श्रीः अध्यायः 156

भीष्मेण युधिष्ठिरम् प्रति बलिदीपप्रदानकथनोपयोगितया नहुषचरितकथनारम्भः ॥ 1 ॥ देवैर्वरदानपूर्वकमिन्द्रपदम् प्रापितेन नहुषेण पर्पात्सप्तर्ष्यादिभिः पर्यायेण स्वयानवाहनम् ॥ 2 ॥ अगस्त्यस्य तद्यानवहनपर्याये भृगुणाऽगस्त्यम् प्रति स्वेन नहुषस्याधःपातनप्रतिज्ञानम् ॥ 3 ॥

युधिष्ठिर उवाच 001
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् । 001a
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ॥ 001c
धूपप्रदानस्य फलं प्रदीपस्य तथैव च । 002a
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥ 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
नहुषस्य च संवादमगस्त्यस्य भृगोस्तथा ॥ 003c
नहुषो हि महाराज राजर्षिः सुमहातपाः । 004a
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥ 004c
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् । 005a
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥ 005c
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः । 006a
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ॥ 006c
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा । 007a
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ॥ 007c
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः । 008a
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ॥ 008c
देवानभ्यर्चयच्चापि विधिवत्स सुरेश्वरः । 009a
सर्वानेव यथान्यायं यथापूर्वमरिन्दम ॥ 009c
अथेन्द्रोऽहमिति ज्ञात्वा अहङ्कारं समाविशत् । 010a
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः ॥ 010c
सप्तर्षीन्वाहयामास वरदानदमान्वितः । 011a
परिहीनक्रियश्चैव दुर्बलत्वमुपेयिवान् ॥ 011c
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् । 012a
अहङ्काराभिभूतस्य सुमहानत्यवर्तत ॥ 012c
अथ पर्यायशः सर्वान्वाहनायोपचक्रमे । 013a
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥ 013c
अथागत्य महातेजा भृगुर्ब्रह्मविदांवरः । 014a
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥ 014c
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः । 015a
नहुषस्य किमर्थं वै मर्षयाम महामुने ॥ 015c
अगस्त्य उवाच 016
कथमेष मया शक्यः शप्तुं यस्य महामुने । 016a
वरदेन वरो दत्तो भवतो विदितश्च सः ॥ 016c
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति । 017a
इत्यनेन वरं देवो याचितो गच्छता दिवम् ॥ 017c
एवं न दग्धः स मया भवता च न संशयः । 018a
अन्येनाप्यृषिमुख्येन न दग्धो न च पातितः ॥ 018c
अमृतं चैव पानाय दत्तमस्मै पुरा विभो । 019a
महात्मना तदर्थं च नास्माभिर्विनिपात्यते ॥ 019c
प्रायच्छत वरं देवः प्रजानां दुःखकारणम् । 020a
द्विजेष्वधर्मयुक्तानि स करोति नराधमः ॥ 020c
तत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतांवर । 021a
भवांश्चापि यथा ब्रूयात्तत्कर्तास्मि न संशयः ॥ 021c
भृगुरुवाच 022
पितामहनियोगेन भवन्तं सोऽहमागतः । 022a
प्रतिकर्तुं बलवति नहुषे दर्पमोहिते ॥ 022c
अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट् । 023a
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥ 023c
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् । 024a
सञ्चाल्य पापकर्माणमैन्द्रात्स्थानात्सुदुर्मतिम् || 024c
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति । 025a
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥ 025c
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् । 026a
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥ 026c
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् । 027a
धरण्यां पातयिष्यामि पश्यतस्ते महामुने ॥ 027c
नहुषं पापकर्माणमैश्वर्यबलमोहितम् । 028a
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥ 028c
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः । 029a
अगस्त्यः परमप्रीतो बभूव विगतज्वरः ॥ 029c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

7-156-7 लाजाभिः । आर्षं स्त्रीत्वम् ॥ 7-156-10 अथेन्द्रस्य भविष्यत्वादहङ्कारः समाविशत् इति ध. पाठः ॥ 7-156-18 न शप्तो विनिपातिन इति थ. ध. पाठः ॥ 7-156-26 शपिष्ये पापमोहितमिति थ. ध. पाठः ॥