श्रीः अध्यायः 155

भीष्मेण युधिष्ठिरम् प्रति पुष्पधूपदीपदानादिप्रशंसापरबलिशुक्रसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच 001
आलोकदानं नामैतत्कीदृशं भरतर्षभ । 001a
कथमेतत्समुत्पन्नं फलं वा तद्ब्रवीहि मे ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥ 002c
तपस्वी कश्चिदभवत्सुवर्णो नाम भारत । 003a
वर्णतो हेमवर्णः स सुवर्ण इति विश्रुतः ॥ 003c
कुलशीलगुणोपेतः स्वाध्यायोपरमं गतः । 004a
बहून्सुवंशप्रभवान्समतीतः स्वकैर्गुणैः ॥ 004c
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च । 005a
कुशलप्रश्नमन्योन्यं तौ चोभौ तत्र चक्रतुः ॥ 005c
ततस्तौ सत्यसङ्कल्पौ मेरौ काञ्चनपर्वते । 006a
देवर्षिभिः सदा जुष्टे सहितौ सन्न्यषीदताम् ॥ 006c
तत्र तौ कथयन्तौ स्तां कथा नानाविधाश्रयाः । 007a
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥ 007c
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायम्भुवं प्रति । 008a
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥ 008c
सुमनोगन्धधूपाद्यैरिज्यन्ते दैवतानि च । 009a
किमेतत्कथमुत्पन्नं फलं योगं च शंस मे ॥ 009c
मनुरुवाच 010
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 010a
शुक्रस्य च बलेश्चैव संवादं वै महात्मनोः ॥ 010c
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः । 011a
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥ 011c
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः । 012a
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥ 012c
कथेयमभवत्तत्र त्वया या परिकीर्तिता । 013a
सुमनोधूपदीपानां सम्प्रदाने फलं प्रति ॥ 013c
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् ॥ 014ac
सुमनोधूपदीपानां किं फलं ब्रह्मिवित्तम । 015a
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥ 015c
शुक्र उवाच 016
अग्नीषोमादिसृष्टौ तु विष्णोः सर्वात्मनः प्रभोः । 016a
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् ॥ 016c
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च । 017a
सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले । 017c
अमृतं च विषं चैव याश्चान्यास्तृणजातयः ॥ 017e
अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददाति च । 018a
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ॥ 018c
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् । 019a
ओषध्यो ह्यमृतं सर्वा विषं तेजोग्निसम्भवम् ॥ 019c
अमृतं मनो ह्लादयते श्रियं चापि ददाति च । 020a
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥ 020c
देवताभ्यः सुमनसो यो ददाति नरः शुचिः । 021a
तस्मै सुमनसो देवास्तस्मात्सुमनसः स्मृताः ॥ 021c
यंयमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो । 022a
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ॥ 022c
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् । 023a
ओषध्यो बहुवीर्या हि बहुरूपास्तथैव च ॥ 023c
यज्ञियानां च वृक्षाणामयज्ञीयान्निबोध मे । 024a
आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥ 024c
रक्षसामुरगाणां च यक्षाणां च तथा प्रियाः । 025a
मनुष्याणां पितॄणां च कान्ता यास्त्वनुपूर्वशः ॥ 025c
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः । 026a
अकण्टकाः कण्टकिनो गन्धरूपरसान्विताः ॥ 026c
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः । 027a
इष्टगन्धानि देवानां पुष्पाणीति विभावय ॥ 027c
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः । 028a
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥ 028c
'पद्मं च तुलसी जातिरापः सर्वेषु पूजिता ।' 029a
जलजानि च माल्यानि पद्मादीनि च यानि वै । 029c
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥ 029e
ओपध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः । 030a
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥ 030c
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः । 031a
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥ 031c
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः । 032a
चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ॥ 032c
न तु श्मशानसम्भूता न देवायतनोद्भवाः । 033a
सन्नयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥ 033c
गिरिसानुरुहाः सौम्या देवानामुपधारयेत् । 034a
प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ॥ 034c
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः । 035a
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥ 035c
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत । 036a
सङ्कल्पसिद्धा मर्त्यानामीप्सिताश्च मनोरथाः ॥ 036c
