श्रीः अध्यायः 160

भीष्मेण युधिष्ठिरम् प्रति विप्रवचनस्यैहिकपारत्रिकश्रेयस्साधनत्वकथनम् ॥ 1 ॥ तथाऽनशनस्य महातपस्त्वकथनम् ॥ 2 ॥

युधिष्ठिर उवाच 001
दानं बहुविधाकारं शान्तिः सत्यमहिंसितम् । 001a
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य वाऽपि यत् ॥ 001c
पितामहस्य विदितं किमन्यत्तपसो बलात् । 002a
तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि ॥ 002c
भीष्म उवाच 003
तपसः प्रक्षयो यावत्तावल्लोको युधिष्ठिर । 003a
मतं ममात्र कौन्तेय तपो नानशनात्परम् ॥ 003c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 004a
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ॥ 004c
अतीत्य सुरलोकं च गवां लोकं च भारत । 005a
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतम् ॥ 005c
तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन्भगीरथम् । 006a
कथं भगीरथाऽऽगास्त्वमिमं लोकं दुरासदम् ॥ 006c
न हि देवा न गन्धर्वा न मनुष्या भगीरथ । 007a
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥ 007c
भगीरथ उवाच 008
निश्शङ्कमन्नमददां ब्राह्मणोभ्यः शतं सहस्राणि सदैवतानाम् । 008a
ब्राह्मं व्रतं नित्यमास्थाय विद्वन्न त्वेवाहं तस्य फलादिहागाम् ॥ 008c
दशैकरात्रान्दशपञ्चरात्रानेकादशैकादशकान्क्रतूंश्च । 009a
ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम् ॥ 009c
यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् । 010a
अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम् ॥ 010c
दशायुतानि चाश्वानां गोऽयुतानि च विंशतिम् । 011a
पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः ॥ 011c
सुवर्णचन्द्रोत्तमधारिणीनां कन्योत्तमानामददं सहस्रम् । 012a
षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन ॥ 012c
दशार्बुदान्यददं गोसवेज्यास्वेकैकशो दश गा लोकनाथ । 013a
समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ॥ 013c
आप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् । 014a
गृष्टीनां क्षीरदोग्ध्रीणां रोहिणीनां शतानि च ॥ 014c
दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह । 015a
प्रादां दशगुणं ब्रह्मन्न तेनाहमिहागतः ॥ 015c
वाजिनां बाह्लिजातानामयुतान्यददं दश । 016a
कर्काणां हेममालानां न च तेनाहमागतः ॥ 016c
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दशान्वहम् । 017a
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ॥ 017c
वाजिनां श्यामकर्णानां हरितानां पितामह । 018a
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ॥ 018c
ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् । 019a
पद्मिनो वै सहस्राणि प्रादां दश च सप्त च ॥ 019c
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः । 020a
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ॥ 020c
सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः । 021a
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः ॥ 021c
वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम् । 022a
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह ॥ 022c
सहस्रं निष्ककण्ठानामददं दक्षिणामहम् । 023a
विजित्य भूपतीन्सर्वानर्थैरिष्ट्वा पितामह । 023c
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ॥ 023e
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते । 024a
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ॥ 024c
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते । 025a
वरं ग्रामशतं चाहमेकैकस्यां तिथावदाम् ॥ 025c
तपस्वी नियताहारः शममास्थाय वाग्यतः । 026a
दीर्घकालं हिमवति गङ्गार्थमचरं तपः ॥ 026c
मूर्ध्ना हरं महादेवं प्रणम्याभ्यर्चयन्नृपः । 027a
न तेनाप्यहमागच्छं फलेनेह पितामह ॥ 027c
शम्याक्षेपैरयजं यच्च देवाञ्शतैः क्रतूनामयुतैश्चापि यच्च । 028a
त्रयोदशद्वादशाहैश्च देव सपौण्डरीकैर्न च तेषां फलेन ॥ 028c
अष्टौ सहस्राणि ककुद्मिनामहं शुक्लर्षभाणामददं द्विजेभ्यः । 029a
एकैकं वै काञ्चनं शृङ्गमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः ॥ 029c
हिरण्यरत्ननिचयानददं रत्नपर्वतान् । 030a
धनधान्यैः समृद्धांश्च ग्रामाञ्शतसहस्रशः ॥ 030c
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः । 031a
इष्ट्वाऽनेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ॥ 031c
एकादशाहैरयजं सदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव । 032a
गवां धनैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतोऽस्मि ॥ 032c
निष्कैककण्ठमददं योजनायतं तद्विस्तीर्णं काञ्चनपादपानाम् । 033a
वनं चूतानां रत्नविभूषितानां नचैव तेषामागतोऽहं फलेन ॥ 033c
तुरायणं हि व्रतमप्यधृष्यमक्रोधनोऽकरवं त्रिंशदब्दान् । 034a
शतं गवामष्टशतानि चैव दिनेदिने ह्यददं ब्राह्मणेभ्यः ॥ 034c
पयस्विनीनामथ रोहिणीनां तथैवान्याननडुहो लोकनाथ । 035a
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ॥ 035c
'शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं यजन् ।' 036a
त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा । 036c
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥ 036e
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः । 037a
न चैव तेषां देवेश फलेनाहमिहागमम् ॥ 037c
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे । 038a
गवां शतानामयुतमददं न च तेन वै ॥ 038c
इन्द्रेण गुह्यं निहितं वै गुहायां यद्भार्गवस्तपसेहाभ्यविन्दत् । 039a
जाज्वल्यमानमुशनस्तेजसेह तत्साधयामासमहं वरेण्य ॥ 039c
'ब्राह्मणार्थाय कर्माणि रणं चैव करोमि यत् ।' 040a
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते । 040c
'पूजितैर्ब्राह्मणैर्नित्यं न च तेनाहमागतः ॥' 040e
सहस्रमृषयश्चासन्ये वै तत्र समागताः । 041a
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ॥ 041c
प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो । 042a
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ॥ 042c
कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत् । 043a
तपो हि नान्यच्चानशनान्मतं मे नमोस्तु ते देववर प्रसीद ॥ 043c
भीष्म उवाच 044
इत्युक्तवन्तं ब्रह्मा तु राजानं स भगीरथम् । 044a
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ॥ 044c
तस्मादनशनैर्युक्तो विप्रान्पूजय नित्यदा । 045a
विप्राणां वचनात्सर्वं परत्रेह च सिध्यति ॥ 045c
वासोभिरन्नैर्गोभिश्च शुभैर्नैवेशिकैरपि । 046a
शुभैः सुरक्षणैश्चापि स्तोष्या एव द्विजास्तथा । 046c
एतदेव परं गुह्यमलोभेन समाचर ॥ 046e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥

