदस्नात्वा वासश्चापि न निर्धुनेत् । 055a
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ॥ 055c
स्रजश्च नावकृष्येत न बहिर्धारयीत च । 056a
उदक्यया च सम्भाषां न कुर्वीत कदाचन ॥ 056c
नोत्सृजेत पुरिषं च क्षेत्रे मार्गस्य चान्तिके । 057a
उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥ 057c
देवालयेऽथ गोवृन्दे चैत्ये सस्येषु विश्रमे । 058a
भोक्ष्यं भुक्त्वा क्षुतेऽध्वानं गत्वा मूत्रपुरीषयोः । 058c
द्विराचामेद्यथान्यायं हृद्गतं तु पिबन्नपः ॥ 058e
अन्नं बुभुक्षमाणस्तु त्रिमुखेन स्पृशेदपः । 059a
भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्जयेत् ॥ 059c
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् । 060a
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥ 060c
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । 061a
धन्यं पश्चान्मुखो भुङ्क्त ऋतं भुङ्क्त उदङ्मुखः ॥ 061c
'अग्रासनो जितक्रोधो बालपूर्वस्त्वलङ्कृतः । 062a
घृताहुतिविशुद्धान्नं हुताग्निश्च क्षिपन्ग्रसेत् ॥' 062c
अग्निमालभ्य तोयेन सर्वान्प्राणानुपस्पृशेत् । 063a
गात्राणि चैव सर्वाणि नाभिं पाणितले तथा ॥ 063c
नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः । 064a
अन्यस्य चाप्यवस्नातं दूरतः परिवर्जयेत् ॥ 064c
शान्तिहोमांश्च कुर्वीत सावित्राणि च धारयेत् । 065a
निषण्णश्चापि खादेत न तु गच्छन्कदाचन ॥ 065c
मूत्रं नोत्तिष्ठता कार्यं न भस्मनि न गोव्रजे । 066a
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ॥ 066c
आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् । 067a
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन । 067c
अग्निं गां ब्राह्मणं चैव तथा ह्यायुर्न रिष्यते ॥ 067e
त्रीणि ज्योतींषि नोच्छिष्ट उदीक्षेत कदाचन । 068a
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥ 068c
ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आगते । 069a
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ 069c
अभिवादयीत वृद्धांश्च दद्याच्चैवासनं स्वयम् । 070a
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥ 070c
न चासीतासने भिन्ने भिन्नकांस्यं च वर्जयेत् । 071a
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ॥ 071c
स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोपि संविशेत् । 072a
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ॥ 072c
केशग्रहं प्रहारांश्च शिरस्येतान्विवर्जयेत् । 073a
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । 073c
न चाभीक्ष्णं शिरःस्नायात्तथा स्यायुर्न रिष्यते ॥ 073e
शिरःस्नातस्तु तैलैश्च नाङ्गं किञ्चिदपि स्पृशेत् । 074a
तिलपिष्टं न चाश्नीयाद्गतसर्वरसं तथा ॥ 074c
नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन । 075a
वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत् ॥ 075c
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः । 076a
आयुरस्य निकृन्तामि प्रज्ञामस्याददे तथा ॥ 076c
उच्छिष्टो यः प्राद्रवति स्वाध्यायं चाधिगच्छति । 077a
यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ॥ 077c
तस्य वेदः प्रणश्येत आयुश्च परिहीयते । 078a
तस्माद्युक्तो ह्यनध्याये नाधीयीत कदाचन ॥ 078c
प्रत्यादित्यं प्रत्यनलं प्रतिगां च प्रतिद्विजान् । 079a
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥ 079c
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः । 080a
दक्षिणाभिमुखो रात्रौ तथा हन्युर्न रिष्यते ॥ 080c
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः । 081a
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥ 081c
दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा । 082a
क्षत्रियोपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥ 082c
