श्रीः अध्यायः 159
भीष्मेण युधिष्ठिरम् प्रति पुण्यपापकर्मफलभेदस्य पुण्यकर्मणां च तरतमभावस्य च बोधनाय तादृश कर्मविशेषसाध्यफलविशेषप्रतिपादकशक्रगौतमसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
एको लोकस्तु कृतिनां स्वर्गे लोके पितामह । 001a
उत तत्रापि नानात्वं सर्वं ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः । 002a
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो नराः ॥ 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
गौतमस्य मुनेस्तात संवादं वासवस्य च ॥ 003c
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः । 004a
महावने हस्तिशिशुं परिद्यूनममातृकम् ॥ 004c
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः । 005a
स तु दीर्घेण कालेन बभूवातिबलो महान् ॥ 005c
तं प्रपन्नं महादीर्घं प्रभूतं सर्वतोमदम् । 006a
धृतराष्ट्रस्वरूपेण शक्रो जग्राह हस्तिनम् ॥ 006c
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः । 007a
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥ 007c
मामाहार्षीर्हस्तिनं पुत्रमेनं दुःखात्पुष्टं धृतराष्ट्रात्कृतज्ञ । 008a
मैत्रं सतां सप्तपदं वदन्ति मित्रद्रोहो नेह राजन्स्पृशेत्त्वाम् ॥ 008c
इध्मोदकप्रदातारं शून्यपालं ममाश्रमे । 009a
विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ॥ 009c
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम । 010a
न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ॥ 010c
धृतराष्ट्र उवाच 011
गवां सहस्रं भवते ददानि शतानि निष्कस्य ददानि पञ्च । 011a
अन्यच्च वित्तं विविधं महर्षे किं ब्राह्मणस्येह गजेन कृत्यम् ॥ 011c
गौतम उवाच 012
तवैव गावो हि भवन्तु राजन्दास्यः सनिष्का विविधं च रत्नम् । 012a
अन्यच्च वित्तं विविधं नरेन्द्र किं ब्राह्मणस्येह धनेन कृत्यम् ॥ 012c
धृतराष्ट्र उवाच 013
ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं राजन्यानां नागकुलानि विप्र । 013a
स्वं वाहनं नयतो नास्त्यधर्मो नागश्रेष्ठं गौतमास्मान्निवर्त ॥ 013c
गौतम उवाच 014
यत्र प्रेतो नन्दति पुण्यकर्मा यत्र प्रेतः शोचते पापकर्मा । 014a
वैवस्वतस्य सदने महात्मनस्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 014c
धृतराष्ट्र उवाच 015
ये निष्क्रिया नास्तिकाः श्रद्धधानाः पापात्मान इन्द्रियार्थे निसृष्टाः । 015a
यमस्य ते यातनां प्राप्नुवन्ति परं गन्ता धृतराष्ट्रो न तत्र ॥ 015c
गौतम उवाच 016
वैवस्वती संयमनी जनानां यत्रानृतं नोच्यते यत्र सत्यम् । 016a
यत्राम्बलान्बलिनो घातयन्ति तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 016c
धृतराष्ट्र उवाच 017
ज्येष्ठां स्वसारं पितरं मातरं च गुरून्यथाऽमानयन्तश्चरन्ति । 017a
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥ 017c
गौतम उवाच 018
मन्दाकिनी वैश्रवणस्य राज्ञो महाभागा भोगिजनप्रवेश्या । 018a
गन्धर्वयक्षैरप्सरोभिश्च जुष्टा तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 018c
धृतराष्ट्र उवाच 019
अतिथिव्रताः सुव्रता ये जना वै प्रतिश्रयं ददति ब्राह्मणेभ्यः । 019a
शिष्टाशिनः संविभज्याश्रितेभ्यो मन्दाकिनीं तेऽपि हि भूषयन्ति ॥ 019c
गौतम उवाच 020
मेरोरग्रे यद्वनं भाति रम्यं सुपुष्पितं किन्नरीगीतजुष्टम् । 020a
सुदर्शना यत्र जम्बूर्विशाला तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 020c
धृतराष्ट्र उवाच 021
ये ब्राह्मणा मृदवः सत्यशीला बहुश्रुताः सर्वभूताभिरामाः । 021a
येऽधीयते सेतिहासं पुराणं मध्वाहुत्या जुह्वति वै द्विजेभ्यः ॥ 021c
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र । 022a
