श्रीः अध्यायः 153

भीष्मेण युधिष्ठिरम् प्रति सकलसेव्यताप्रयोजकगुणप्रतिपादकेन्द्रमातलिसंवादानुवादः ॥ 1 ॥

'युधिष्ठिर उवाच 001
केषां देवा महाभागाः सन्नमन्ते महात्मनाम् । 001a
लोकेऽस्मिंस्तानृषीन्सर्वाञ्श्रोतुमिच्छामि सत्तम ॥ 001c
भीष्म उवाच 002
इतिहासमिमं विप्राः कीर्तयन्ति पुराविदः । 002a
अस्मिन्नर्थे महाप्राज्ञास्तं निबोध युधिष्ठिर ॥ 002c
वृत्रं हत्वाऽप्युपावृत्तं त्रिदशानां पुरस्कृतम् । 003a
महेन्द्रमनुसम्प्राप्तं स्तूयमानं महर्षिभिः ॥ 003c
श्रिया परमया युक्तं रथस्थं हरिवाहनम् । 004a
मातलिः प्राञ्जलिर्भूत्वा देवमिन्द्रमुवाच ह ॥ 004c
नमस्कृतानां सर्वेषां भगवंस्त्वं पुरस्कृतः । 005a
येषां लोके नमस्कुर्यात्तान्ब्रवीतु भवान्मम ॥ 005c
तस्य तद्वचनं श्रुत्वा देवराजः शचीपतिः । 006a
यन्तारं परिपृच्छन्तं तमिन्द्रः प्रत्युवाच सः ॥ 006c
धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः । 007a
नाधर्मे वर्तते नित्यं तान्नमस्यामि मातले ॥ 007c
ये रूपगुणसम्पन्नाः प्रमदाहृदयङ्गमाः । 008a
निवृत्ताः कामभोगेषु तान्नमस्यामि मातले ॥ 008c
स्वेषु भोगेषु सन्तुष्टाः सुवाचो वचनक्षमाः । 009a
अमानकामाश्चार्घार्हास्तान्नमस्यामि मातले ॥ 009c
धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम् । 010a
चलितां ये निगृह्णन्ति तान्नित्यं पूजयाम्यहम् ॥ 010c
इष्टैर्दारैरुपेतानां शुचीनामग्निहोत्रिणाम् । 011a
चतुष्पादकुटुम्बानां मातले प्रणमाम्यहम् ॥ 011c
महतस्तपसा प्राप्तौ धनस्य विपुलस्य च । 012a
त्यागस्तस्य न वै कार्यो योऽऽत्मानं नावबुध्यते ॥ 012c
येषामर्थस्तथा कामो धर्ममूलविवर्धितः । 013a
धर्मार्थौ तस्य नियतौ तान्नमस्यामि मातले ॥ 013c
धर्ममूलार्थकामानां ब्राह्मणानां गवामपि | 014a
पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम् ॥ 014c
ये भुक्त्वा मानुषान्भोगान्पूर्वे वयसि मातले । 015a
तपसा स्वर्गमायान्ति शश्वत्तान्पूजयाम्यहम् ॥ 015c
असम्भोगान्नचासक्तान्धर्मनित्याञ्जितेन्द्रियान् । 016a
सन्न्यस्तानचलप्रख्यान्मनसा पूजयामि तान् ॥ 016c
ज्ञानप्रसन्नविद्यानां निरूढं धर्ममीप्सितम् । 017a
परैः कीर्तितशौचानां मातले तान्नमाम्यहम् ॥' 017c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