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च । 083a
तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ॥ 083c
गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन । 084a
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ॥ 084c
सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह । 085a
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥ 085c
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । 086a
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ॥ 086c
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः । 087a
वर्जयित्वा तु कमलं तथा कुवलयं प्रभो ॥ 087c
रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि । 088a
काञ्चनीयाऽपि माला या न सा दुष्यति कर्हिचित् ॥ 088c
स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशाम्पते ॥ 089ac
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः । 090a
तथा नान्यधृतं धार्यं न चातिविकृतं तथा ॥ 090c
अन्यदेव भवेद्वासः शयनीये नरोत्तम । 091a
अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ॥ 091c
प्रियङ्गुचन्दनाभ्यां च बिल्वेन स्थगरेण च । 092a
पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ॥ 092c
उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः । 093a
'नोपवासं वृथा कुर्याद्धनं नापहरेदिह ॥' 093c
पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् । 094a
समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर ॥ 094c
नावलीढमवज्ञातमाघ्रातं भक्षयेदपि । 095a
तथा नोद्धृतसाराणि प्रेक्षतामप्रदाय च ॥ 095c
नासन्निविष्टो मेधावी नाशुचिर्न च सत्सु च । 096a
प्रतिषिद्धान्न धर्मेषु भक्ष्यान्भुञ्जीत पृष्ठतः ॥ 096c
पिप्पलं च वटं चैव शणशाकं तथैव च । 097a
उदुम्बरं न खादेच्च भवार्थी पुरुषो नृप ॥ 097c
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् । 098a
वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥ 098c
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु । 099a
दधिसक्तून्न दोषायां पिबेन्मधु च नित्यशः ॥ 099c
सायं प्रातश्च भुञ्जीत नान्तराले समाहितः । 100a
वालेन तु न भुञ्जीत परश्राद्धं तथैव च ॥ 100c
वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन । 101a
भूमौ सदैव नाश्नीयान्नाशौचं न च शब्दवत् ॥ 101c
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशाम्पते । 102a
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥ 102c
समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर । 103a
विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ॥ 103c
पानीयं पायसं सक्तून्दधि सर्पिर्मधून्यपि । 104a
निरस्य शेषमन्येषां न प्रदेयं तु कस्यचित् ॥ 104c
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् । 105a
दधि चाप्यनु पानं वै न कर्तव्यं भवार्थिना ॥ 105c
आचम्य चैव हस्तेन परिस्राव्य तथोदकम् । 106a
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ॥ 106c
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः । 107a
ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ॥ 107c
अद्भिः प्राणान्समालभ्य नाभिं पाणितले तथा । 108a
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥ 108c
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्तमुदाहृतम् । 109a
कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥ 109c
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत । 110a
तेन पित्र्याणि कुर्वीत स्पृष्ट्वाऽऽपो न्यायतः सदा ॥ 110c
परापवादं न ब्रूयान्नाप्रियं च कदाचन । 111a
न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥ 111c
पतितैस्तु कथां नेच्छेद्दर्शनं च विवर्जयेत् । 112a
