श्रीः अध्यायः 154
भीष्मेण युधिष्ठिरम् प्रति गृहस्थधर्मप्रतिपादकपृथिवीवासुदेवसंवादानुवादः ॥ 1 ॥
'युधिष्ठिर उवाच 001
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ । 001a
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥ 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप । 002a
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥ 002c
संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान् । 003a
पप्रच्छ भरतश्रेष्ठ मां त्वं यत्पृच्छसेऽद्य वै ॥ 003c
वासुदेव उवाच 004
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा । 004a
किमवश्यं धरे कार्यं किं वा कृत्वा सुखं भवेत् ॥ 004c
पृथिव्युवाच 005
ऋषयः पितरो देवा मनुष्याश्चैव माधव । 005a
पूज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे ॥ 005c
सदा यज्ञेन देवांश्च सदाऽऽतिथ्येन मानुषान् । 006a
छन्दतस्तर्पणेनापि पितॄन्युञ्जन्ति नित्यशः ॥ 006c
तेन ह्यृषिगणाः प्रीता ब्रह्मचर्येण चानघ । 007a
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ॥ 007c
कुर्यात्तथैव देवान्वै प्रियं मे मधुसूदन । 008a
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च ॥ 008c
पयोमूलफलैर्वाऽपि पितॄणां प्रीतिमावहेत् । 009a
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ॥ 009c
आग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् । 010a
प्रजानां पतये चैव पृथग्घोमो विधीयते ॥ 010c
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् । 011a
दक्षिणायां यमायेति प्रतीच्यां वरुणाय च ॥ 011c
सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः । 012a
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ॥ 012c
मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै । 013a
मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत् ॥ 013c
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् । 014a
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं यथा हरेत् ॥ 014c
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजाय वै । 015a
अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत् ॥ 015c
यदा श्राद्धं पितृभ्योपि दातुमिच्छेत मानवः । 016a
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥ 016c
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः । 017a
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्म्णभोजनम् ॥ 017c
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि । 018a
अर्घ्यपूर्वं महाराज ततः प्रीणाति मानवान् । 018c
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ 018e
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः । 019a
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥ 019c
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते । 020a
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥ 020c
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च । 021a
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥ 021c
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि || 022ac
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते ॥ 023ac
एतांस्तु धर्मान्गार्हस्थ्यान्यः कुर्यादनसूयकः । 024a
स इहर्द्धिं परां प्राप्य प्रेत्य लोके महीयते ॥ 024c
भीष्म उवाच 025
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् । 025a
तथा चकार सततं त्वमप्येवं सदाऽऽचर ॥ 025c
एतद्गृहस्थधर्मं त्वं चेष्टमानो जनाधिप । 026a
इह लोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ 026c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥
7-154-1 गार्हस्थ्यं गृहस्थयोग्यम् ॥ 7-154-7 बलिकर्म वैश्वदेवः तत्र प्रागन्नमेव ग्राह्यम् ॥ 7-154-15 भिक्षाद्वयं तथेति थ. ध. पाठः ॥