7-160-1 अहिंसितमहिंसा ॥ 7-160-2 तपसः कृच्छ्रचान्द्रायणादेर्बलादन्यत्किं बलवत्तरं विदितं न किमप्यपितु तपसस्तपसां मध्ये यत्परम् ॥ 7-160-3 लोको भोग्यप्रदेशः ॥ 7-160-5 ब्रह्मलोकं च सोगच्छत् इति क. पाठः ॥ 7-160-9 एकरात्रादयः क्रतुविशेषाः ॥ 7-160-10 नारीपुरं कन्यासमूहमदाम् ॥ 7-160-12 चन्द्रो भूषणविशेषः । न तेनाहमागामित्यनुवर्तते ॥ 7-160-13 एकैकशो ब्राह्मणाय दश गाः ॥ 7-160-14 आप्तोर्यामः सोमयागः ॥ 7-160-16 कर्काणां शुक्लाश्वानाम् ॥ 7-160-19 पद्मिनः पद्मचिह्नान् ॥ 7-160-21 दक्षिणारूपा यज्ञाङ्गभूता दक्षिणावयवाः ॥ 7-160-23 निष्ककण्ठानां युद्धे जितानां राज्ञां सहस्रं विप्रेभ्यो विप्रवचनाद्दक्षिणा अददम् उत्सृष्टवान् ॥ 7-160-28 शम्या पृथुबुध्नः काष्ठदण्डः । स बलेनाक्षिप्तो यावद्दूरं पतति तावद्देशो यस्य वेदिकाया भवति स शम्याक्षेपोयागः । देवान् साद्यस्कानामयुतैश्चापि यत्तत् इति झ. पाठः ॥ 7-160-32 आर्कायणैः षोडशभिश्च इति झ. पाठः ॥ 7-160-33 काञ्चनमयानां वृक्षाणां चूतानां नानावर्णरत्नखचितानां वनमित्यर्थः ॥ 7-160-36 अग्नीनग्निचयनानि ॥ 7-160-39 गुहायां निहितं गोपितं गुह्यं यदनशनं तपसा अभ्यविन्दत् आज्ञासीत् । उशनस्तेजसा शुक्रस्य बलेन जाज्वल्यमानम् । तच्च वाक्यशेषात्सर्वभोगत्यागात्मकमनशनं सर्वभोगैर्ब्राह्मणानां सन्तर्पणं च । साधयामासमित्यार्षम् ॥