संसर्गं च न गच्छेत तथाऽऽयुर्विन्दते महत् ॥ 112c
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् । 113a
न चास्नातां स्त्रियं गच्छेत्तथाऽऽयुर्विन्दते महत् ॥ 113c
स्वेस्वे तीर्थे समाचम्य कार्ये समुपकल्पिते । 114a
त्रिः पीत्वाऽऽपो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥ 114c
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः । 115a
कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥ 115c
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव । 116a
प्रवृत्तं चाहितं चोक्त्वा बहुभोजनवत्तदा ॥ 116c
सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् । 117a
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥ 117c
निष्ठीवने मैथुने च क्षुते अक्ष्याविमेचने । 118a
उदक्या दर्शने तद्वन्नग्नस्याचमनं स्मृतम् । 118c
स्पृशेत्कर्णं सप्रणवं सूर्यमीक्षेत्सदा तदा ॥ 118e
वृद्धो ज्ञातिस्तथा मित्रमनाथा च स्वसा गुरुः । 119a
कुलीनः पण्डित इति रक्ष्या निःस्वाः स्वशक्तितः । 119c
गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥ 119e
गृहे पारावता धार्याः शुकाश्च सहशारिकाः । 120a
'देवताप्रतिमाऽऽदर्शश्चन्दनाः पुष्पवल्लिकाः ॥ 120c
शुद्धं जलं सुवर्णं च रजतं गृहमङ्गलम् ।' 121a
गृहेष्वेते न पापाय यथा वै तैलपायिकाः ॥ 121c
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा । 122a
निविशेयुर्यदा तत्र शान्तिमेव तदाऽऽचरेत् ॥ 122c
अमङ्गल्यः सतां शापस्तथाऽऽक्रोशो महात्मनाम् । 123a
महात्मनोतिगुह्यानि न वक्तव्यानि कर्हिचित् || 123c
अगम्याश्च न गच्छेत राज्ञः पत्नीं सखीस्तथा । 124a
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर || 124c
बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च । 125a
सम्बन्धिनां च राजेन्द्र तथाऽऽयुर्विन्दते महत् ॥ 125c
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् । 126a
तदा वसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ॥ 126c
सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् । 127a
न भुञ्जीत च मेधावी तथाऽऽयुर्विन्दते महत् ॥ 127c
नक्तं न कुर्यात्पित्र्याणि नक्तं चैव प्रसाधनम् । 128a
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ॥ 128c
वर्जनीयाश्चैव नित्यं सक्तवो निशि भारत । 129a
शेषाणि चावदातानि पानीयं चापि भोजने ॥ 129c
सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत् । 130a
'न भुक्त्वा मैथुनं गच्छेन्न धावेन्नातिहासकम् ।' 130c
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ 130e
महाकुले प्रसूतां च प्रशस्तां लक्षणैस्तथा । 131a
वयसाऽवरां सुनक्षत्रां कन्यामावोढुमर्हति ॥ 131c
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा । 132a
पुत्राः प्रदेया जातेषु कुलधर्मेषु भारत ॥ 132c
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते । 133a
पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ॥ 133c
शिरःस्नातोथ कुर्वीत दैवं पित्र्यमथापि च ॥ 134ac
'तैलं जन्मदिनेऽष्टम्यां चतुर्दश्यां च पर्वसु ।' 135a
नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः । 135c
न प्रोष्ठपदयोः कार्यं तथाऽऽग्नेये च भारत ॥ 135e
दारुणेषु च सर्वेषु प्रत्यरिं च विवर्जयेत् । 136a
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥ 136c
प्राङ्मुखः श्मश्रुकर्माणि कारयेत्सुसमाहितः । 137a
उदङ्मुखो वा राजेन्द्र तथाऽऽयुर्विन्दते महत् ॥ 137c
'सामुद्रेणाम्भसा स्नानं क्षौरं श्राद्धेषु भोजनम् । 138a
अन्तर्वत्नीपतिः कुर्वन्न पुत्रफलमश्नुते ॥ 138c
सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः ।' 139a
परिवादं न च ब्रूयात्परेषामात्मनस्तथा । 139c
परिवादो ह्यधर्माय प्रोच्यते भरतर्षभ ॥ 139e
वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम । 140a
