श्रीः अध्यायः 157
नहुषेणागस्त्यस्य स्वयाने योजनम् ॥ 1 ॥ तथा तेन सह श्रुतिप्रामाण्यविवादे स्वविरुद्धभाषिणोऽगस्त्यस्य मस्तके स्वपादेन ताडनम् ॥ 2 ॥ तदा तज्जटान्तर्निगूढेन भृगुणा शापदानेन तस्याधःपातनम् ॥ 3 ॥ ततो देवैरिन्द्रस्य स्वपदेऽभिषेचनम् ॥ 4 । नहुषस्य स्वकृतपूर्वबलिदीपदानादिजसुकृतमहिम्ना पुनः स्वर्गप्राप्तिः ॥ 5 ॥
युधिष्ठिर उवाच 001
कथं वै स विपन्नश्च कथं वै पातितो भुवि । 001a
कथं देवेन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥ 001c
भीष्म उवाच 002
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः । 002a
सर्वा एव प्रवर्तन्ते या दिव्या याश्च मानुषाः ॥ 002c
तथैव दीपदानानि सर्वोपकरणानि वै । 003a
बलिकर्म च यच्चान्यद्वत्सकाश्च पृथग्विधाः ॥ 003c
सर्वास्तस्य समुत्पन्ना देवेन्द्रस्य महात्मनः । 004a
देवलोके नृलोके च सदाचारपुरस्कृताः ॥ 004c
ताश्चोद्भवन्ति राजेन्द्र समृद्ध्यै गृहमेधिनः । 005a
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥ 005c
यथा सिद्धस्य चान्नस्य गृह्य चाग्रं प्रदीयते । 006a
बलयश्च गृहोद्देशे ततः प्रीयन्ति देवताः ॥ 006c
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणि । 007a
तथा शतगुणा प्रीतिर्देवतानां प्रजायते ॥ 007c
एवं धूपप्रदानं च दीपदानं च साधवः । 008a
प्रयच्छति नमस्कारैर्युक्तमात्मगुणावहम् ॥ 008c
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता । 009a
नमस्कारप्रयुक्तेन तेन प्रीणन्ति देवताः ॥ 009c
पितरश्च महाभागा ऋषयश्च तपोधनाः । 010a
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनाऽर्चिताः ॥ 010c
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः । 011a
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥ 011c
कस्य चित्त्वथ कालस्य भाग्यक्षय उपस्थिते । 012a
सर्वमेतदवज्ञाय न चकार यथाविधि ॥ 012c
ततः स परिहीणोऽभूत्सुरेन्द्रो बलदर्पतः । 013a
धूपदीपादिकविधिं न यथावच्चकार ह । 013c
ततोऽस्य यज्ञविषयो रक्षोभिः परिबाध्यते ॥ 013e
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह । 014a
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥ 014c
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् । 015a
निमीलयस्व नयने जटां यावद्विशामि ते । 015c
'सुरेन्द्रपतनायेति स च नेत्रं न्यमीलयत् ॥' 015e
ततोऽगस्त्यस्याथ जटां दृष्ट्वा प्राविशदच्युतः । 016a
भृगुः स सुमहातेजाः पातनाय नृपस्य च ॥ 016c
ततः स देवराट् प्राप्तस्तमृषिं वाहनाय वै । 017a
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशाम्पते । 017c
योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते ॥ 017e
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप । 018a
इत्युक्तो नरहुषस्तेन योजयामास तं मुनिम् ॥ 018c
भृगुस्तस्य जटान्तस्थो बभूव हृषितो भृशम् । 019a
न चापि दर्शनं तस्य चकार स भृगुस्तदा । 019c
वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥ 019e
न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै । 020a
तं तु राजा पदैकेन चोदयामास भारत । 020c
'श्रुतिः स्मृतिः प्रमाणं वा नेतिवादेन देवराट् ॥' 020e
न चुकोप स धर्मात्मा ततः पादेन देवराट् । 021a
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥ 021c
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः । 022a
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥ 022c
यस्मात्पदाऽवधीः क्रोधाच्छिरसीमं महामुनिम् । 023a
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥ 023c
शप्तोऽथ स तदा तेन सर्पो भूत्वा पपात ह । 024a
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥ 024c
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते । 025a
स शक्तोनाऽभविष्यद्वै पातने तस्य तेजसा ॥ 025c
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा । 026a
पतितोऽपि महाराज भूतले स्मृतिमानभूत् ॥ 026c
प्रसादयामास भृगुं शापान्तो मे भवेदिति । 027a
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् । 027c
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥ 027e
भृगुरुवाच 028
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः । 028a
स त्वां मोक्षयिता शापादित्युक्त्वाऽन्तरधीयत ॥ 028c
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः । 029a
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥ 029c
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः । 030a
जगाम ब्रह्मभवनं पश्यतस्ते जनाधिप ॥ 030c
तदा स पातयित्वा तं नहुषं भूतले भृगुः । 031a
जगाम ब्रह्मभवनं ब्रह्मणे च न्यवेदयत् ॥ 031c
ततः शक्रं समानाय्य देवानाह पितामहः । 032a
वरदानान्मम सुरा नहुषो राज्यमाप्तवान् । 032c
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥ 032e
न च शक्यं विना राज्ञा सुखं वर्तयितुं क्वचित् । 033a
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥ 033c
एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् । 034a
एवमस्त्विति संहृष्टाः प्रत्यूचुस्तं नराधिप ॥ 034c
सोऽभिषिक्तो भगवता देवराज्ये च वासवः । 035a
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥ 035c
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् । 036a
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥ 036c
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः । 037a
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपस्य दायकः । 037c
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥ 037e
यावदक्षिणिमेषाणि ज्वलन्ते तावतीः समाः । 038a
रूपवान्बलवांश्चापि नरो भवति दीपदः ॥ 038c
य इदं शृणुयाद्वापि पठते यो द्विजोत्तमः । 039a
ब्रह्मलोकमवाप्नोति स च वै नात्र संशयः ॥ 039c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥
7-157-3 वत्सकाः पुत्रादेर्वार्षिकोत्सवाः । यच्चान्यदुत्सेकाश्चेति थ. ध. पाठः ॥ 7-157-20 तं तु राजा प्रतोदेनेति झ. पाठः ॥ 7-157-30 भवनं तेन पुण्येन कर्मणेति थ. ध. पाठः ॥ 7-157-38 रूपवान्धर्मवांश्चापीति ध. पाठः ॥