श्रीः अध्यायः 158
भीष्मेण युधिष्ठिरम् प्रति ब्रह्मस्वापहारस्यानर्थहेतुताया प्रमाणतया नृपचण्डालसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ । 001a
नृशंसकारिणो योनिं कां ते गच्छन्ति मानवाः ॥ 001c
भीष्म उवाच 002
पातकानां परं ह्येतद्ब्रह्मस्वहरणं बलात् । 002a
सान्वयास्ते विनश्यन्ति चण्डालाः प्रेत्य चेह च ॥ 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥ 003c
राजोवाच 004
वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे । 004a
श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥ 004c
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते । 005a
कस्माद्गोरजसा ध्वस्तमङ्गं तोयेन सिञ्चसि ॥ 005c
चण्डाल उवाच 006
ब्राह्मणस्य गवां राजन्प्रयान्तीनां रजः पुरा । 006a
सोममुद्ध्वंसयामास तं सोममपिबन्द्विजाः ॥ 006c
भृत्यानामपि राज्ञस्तु रजसा ध्वंसितं मखे । 007a
तत्पानाच्च द्विजाः सर्वे क्षिप्रं नरकमाविशन् ॥ 007c
दीक्षितश्च स राजाऽपि क्षिप्रं नरकमाविशत् । 008a
सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥ 008c
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः । 009a
ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥ 009c
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधूय तान् । 010a
पशूनवेक्षमाणश्च साधुवृत्तेन दम्पती ॥ 010c
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः । 011a
तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप || 011c
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं नृप । 012a
ब्रह्मस्वहारी न नृपः सोऽप्रतिष्ठां गतिं ययौ ॥ 012c
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन । 013a
न पश्येन्नानुमोदेच्च न हर्तुं किञ्चिदाहरेत् ॥ 013c
ब्रह्मस्वं रजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् । 014a
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता ॥ 014c
एतद्धि धनमुत्कृष्टं द्विजानामविशेषतः । 015a
विक्रयं त्विह सोमस्य गर्हयन्ति मनीषिणः ॥ 015c
ये चैनं क्रीणते तात ये च विक्रीणते जनाः । 016a
ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥ 016c
सोमं तु रजसा ध्वस्तं विक्रीणन्विधिपूर्वकम् । 017a
श्रोत्रियो वार्धुषी भूत्वा नचिरं स विनश्यति ॥ 017c
नरकं त्रिंशतं प्राप्य स्वविष्ठामुपजीवति । 018a
ब्रह्मस्वहारी नरकान्यातनाश्चानुभूय तु । 018c
मलेषु च कृमिर्भूत्वा श्वविष्ठामुपजीवती ॥ 018e
श्वचर्यामतिमानं च सखिदारेषु विप्लवम् । 019a
तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ॥ 019c
म्लानं मां विकलं पश्य विवर्णं हरिणं कृशम् । 020a
अतिमानेन मां पश्य पापां गतिमुपागतम् ॥ 020c
अहं वै विपुले तात कुले धनसमन्विते । 021a
पौराणे जन्मनि विभो ज्ञानविज्ञानपारगः ॥ 021c
अभवं तत्र जानानो ह्येतान्दोषान्मदात्सदा । 022a
संरब्ध एव भूतानां पृष्ठमांसमभक्षयम् ॥ 022c
सोऽहं वै विदितः सर्वैर्दूरगो वनिनो वने । 023a
साधूनां परिभावेप्सुर्विप्राणां गर्वितो धनैः । 023c
इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम् ॥ 023e
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् । 024a
धावमानं सुसंरब्ध पश्य मां रजसाऽन्वितम् ॥ 024c
स्वाध्यायैस्तु महात्पापं हरन्ति गृहमेधिनः । 025a
दानैः पृथग्विधैश्चापि विप्रजात्यां मनीषिणः ॥ 025c
तथा पापकृतं विप्रमाश्रमस्थं महीपते । 026a
सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ॥ 026c
अहं हि पापयोन्यां वै प्रसूतः क्षत्रियर्षभ । 027a
निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥ 027c
जातिस्मरत्वं च मम केनचित्पूर्वकर्मणा । 028a
शुभने येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥ 028c
त्वमिमं सम्प्रपन्नाय संशयं ब्रूहि पृच्छते । 029a
चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥ 029c
राजोवाच 030
चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि । 030a
ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥ 030c
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् । 031a
हित्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥ 031c
भीष्म उवाच 032
इत्युक्तः स तदा तेन ब्रह्मस्वार्थे परन्तप । 032a
हित्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥ 032c
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ । 033a
यदीच्छसि महाबाहो शाश्वतीं गतिमात्मनः ॥ 033c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥
7-158-4 रजःसेवी रजोगुण्ठितः ॥ 7-158-5 गोरजसा गोपरागेण प्रचलत्या धेनोरूधसः सकाशात्प्रसरन्त्यः क्षीरविप्रुषोऽत्र परागपर्यायेण रजःपदेनोच्यन्ते । ध्वस्तं व्याप्तं विप्रुण्मात्रेणापि ब्रह्मस्वेन देहस्निग्धत्वं माभूदिति भावः ॥ 7-158-6 रजः क्षीरं कर्तृ मार्गस्थवल्लीरूपं सोममुद्ध्वंसयामास नाशितवत् ॥ 7-158-10 ता गावः परैः पीतेन स्वपयसा तेषां पुत्रपौत्रान् पशून् दम्पती च जघ्नुः सद्योऽल्पायुषश्चक्रुः ॥ 7-158-16 एनं ब्रह्मस्वसृष्टम् ॥ 7-158-19 श्वचर्यां नीचसेवाम् । अतिमानी इतरद्वयापेक्षया अत्यन्तं पापीत्यर्थः । स्वस्वदारेषु विप्लवमिति ध. पाठः ॥ 7-158-22 भूतानामुपरि सदा संरब्ध एव कुपित एवेत्यन्वयः ॥ 7-158-24 भ्रमरैस्तीक्ष्णतुण्डैरर्द्यमानमिव चेलान्तवद्दह्यमानमिव क्लिश्यन्तं मां पश्य । आदीप्तमिव चालातमिति थ. पाठः ॥