समार्षां व्यङ्गिकांश्चैव मातुः सकुलजां तथा ॥ 140c
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् । 141a
तथा निकृष्टवर्णां च वर्णोत्कृष्टां च वर्जयेत् || 141c
अयोनिं च वियोनिं च न गच्छेत विचक्षणः । 142a
पिङ्गलां कुष्ठिनीं नारीं न त्वमुद्वोढुमर्हसि ॥ 142c
अपस्मारिकुले जातां निहीनां चापि वर्जयेत् । 143a
श्वित्रिणां च कुले जातां क्षयिणां मनुजेश्वर ॥ 143c
'सुरोमशामतिस्थूलां कन्यां मातृपितृस्थिताम् । 144a
अलज्जां भ्रातृजां तुष्टां वर्जयेद्रक्तकेशिनीम् ॥' 144c
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः । 145a
मनोज्ञां दर्शनीयां च तां भवान्वोढुमर्हति ॥ 145c
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर । 146a
अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥ 146c
अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः । 147a
वेदे च ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥ 147c
न चेर्ष्या स्त्रीषु कर्तव्या रक्ष्या दाराश्च सर्वशः । 148a
अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ॥ 148c
अनायुष्यं दिवा स्वप्नं तथाऽभ्युदितशायिता । 149a
प्रातर्निशायां च तथा ये चोच्छिष्टा भवन्ति च ॥ 149c
पारदार्यमनायुष्यं नापितोच्छिष्टता तथा । 150a
यत्नतो वै न कर्तव्यमत्याशश्चैव भारत ॥ 150c
सन्ध्यां न भुञ्ज्यान्न स्नायेन्न पुरीषं समुत्सृजेत् । 151a
प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् ॥ 151c
ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप । 152a
देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥ 152c
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः । 153a
अनर्चिते ह्यनायुष्यं गमनं तत्र भारत ॥ 153c
न चैकेन परिव्रज्यं न गन्तव्यं तथा निशि । 154a
'नानापदि परस्यान्नमनिमन्त्रितमाहरेत् ॥ 154c
एकोद्दिष्टं न भुञ्जीत प्रथमं तु विशेषतः । 155a
सपिण्डीकरणं वर्ज्यं सविधानं च मासिकम् ॥ 155c
अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् ॥ 156ac
मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् । 157a
हितं चाप्यहितं चापि न विचार्यं नरर्षभ ॥ 157c
'क्षत्रियस्तु विशेषेण धनुर्वेदं समभ्यसेत् ।' 158a
धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप ॥ 158c
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह । 159a
यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते ॥ 159c
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च । 160a
प्रजापालनयुक्तश्च नारतिं लभते क्वचित् ॥ 160c
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत । 161a
गान्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ॥ 161c
पुराणमितिहासाश्च तथाऽऽख्यानानि यानि च । 162a
महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ॥ 162c
'मान्यानां माननं कुर्यान्निन्द्यानां निन्दनं तथा । 163a
गोब्राह्मणार्थे युध्येत प्राणानपि परित्यजेत् ॥ 163c
न स्त्रीषु सज्जेद्द्रष्टव्यं शक्त्या दानरुचिर्भवेत् । 164a
न ब्राह्मणान्परिभवेत्कार्पण्यं ब्राह्मणैर्वृतम् । 164c
पतितान्नाभिभाषेत नाह्वयेत रजस्वलाम् ॥' 164e
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् । 165a
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ॥ 165c
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् । 166a
'आषोडशादृतुर्मुख्यः पुत्रजन्मनि शब्दितः' || 166c
एतेन विधिना पत्नीमुपगच्छेत पण्डितः । 167a
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्वशः ॥ 167c
यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः । 168a
अत ऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥ 168c
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः । 169a
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥ 169c