यदन्यत्ते विदितं स्थानमस्ति तद्ब्रूहि त्वं त्वरितो ह्येष यामि ॥ 022c
गौतम उवाच 023
सुपुष्पितं किन्नरराजजुष्टं प्रियं वनं नन्दनं नारदस्य । 023a
गन्धर्वाणामप्सरसां च सद्म तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 023c
धृतराष्ट्र उवाच 024
ये नृत्यगीते कुशला जनाः सदा देवात्मानः प्रियकामाश्चरन्ति । 024a
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥ 024c
गौतम उवाच 025
यत्रोत्तराः कुरवो भान्ति रम्या देवैः सार्धं मोदमाना नरेन्द्र । 025a
यत्राग्नियौनाश्च वसन्ति विप्रा अब्योनयः पर्वतयोनयश्च ॥ 025c
यत्र शक्रो वर्षति सर्वकामान्यत्र स्त्रियः कामचारा भवन्ति । 026a
यत्र चेर्ष्या नास्ति नारीनराणां तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 026c
धृतराष्ट्र उवाच 027
ये सर्वभूतेषु निवृत्तकामा अमांसादा न्यस्तदण्डाश्चरन्ति । 027a
न हिंसन्ति स्थावरं जङ्गमानि भूतानां ये सर्वभूतात्मभूताः ॥ 027c
निराशिषो निर्ममा वीतरागा लाभालाभे तुल्यनिन्दाप्रशंसाः । 028a
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥ 028c
गौतम उवाच 029
ततोऽपरे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः । 029a
सोमस्य राज्ञः सदने महात्मनस्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 029c
धृतराष्ट्र उवाच 030
ये दानशीला न प्रतिगृह्णते सदा न चाप्यर्थांश्चाददते परेभ्यः । 030a
येषामदेयमर्हते नास्ति किञ्चित्सर्वातिथ्याः सुप्रजना जनाश्च ॥ 030c
ये क्षन्तारो नाभिजल्पन्ति चान्याञ्शक्ता भूत्वा सततं पुण्यशीलाः । 031a
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥ 031c
गौतम उवाच 032
ततोऽपरे भान्ति लोकाः सनातना विराजसा वितमस्का विशोकाः । 032a
आदित्यदेवस्य पदं महात्मनस्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 032c
धृतराष्ट्र उवाच 033
स्वाध्यायशीला गुरुशुश्रूषकाश्च तपस्विनः सुव्रताः सत्यसन्धाः । 033a
आचार्याणामप्रतिकूलभाषिणो नित्योत्थिता गुरुकर्मस्वचोद्याः ॥ 033c
तथाविधानामेष लोको महर्षे विशुद्धानां भावितो वाग्यतानाम् । 034a
सत्ये स्थितानां वेदविदां महात्मनां परं गन्ता धृतराष्ट्रो न तत्र ॥ 034c
गौतम उवाच 035
ततोऽपरे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा विशोकाः । 035a
वरुणस्य राज्ञः सदने महात्मनस्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 035c
धृतराष्ट्र उवाच 036
चातुर्मास्यैर्ये यजन्ते जनाः सदा तथेष्टीनां दशशतं प्राप्नुवन्ति । 036a
ये चाग्निहोत्रं जुह्वति श्रद्दधाना यथान्यायं त्रीणि वर्षाणि विप्राः ॥ 036c
स्वदारगाणां धर्मकृतां महात्मनां यथोदिते वर्त्मनि सुस्थितानाम् । 037a
धर्मात्मनामुद्वहतां गतिं तां परं गन्ता धृतराष्ट्रो न तत्र ॥ 037c
गौतम उवाच 038
इन्द्रस्य लोका विरजा विशोका दुरन्वयाः काङ्क्षिता मानवानाम् । 038a
तस्याहं ते भवने भूरितेजसो राजन्निमं हस्तिनं यातयिष्ये ॥ 038c
धृतराष्ट्र उवाच 039
शतवर्षजीवी यश्च शूरो मनुष्यो वेदाध्यायी यश्च यज्वाऽप्रमत्तः । 039a
एते सर्वे शक्रलोकं व्रजन्ति परं गन्ता धृतराष्ट्रो न तत्र ॥ 039c
गौतम उवाच 040
प्राजापत्याः सन्ति लोका महान्तो नाकस्य पृष्ठे पुष्कला वीतशोकाः । 040a
मनीषिणां सर्वलोकाभयानां तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 040c
धृतराष्ट्र उवाच 041
ये राजानो राजसूयाभिषिक्ता धर्मात्मानो रक्षितारः प्रजानाम् । 041a
ये चाश्वमेधावभृथे प्लुताङ्गास्तेषां लोका धृतराष्ट्रो न तत्र ॥ 041c
गौतम उवाच 042
ततःपरं भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः । 042a
तस्मिन्नहं दुर्लभे चाप्यधृष्ये गवां लोके हस्तिनं यातयिष्ये ॥ 042c
धृतराष्ट्र उवाच 043
यो गोसहस्री शतदो महात्मा यो गोशती दश दद्याच्च शक्त्या । 043a