देवाः प्रीणन्ति सततं मानिता मानयन्ति च । 037a
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥ 037c
अत ऊर्ध्वं प्रवक्ष्यामि धूपदानविधेः फलम् । 038a
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥ 038c
निर्यासाः सरलाश्चैव कृत्रिमाश्चैव ते त्रयः । 039a
इष्टोऽनिष्टो भवेद्गन्धस्तन्मे विस्तरशः शृणु ॥ 039c
निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते । 040a
गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ॥ 040c
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् । 041a
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ॥ 041c
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः । 042a
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥ 042c
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः । 043a
येऽन्ये वैहारिकास्तत्र मानुषाणामिति स्मृताः ॥ 043c
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः । 044a
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥ 044c
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् । 045a
यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ 045c
ज्योतिस्तेजः प्रकाशं वाऽप्यूर्ध्वगं चापि वर्धते । 046a
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥ 046c
अन्धन्तमस्तमिस्रं च दक्षिणायनमेव च । 047a
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥ 047c
यस्मादूर्ध्वगमे तत्तु तमसश्चैव भेषजम् । 048a
तस्मादूर्ध्वगतेर्दाता भवेदत्रेति निश्चयः ॥ 048c
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः । 049a
तामसा राक्षसाश्चैव तस्माद्दीपः प्रदीयते ॥ 049c
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः । 050a
तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ॥ 050c
दीपहार्ता भवेदन्धस्तमोगतिरसुप्रभः । 051a
दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥ 051c
हविषा प्रथमः कल्पो द्वितीयश्चौषधीरसैः । 052a
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥ 052c
देवालये सभायां च गिरौ चैत्यचतुष्पथे । 053a
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ 053c
कुलोद्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति । 054a
ज्योतिषां चैव सालोक्यं दीपदाता भवेन्नरः ॥ 054c
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् । 055a
देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥ 055c
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः । 056a
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥ 056c
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् । 057a
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ॥ 057c
गृह्णन्ति देवता नित्यमाशंसन्ति सदा गृहान् । 058a
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥ 058c
इतो दत्तेन जीवन्ति देवताः पितरस्तथा । 059a
ते प्रीताः प्रीणयन्त्येनमायुषा यशसा धनैः ॥ 059c
बलयः सह पुष्पैस्तु देवानामुपहारयेत् । 060a
दधिदुग्धमयाः पुण्याः सुगन्धाः प्रियदर्शनाः ॥ 060c
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् । 061a
सुरासवपुरस्कारा लाजोल्लापिकभूषिताः ॥ 061c
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः । 062a
तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत् ॥ 062c
अग्रदाताऽग्रभोगी स्याद्बलवीर्यसमन्वितः । 063a
तस्मादग्रं प्रयच्छेत देवभ्यः प्रतिपूजितम् ॥ 063c
ज्वलन्त्यहरहो वेश्म याश्चास्य गृहदेवताः । 064a
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥ 064c
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः । 065a
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥ 065c
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते । 066a
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥ 066c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥

7-155-6 रमणीये शिलापृष्ठ इति झ. पाठः ॥ 7-155-7 स्ताम् अभवताम् ॥ 7-155-16 तपः वर्णाश्रमधर्मः । धर्मो दयादिः ॥ 7-155-17 वीरुधो लताः| ओषध्यो व्रीह्यादयः ॥ 7-155-40 प्रवरस्तेषां घृतमिश्रोऽथ कुञ्जर इति थ. पाठः ॥ 7-155-46 ज्योतिर्दीपादि । तेजः कान्तिः । प्रकाशः कीर्तिः ॥ 7-155-47 तमिस्रम् अन्धकारः । अन्धं तमो नाम नरकरूपम् । तथा दक्षिणायनमप्यन्धं तम एव । अत उत्तरायणे रात्रौ तमोनाशकं ज्योतिर्देयं नरकनिवृत्त्यर्थम् ॥ 7-155-52 हविषा घृतेन ओषधीरसैः तिलसर्षपादिस्नेहैः । वसामेदोस्थीनि प्राण्यवयवास्तेषां निर्यासाः स्नेहाः । वसादयः पृथग्वा निर्यासात् ॥ 7-155-60 दधिद्रप्सयुताः पुण्या इति ध. पाठः ॥ 7-155-61 लाजोल्लापिकभूषिताः । उल्लापिक उपरिलापनम् ॥