आचारो भूतिजनन आचारः कीर्तिवर्धनः । 170a
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥ 170c
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते । 171a
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥ 171c
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् । 172a
अनुकम्प्य सर्ववर्णान्ब्रह्मणा समुदाहृतम् ॥ 172c
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । 173a
स शुभान्प्राप्नुयाल्लोकान्सदाचारपरो नृप ॥ 173c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥
7-161-3 जपैर्होमैस्तथौषधैरिति झ. पाठः ॥ 7-161-5 वर्तयन् अनुतिष्ठन् ॥ 7-161-8 अलक्षणं कुष्ठापस्मारादिविरुद्धं लक्षणम् ॥ 7-161-10 श्रवात् श्रवणात् । तं पुरुषम् । जनाः साधवः ॥ 7-161-15 सङ्कुसुको दुर्जनः अस्थिरश्च । नित्योच्छिष्टः सूचकश्चेति क. थ. पाठः ॥ 7-161-17 उपसृष्टं राहुग्रस्तम् ॥ 7-161-29 उपानहौ च छत्रं च इति थ. पाठः ॥ 7-161-39 न रिष्यते न हिंस्यते ॥ 7-161-48 त्रीणि भोज्यानि । अदृष्टं शूद्रोदक्यादिभिः ॥ 7-161-52 अज्ञातामृतुमतीत्वेन कामुकत्वेन वा ॥ 7-161-52 अन्तर्धाने अत्यन्तमन्धकारे । संयुक्ते इतरेण स्त्र्यादिना ॥ 7-161-52 स्नात्वा वासो न निर्धुनेत् इति । न चैवार्द्राणि वासांसि इति च. झ. पाठः ॥ 7-161-60 प्रस्कन्दयेदन्नशेषं किञ्चित्त्यजेत् । भुक्त्वा च मनसाग्निमुपस्पृशेत् ॥ 7-161-61 ऋतं निःश्रेयसमिच्छन्निति शेषः ॥ 7-161-63 प्राणान्नासादीन् ऊर्ध्वच्छिद्राणि ॥ 7-161-64 अवस्नातं स्नानजलम् । अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् इति क. थ. ध. पाठः ॥ 7-161-65 सावित्राणि मन्त्रविशेषान् । शान्तिहोमांश्च कुर्वीत पवित्राणि च कारयेत् इति क. थ. ध. पाठः ॥ 7-161-73 नरिष्यते हिंस्यते ॥ 7-161-74 शिरोभ्यक्तेन तैलेनेति क. थ. ध. पाठः ॥ 7-161-75 न चिन्तयेत् वेदम् ॥ 7-161-76 प्रजास्तस्याददे तथा इति झ. पाठः ॥ 7-161-85 मिथ्याप्रवृत्तेपि सम्यग्वर्तितव्यम् ॥ 7-161-90 विपर्ययमौत्तराधर्यम् । अपदशं दशाहीनम् । न चापदशमेव चेति झ. पाठः ॥ 7-161-93 उपवासं ब्रह्मचर्यम् ॥ 7-161-96 धर्मेषु श्राद्धादिषु ॥ 7-161-100 वालेन केशेन उपलक्षितम् । परश्राद्धं शत्रुश्राद्धम् ॥ 7-161-104 निरस्य पानीयादीन्विहाय । अन्येषां भक्षाणां शेषमन्यस्मै न देयम् ॥ 7-161-105 अधिकं तोयपानं तु न कर्तव्यम् इति ङ. पाठः । शङ्कां जीर्यति न वेति । दधीति तक्रं त्वनुपानं कर्तव्यमेव । यथेष्टं भुङ्क्ष्व माभैषीस्तक्रं सलवणं पिबेति तस्य दृष्टार्थत्वोक्तेः ॥ 7-161-108 प्राणान्नासादीन् ॥ 7-161-113 नच वर्धकीम् इति ड. थ. ध. पाठः । नच नर्तकीम् इति क. पाठः ॥ 7-161-121 एते तैलपायिकादिवन्न पापाय । अभ्युदयायेत्यर्थः । पारावतादयः सर्वे पक्षिविशेषा एव ॥ 7-161-125 शारणिकस्य रक्षणार्थिनः । तथा नागरिकस्य चेति ध. पाठः ॥ 7-161-128 प्रसाधनं केशानां संस्कारादिकम् । पानीयस्य क्रिया स्नानं न नक्तं स्रायादिति गृहे रात्रौ शिरःस्नाननिषेधः ॥ 7-161-132 पुत्राः प्रदेया ज्ञानेष्विति झ. पाठः । ज्ञानेषु बहुज्ञाननिमित्तं पुत्रा देया विद्वत्सु समर्पणीयाः ॥ 7-161-133 कुलात्सत्कुलसम्बन्धेन । निवेश्या विवाह्याः । लभ्या लम्भनीयाः ॥ 7-161-135 तैलाभ्यञ्जनमष्टम्यामिति ङ. थ. पाठः । आग्नेये कृत्तिकायाम् ॥ 7-161-136 स्वनक्षत्राद्दिननक्षत्रं यावद्गणयित्वा नवभिर्भागे हृते पञ्चमी तारा प्रत्यरिः ॥ 7-161-140 व्यङ्गिनीं न्यूनाङ्गीम् । व्यङ्गिकां विरुद्धाङ्गेनाधिकेन युक्ताम् । समार्षां समानप्रवराम् ॥ 7-161-142 अयोनिम् अज्ञातकुलाम् । वियोनिं हीनकुलाम् ॥ 7-161-150 नापितोच्छिष्टता श्मश्रुकर्मोत्तरमस्नातता ॥ 7-161-153 दर्शको द्रष्टा ॥ 7-161-154 परिव्रज्यं देशान्तरे गन्तव्यम् ॥ 7-161-157 मातुः पितुश्च पुत्राणां कार्यमिति थ. पाठः ॥ 7-161-169 आयुष्याणामामायुष्कराणां कर्मणाम् । उद्देशः सङ्क्षेपः ॥