तथा दशभ्यो यश्च दद्यादिहैकां पञ्चभ्यो वा दानशीलस्तथैकाम् ॥ 043c
ये जीर्यन्ते ब्रह्मचर्येण विप्रा ब्राह्मीं वाचं परिरक्षन्ति चैव । 044a
मनस्विनस्तीर्थयात्रापरा ये ते तत्र मोदन्ति ततो विमानैः ॥ 044c
प्रभासं मानसं तीर्थ पुष्कराणि महत्सरः । 045a
पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ॥ 045c
गयां हयशिरश्चैव विपाशां स्थूलवालुकाम् । 046a
तूष्णीं गङ्गां शनैर्गङ्गां महाह्रदमथापि च ॥ 046c
गोमतीं कौशिकीं पम्पां महात्मानो धृतव्रताः । 047a
सरस्वतीदृषद्वत्यौ यमुनां ये तु यान्ति च ॥ 047c
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः । 048a
प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ॥ 048c
गौतम उवाच 049
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि । 049a
न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ॥ 049c
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा । 050a
न जरामरणे तत्र न पुण्यं न च पातकम् || 050c
तस्मिन्विरजसि स्फीते प्रज्ञासत्वव्यवस्थिते । 051a
स्वयम्भुभवने पुण्ये हस्तिनं यातयिष्यति ॥ 051c
धृतराष्ट्र उवाच 052
निर्मुक्ताः सर्वसङ्गैर्ये कृतात्मानो यतव्रताः । 052a
अध्यात्मयोगसंस्तानैर्युक्ताः स्वर्गगतिं गताः ॥ 052c
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्विकाः । 053a
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ॥ 053c
गौतम उवाच 054
रथन्तरं यत्र बृहच्च गीयते यत्र वेदिः पुण्यजनैर्वृता च । 054a
यत्रोपयाति हरिभिः सोमपीथी तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥ 054c
बुध्यामि त्वां वृत्रहणं शतक्रतुं व्यतिक्रमन्तं भुवनानि विश्वा । 055a
कच्चिन्न वाचा वृजिनं कदाचिदकार्षं ते मनसोऽभिषङ्गात् ॥ 055c
शतक्रतुरुवाच 056
मघवाऽहं लोकपथं प्रजानामन्वागमं परिवादे गजस्य । 056a
तस्माद्भवान्प्रणतं माऽनुशास्तु ब्रवीषि यत्तत्करवाणि सर्वम् ॥ 056c
गौतम उवाच 057
श्वेतं करेणुं मम पुत्रं हि नागं प्रियं तु मे षष्टिवर्षं तु बालम् । 057a
यो मे वने वसतोऽभूद्द्वितीयस्तमेव मे देहि सुरेन्द्र नागम् ॥ 057c
शतक्रतुरुवाच 058
अयं सुतस्ते द्विजमुख्यनाग आघ्रायते त्वामभिवीक्षमाणः । 058a
पादौ च ते नासिकयोपजिघ्रते श्रेयो ममाध्याहि नमश्च तेऽस्तु ॥ 058c
गौतम उवाच 059
शिवं सदैवेह सुरेन्द्र तुभ्यं ध्यायामि पूजां च सदा प्रयुञ्जे । 059a
ममापि त्वं शक्र शिवं ददस्व त्वया दत्तं प्रतिगृह्णामि नागम् ॥ 059c
शतक्रतुरुवाच 060
येषां वेदा निहिता वै गुहायां मनीषिणां सत्यवतां महात्मनाम् । 060a
तेषां त्वयैकेन महात्मनाऽस्मि बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ॥ 060c
हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना । 061a
त्वं हि प्राप्तुं शुभाल्ँलोकानह्नाय च चिराय च ॥ 061c
भीष्म उवाच 062
स गौतमं पुरुस्कृत्य सह पुत्रेण हस्तिना । 062a
दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ॥ 062c
इदं यः शृणुयान्नित्यं यः पठेद्वा जितेन्द्रियः । 063a
स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा ॥ 063c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥
7-159-2 पुण्यपापयोरिव पुण्यानामवान्तरभेदोऽस्तीत्यर्थः ॥ 7-159-11 दासीशतं निष्कशतानि पञ्च । इति झ. पाठः ॥ 7-159-12 ब्राह्मणस्य ब्राह्मणसम्बन्धिना धनेन ॥ 7-159-14 यातयिष्ये हस्तिनम् । स्वीयं फलं त्वत्तो ग्रहीष्ये इत्यर्थः । हस्तिनं याचयिष्ये इति क. ङ. ध. पाठः ॥ 7-159-18 यथा शत्रुं मदमत्ताश्चरन्ति इति झ. पाठः ॥ 7-159-25 अग्नियौना धृष्टद्युम्नवदग्निरेव यौनं योनिर्येषां ते ॥ 7-159-31 क्षन्तारः क्षमिणः ॥ 7-159-51 हस्तिनं मे प्रदास्यसि इति झ. पाठः ॥